________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रिया
शत्रानशावेष्यति तु सस्यौ ॥ ११९ ॥ [ सि० ५।२।२० ] वर्त्तमाने धातोः शत्रानशौ स्याताम् । भविष्यत्काले तु तौ सस्यौ । यान् । शयानः । यास्यन् ॥ ११९ ॥
1
'शत्रा०' भविष्यत्काले त्विति एष्यन्मात्रे भविष्यन्तीति विषयेऽर्थे, सस्यौ स्यप्रत्ययसहितौ, शत्राशौ भवतः । स्योऽपि प्रत्ययत्वाद्धातोरेव । यान् यान्तौ यान्तः । शयानौ शयानः । कुर्वन् कुर्वाणः | ५ एकविषयत्वाद्वर्त्तमानापि याति यातः यान्ति । एवं सर्वत्र । तथा सन् सन्ति । अधीयानः अधीते । विद्यमानः विद्यते । जुह्वत् जुहोति । विदन् वेत्ति । जानन् जानाति । तथा तरादौ प्रत्यये, पचत्तरः पचत्तमः । पचतितरां पचद्रूपः पचतिरूपम् । जल्पत्कल्पः जल्पतिकल्पं । पश्यद्देश्यः पश्यतिदेश्यम् । पठद्देश्यः पठतिदेशीयम् । एवं पचमानतरः पचमानतमः पचतेतरामित्यादि । द्वितीयाद्यन्तसामानाधिकरण्यसम्बोधनतरादिवर्जिततद्धितप्रत्ययोत्तरपदक्रियालक्षणहेतुषु एषु षट्सु वर्त्तमानाया अन्वया - १० योगाच्छत्रानशावेव । पचन्तं पचमानं पश्य । पचता पचमानेन कृतम् । पचते पचमानाय देहि । पचतः पचमानाद्भीतः । पचतः पचमानस्य स्वम् । पचति पचमाने गतः । सम्बोधने हे पचन हे पचमान । तराद्यन्यतद्धिते कुर्वतोऽपत्यं कौर्वतः पाचतः वैक्ष्यमाणिः कुर्वत्पाश्यः । कुर्वच्चरः । उत्तरपदे, भज्यत इति भक्तिः । कुर्वन् भक्तिरस्य कुर्वद्भक्तिः कुर्वाणभक्तिः । क्रियाया लक्षणं ज्ञापकम् । तत्र तिष्ठन्तो गणका अनुशासति, अनुशासनक्रियया गणका लक्ष्यन्ते । सा चानुशासनक्रिया उपविष्टे १५ गच्छति चेत्युभयविषयत्वेन दुर्लक्षा | अतः स्थानक्रियया लक्ष्यते । ननु अनुशासतीत्यत्रापि वर्त्तमाना न प्राप्नोति यतोऽनयापि गणका लक्ष्यन्ते । नैवम् । क्रियालक्ष्यक्रियायां वर्त्तमाना न स्यात् । गणकादिद्रव्यलक्षकक्रियायां भवत्येव । यथा 'शयानां भुञ्जते यवनाः' । बहुषु मूत्रयत्सु कश्चैत्र इति पृष्टः कश्चिदाह यस्तिष्ठन्मूत्रयति । एवं यो गच्छन् भक्षयति, शयानो भुङ्क्ते, योऽधीयान आस्ते, तथा पठन् पिबति, स मैत्रः । एवं यः पचन् पठति । योऽधीयान आस्ते, य आसीनोऽधीते, तथा फलन्ती वर्द्धते २० द्राक्षा, पुष्यन्ती वर्द्धतेऽब्जिनी । शयाना वर्द्धते दूर्वा आसीनं वर्द्धते बिसम् । क्रियाया हेतुर्जनकस्तत्र जनयन् वसति । अधीयानो वसति । भविष्यति तु सस्यौ । यास्यन् इति । एवं शयिष्यमाणः । पक्षन् पक्ष्यमाणः । यास्यति शयिष्यते पक्ष्यते भविष्यन् इति । अध्येष्यमाणः अध्येष्यते इत्यादि । पक्ष्यत्तरः पक्ष्यमाणतमः । पक्ष्यतितमामित्यादि सर्वेष्वेकविषयत्वात् भविष्यन्त्यपि । पक्ष्यन् व्रजति । पक्ष्यमाणो व्रजतीति क्रियायां क्रियार्थायां एकविषयत्वाच्च भविष्यन्त्यादयोपि । पक्ष्यामीति व्रजति । पाचको व्रजति । २५ पक्तुं व्रजति । पूर्ववदेव द्वितीयाद्यन्तसमानाधिकरण्यादिषु भविष्यन्त्याः समन्वयाभावादभावः । पक्ष्यन्तं पश्य । पक्ष्यमाणं पश्य । हे पक्ष्यन् हे पक्ष्यमाण ब्राह्मण । पाक्ष्यतः पाक्ष्यमाणिः पक्ष्यमाणपाशः पक्ष्यद्भक्तिः पक्ष्यमाणप्रियः । जल्पिष्यन्तो ज्ञास्यन्ते पण्डिताः । अध्येष्यमाणा वेत्स्यन्तीत्यादि । सदेष्यतोरभावे तु श्वः पक्ता । बहुलाधिकारात् द्रव्यगुणयोर्लक्षणे हेतुमद्भावद्योतके त्यादियोगे च न भवति । यो कम्पते सोऽश्वत्थः । यत्तरति तल्लघु । हन्तीति पलायते । वर्षतीति धावति । करिष्यतीति ३० व्रजति । हनिष्यतीति नश्यति । पचत्यतो लभते विजयतेऽतः पूज्यते । क्रियाया अपि लक्षणे [ न केवलं द्रव्यगुणयोर्लक्षणे ] चादियोगे न भवति । यः पचति च पठति च स चैत्रः । योऽधीते चास्ते च स चैत्रः । शकारः शित्कार्यार्थः । ऋकारो ङधावर्थः ॥ ११९ ॥ अत्रोपयोगि सूत्रम् ।
३३
Jain Education International
८७५
For Personal & Private Use Only
www.jainelibrary.org