________________
८७४
महामहोपाध्यायश्रीविनयविजयगणिविरचितेखोपज्ञहैमलघुकर्तरि वा निपात्यन्ते । इणः कसुर्निपात्यते । ईयिवान् समीयिवान् उपेयिवान् । तथान्यत्पूर्वादभातेः कसुरिडभावश्च निपात्यते अनाश्वान् । 'घृतं जयमतेरनाशुष' इति भारविः । तथा वचेचूंगादेशाद्वा अनुपूर्वात् कानो निपात्यते । अनूचानः अनुवचनं कृतवानित्यर्थः । निपातनस्येष्टविषयत्वात् कर्तुरन्यत्र अनुक्तमित्याद्येव भवति । बेग एवेच्छन्त्यन्ये। वावचनात् पक्षेऽद्यतन्यादयोऽपि अगात् ५ उपैत् उपेयाय नाशीत् नानात् नाश अन्ववोचत् अन्ववक् अन्वब्रवीत् अनूवाच । यत्तु 'उपेयिवाननाश्वाननूचानश्चेति पाणिनीयसूत्रम् । तत्र उपेत्य विवक्षितमिति कौमुद्याम् । किश्च 'श्रुसदवसभ्यः परोक्षा वा' (५।२।१) भूते इत्यनुवर्तते । एभ्यो भूतार्थवृत्तिभ्यः परोक्षा वा स्यात् । उपशुश्राव उपससाद अनूवास । वावचनात् यथा स्वकालमद्यतनी ह्यस्तनी च । उपाश्रौषीत् उपाशृणोत् । उपासीदत् उपासदत्। अन्ववात्सीत् अन्ववसत् । एवं शुश्रुवे अश्रावि । अश्रूयतेत्यादि । १०अन्ये तु श्वादिभ्यो भूतमात्रे वसुमेवेच्छन्ति न परोक्षाम् । तथोक्तं कौमुद्याम्-भाषायां सदवसश्रुवः सदादिभ्यो भूतसामान्ये लिङ् वा स्यात् । तस्य च नित्यं कसुः । 'निषेदुषीमासनबन्धधीरः अध्यूषुषस्तामभवन जनस्य' । शुश्रुवान् । यस्तनीमपीच्छत्यन्यः । बहुवचनं व्याप्त्यर्थम् । तेन भूतानद्यतनेऽपीयं हस्तन्या न बाध्यते । असरूपत्वादेवाद्यतन्या वावचनम् । विभक्तिष्वसरूपोत्सर्गविभक्ति
समावेशनिषेधार्थम् ॥ ११६ ॥ अनोपयोगिसूत्रम् १५ घसेकखरातः क्कसोः॥ ११७ ॥ [सि० ४४८२]
घसेरेकखरादादन्ताच्च धातोः परस्य कसोरिट् स्यात् । जक्षिवान् । आदिवान् । ययिवान् । पेचिवान् । पेचानः ॥ ११७ ॥
'घसे' आदिवानिति । एवमाशिवान् । द्वित्वदीर्घत्वयोः कृतयोः एकस्वरत्वं ऊचिवान् । यति दीर्घत्वे चैकवरत्वं पेचिवानिति । एवं शेकिवान् उपसे दिवान् । इणोऽर्तेश्च द्विवंचने कृतेऽपि समान२० दीर्घत्वे रादेशे च सत्येकखरसद्भावादिनित्य इति पूर्वमेव भवति । तेन ईयिवान् समीयिवान्
आरिवान् । आत् पपिवान् तस्थिवान् जग्लिवान् । घसेकखरात इति किम् ? बिभिद्वान् चिच्छिद्वान् । बभूवान् उपशुश्रुवान् । नित्यत्वाद्वित्वे कृतेऽनेकखरत्वम् । विहितविशेषणं चात्र नाश्रीयते । कसोरिति किम् ? बिभिदिव बिभिदिम । वमयोनियमो न भवति । घस्याग्रहणमनेकखरार्थम् । ज्ञापनार्थम् इटि
सत्याकारलोप उपान्त्यलोपश्च भवति । दरिद्रातेस्त्वामा भवितव्यम् । दरिद्राञ्चकृवान् । 'स्क्रसृवृभृगुश्रुस्रो २५व्यञ्जनादेः परोक्षाया' इति इटि सिद्धे नियमार्थं वचनम् । एभ्य एव कसोरादिरिट् नान्येभ्य इति ॥ ११७ ॥ अत्र विशेषमाह
गमहनविद्लविशदृशो वा ॥ ११८॥ [सि० ४।४।८३] एषां पञ्चानां कसोरिड्डा स्यात् । जग्मिवान् । जगन्वान् । जमिवान् जघन्वान् । विविदिवान् विविद्वान् । विविशिवान् विविश्वान् । ददृशिवान् ददृश्वान् ॥ ११८ ॥ ३० गम' लकारो लाभार्थस्य विदेहणार्थः । तेन ज्ञानार्थस्य विविद्वानियेव भवति । सत्ताविचा___ रणार्थयोस्त्वात्मनेपदित्वात् कसुर्नास्त्येव ॥ ११८॥ ३२ अथ वर्तमानकाले प्रत्ययानाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org