________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रिया
८७३
'वाsaro' अवस्येति । अवशब्दस्योपसर्गस्य तनिक्रीणात्योः परयोरपिशब्दस्य धामहोः परयोयथासङ्ख्यं व पि इत्यादेशौ वा स्याताम् । वतंस इत्यादि स्पष्टम् । एवं पिधानम् अपिधानम् । पिदधाति अपिदधाति । पिनद्धं अपिनद्धम् । धातुनियमं नेच्छन्त्येके । तथाहुः 'वष्टिभागुरिरल्लोपमवाप्यो - रुपसर्गयोः । आप चैव हसा ( ल ? ) न्तानां यथा वाचा निशा दिशा' ॥ १ ॥ ॥ ११४ ॥ सूत्रम् यपि चादो जग्धू ॥ ११५ ॥ [ सि० ४|४|१६ ]
तादौ किति यपि चादो जग्ध् स्यात् । जग्धः २ । यजादिवचेरिति वृति, इष्टं उप्तं ऊ उक्तं उषितं आहूतः ऊतः सुप्तः ।। ११५ ।।
'यपि०' तादौ कितीत्यादि व्यक्तम् | जग्ध इति । एवं जग्ध्वा जग्धिः । प्रजग्ध्य । यपि चेति किम् ? अदनम् । तीत्येव । अद्यात् । कितीत्येव । अतव्यम् । कथमन्नं ? अनितेरैणादिको नः । 'अदोऽनन्नात्' (५।१।१५० ) इति ज्ञापकाद्वा अद्यते तदित्यन्नम् । एकपदाश्रयत्वेनान्तरङ्गत्वाद्यबादेशा- १० प्रागेव जग्धादेशे सिद्धे यपूग्रहणमन्तरङ्गानपि विधीन् यबादेशो बाधते इति ज्ञापनार्थं तेन प्रशम्य प्रपृच्छथ प्रदीव्य प्रखन्य प्रस्थाय प्रपाय प्रदाय प्रधाय प्रपश्येत्यादौ । दीर्घत्वं शत्वमूत्वमात्मत्वं हित्वमिट्त्वं यपा बाध्यते । तथोक्तम् ' तादौ किति जग्धि सिद्धे यपि चेति यदुच्यते । ज्ञापयत्यन्तरङ्गाणां यथा भवति बाधनम्' । 'यजादिवचेः' इत्यादि स्पष्टम् ॥ ११५ ॥
*** इति क्तक्तवतूप्रकरणम् ॥ ***
अथ भूतकाल एव विहितौ कसुकानप्रत्ययौ निरूपयितुमाह । सूत्रम्
तत्र सुकानौ तद्वत् ॥ ११६ ॥ सि० ५।२।२ ]
परोक्षायां विषये धातोः कसुकानौ स्याताम् । तौ च परोक्षावत् । चक्रवान् चक्राणः ॥ ११६ ॥
५
'तत्र क्कसु०' तत्रेति परोक्षामात्रविषये । तौ च परोक्षावदिति परोक्षावद्व्यपदिश्येते । तत्र कसुः परस्मैपदत्वात्कर्त्तरि । कानस्त्वात्मनेपदत्वात् भावकर्मणोरपि । शुश्रुवान् सेदिवान् उपसेदिवान् प्रसेदि - २० वान् आसेदिवान् ऊषिवान् अनूषिवान् अध्यूषिवान् पेचिवान् । पाचयाञ्चकृवान् पपिवान् पेचानः चक्राणः । परोक्षावद्भावाद्विर्वचनादि । परोक्षावद्भावादेव कित्त्वे सिद्धे कित्करणं संयोगान्तधात्वर्थं तेन आजिवान् बभज्वान् सस्वजानः । एषु कित्त्वान्नलोपः । अन्यथा ' इन्ध्यसंयोगात् ० ' इत्यसंयोगान्तादेव कित्त्वेऽत्र लोपो न स्यात् । ऋदन्तानां 'स्कृच्छ्रतोऽकि परोक्षायाम् ' ( ४।३।८ ) इति प्राप्तगुणप्रतिषेधार्थं च । शिशीर्वान् । तितीर्वान् पुपूर्वान् कर्मणि शिशिराणः तितिराणः । भावे शिशिराणं । २५ बहुलाधिकारात् श्रुसदवसिभ्यः कानो न भवति । केचित्तु एभ्य एव कसुकानेभ्यः, (?) कानस्तु प्रत्य एव नेष्यत इत्याहुः । अपरे तु सर्वधातुभ्यः कसुमेवेच्छन्ति न कानम् । कौमुद्यां तु इह भूतसामान्यै छन्दसि लिट् । तस्य विधीयमानौ कसुकानवावपि छन्दसाविति त्रिमुनिमतं कवय बहुलं प्रयुञ्जते । ‘तं तस्थिवांसं नगरोपकण्ठे श्रेयांसि सर्वाण्यधिजग्मुषस्ते' इत्यादि इत्युक्तमिति । भूताधिकारेणैवोक्तपरोक्षाविषयत्वे लब्धे तत्रग्रहणं परोक्षामात्रप्रतिपत्त्यर्थम् । तेन पपाचेति वक्तव्ये ३० पेचिवान् इत्यादि सिद्धम् । अन्यथा भूताधिकारेऽनुवर्त्तमानेऽपरोक्ष एवातीते स्यात्, परोक्षे तु परोक्षा स्यादिति ।
I
Jain Education International
१५
अत्रायं विशेष: । 'वेयिवदनाश्वनूचानम्' (५/२/३ ) एते शब्दा भूतेऽर्थे कसुकानान्ताः ३३
है० प्रका० उत्त० ११०
For Personal & Private Use Only
www.jainelibrary.org