________________
८७२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
दत् ॥ ११०॥ [ सि० ४।४।१०] अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः (पृष्ठे व्याख्यातम् ) ॥ ११०॥
दोसोमास्थ इः॥ १११ ॥ [सि० ४।४।११] एषां तादौ किति इः स्यात् । निर्दितः २ । सितः २ । मितः २ । स्थितः २॥१११॥ ५ 'दोसो' अस्यायमर्थः । एषां तादौ किति इरन्तादेशः स्यात् । द्यतेर्दद्भावस्य शेषाणां 'ईव्यञ्जनेऽपी'ति ईत्वस्यापवादः । दो निर्दितः २। दित्वा दितिः । सो अवसितः २ । सित्वा सितिः । मितः २ मित्वा मितिः । गामादाग्रणेष्वविशेष इति मामाङ डां ग्रहणम् । अन्यस्तु माङमेकोरेवेच्छति । मातेस्तु मातो मातवान् प्रस्थः स्थाल्याम् । स्था स्थितः २ स्थित्वा स्थितिः । दोसो
इत्योकारनिर्देशो देवादिकयोरेव परिग्रहार्थः । तीत्येव यङ्लुपि इद् दादितः २ । 'इडेत्पुसी'त्यातो १०लुक । कितीत्येव । अवदाता अवसाता ॥ १११ ॥ सूत्रम्
छाशोर्वा ॥ ११२॥ [सि० ४।४।१२] छो शो इत्येतयोस्तादौ किति प्रत्यये इ. स्यात् । अवच्छितः अवच्छातः । निशितः निशातः॥११२॥
_ 'छा०' छो शो इत्येतयोस्तादौ किति प्रत्यये इ: स्यात् । अवच्छितः इत्यादि स्पष्टम् । अत्रायं १५ विशेषः 'शो व्रते (४।४।१३) श्यतेः क्तप्रत्यये व्रतविषये प्रयोगे नित्यमित्वं स्यात् । संशितं
व्रतम् । असिधारातीक्ष्णमित्यर्थः । संशितव्रतः साधुः । संशितः साधुः व्रते यत्नवानित्यर्थः । ननु व्रते इत्वं प्रत्यपादि इत्युक्तार्थत्वात् व्रतस्याप्रयोगः प्राप्नोति । मैवम् । संशितशब्दोऽन्यत्राप्यस्तीति व्रतमिति विशेषणम् । ततो व्रतः व्रतस्योक्तार्थत्वम् । नित्यार्थ वचनम् । ततो व्रतविषये संशात इति न भवति । व्रत इति किम् ? निशातः ॥ ११२ ॥ सूत्रम्
धागः ॥ ११३ ॥ [सि० ४।४।१५] तादौ किति हिः स्यात् । विहितः २ । पिहितः २ ॥ ११३ ॥
'धा.' तादौ कितीत्यादि । अयं भावः । दधातेस्तादौ कितिप्रत्यये हिरादेशो भवति । विहित इति । एवं हित्वा हितिः । गकारः धेनिवृत्त्यर्थः । धीतः २ । धीत्वा धीतिः । तीत्येव प्रधाय ।
यङलुपि इट् दाधितः २ । दाधित्वा । केचित्तु दोसोहाधागां यलुपि 'आगमशासनमनित्यम्' २५ इति न्यायादिटं नेच्छन्ति, इत्वहित्व विधिं च निषेधन्ति । तन्मते दत्तः दत्तवान् । परमात्रस्यैव दद्भाव इति मते निर्दादत्तः २ । अवसासीतः २। जाहातः २ । दाधीतः २ । इत्येव भवति ॥ ११३ ॥ अनोपयोगिसूत्रम्
वाऽवाप्योस्तनिक्रीधाग्नहोर्वपी॥ ११४ ॥ [सि० ३।२।१५६ ] अवस्योपसर्गस्य तनिक्रीणात्योः परयोरपिशब्दस्य धानहोः परयोर्यथासङ्ख्यं वपी इत्यादेशौ वा स्याताम् । अवतंस वतंसः । अवक्रयः वक्रयः । अपिधानं पिधानम् । अपिनद्वम् ३१ पिनद्धम् ॥ ११४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org