________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया
८७१ णिगिति अपितं हविश्चैत्रेणेत्येत्येव भवति । अपरे तु सकर्मकावपि श्रातिश्रयती इच्छन्ति, तन्मते तयोः सकर्मकयोरप्यण्यन्तयोर्निपातनं भवति । शृतं हविश्चैत्रेण । ण्यन्तयोस्तु न भवत्येव; श्रपितं हविः चैत्रेण मैत्रेणेति ॥ १०५ ॥ सूत्रम्
प्रादागस्त्त आरम्भे ते ॥ १०६ ॥ [सि० ४।४७] आरम्भार्थस्य प्रपूर्वस्य दागः क्ते परे त वा स्यात् । प्रदातुमारब्धः प्रत्तः । पक्षे दत् आदेशः।५ प्रदत्तः॥१०६॥
'प्राहा.' आरम्भे आदिकर्मणि वर्तमानस्य प्रशब्दादुत्तरस्य दागः स्थाने क्ते परे त्त इत्यादेशो वा स्यात् । प्रत्तः । पक्षे इति विकल्पपक्षे सूत्रम् 'दत्' (१।४।१०) अस्यायमर्थः । धावर्जितस्य दासंज्ञकस्य तादौ किति परे दत् इत्ययमादेशः स्यात् । दत्तः दत्तवान् दत्तिः दत्त्वा । द्यतेः परत्वादित्वं दितः दितवान् । द इत्येव । दातं बर्हि अवदातं मुखम् । अध इत्येव । धीतः धीतवान् धीत्वा १० धीतिः । एवं चानेन सूत्रेण आरम्भे क्तेऽपि दत् आदेशे प्रदत्त इति । तथा चाह औत्सर्गिको दत्स्यादिति । प्रदत्तः दातुमारब्धवानित्यर्थः । प्रादिति किम् ? परीत्तं उत्तरेण नित्यं त्तादेशः । दाग इति किम ? दोच् प्रत्तम् । आरम्भ इति किम् ? अन्यत्र नित्यमेव । प्रकर्षेण दीयते स्म प्रत्तम् । क्त इति किम् ? प्रत्तवान् दातुं प्रवृत्त इत्यर्थः । द्विस्तकार आदेशः सर्वादेशार्थः। अकार उच्चारणार्थः ॥१०६॥ सूत्रम्
निविखन्ववात् ॥ १०७॥[सि०४।४।८] एभ्यो दागः क्ते त्तो वा स्यात् ॥ १०७ ॥ 'निवि०' एभ्य इत्यादि स्पष्टम् ॥ १०७ ॥ अनोपयोगिसूत्रम्
दस्ति ॥ १०८ ॥ [सि० ३।२।८८] दो यस्तादिरादेशस्तमिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीत्तं २ निदत्तम् २ ।२० वीत्तम् विदत्तम् । सूत्तं सुदत्तम् । अनूत्तं अनुदत्तम् । अवत्तं अवदत्तम् ॥ १०८॥ __ 'दस्ति' दो यस्तादिरिति । दा इत्येतस्य यस्तकारादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीत्तं निदत्तमित्यादि स्पष्टम् । एवं नीत्तवान् निदत्तवान् । वीत्तवान् २ । सूत्तवान् २ । अनूत्तवान् २ अवत्तवान् २ । परीत्तं परीत्तवान् । परीत्रिमं प्रणीत्रिमम् । द इति इति किम् ? वितीर्णम् । तीति किम् ? सुदत्तम् । नामिन इत्येव प्रत्तमवत्तम् ॥ १०८ ॥ सूत्रम्
खरादुपसर्गादस्ति कित्यधः ॥ १०९॥ [सि० ४।४।१] खरान्तादुपसर्गात्परस्य धावर्जस्य दासंज्ञकस्य तादौ किति त नित्यं स्यात् । प्रत्तः॥१०९॥ 'स्वरा०' प्रत्त इति । एवं प्रत्तवान् । अवपरीत्तः २ । परीत्रिमम् । प्रणीत्रिमम् त्रिमक् । द्यतेरपीत्वं बाधित्वा उपसर्गादिति विशेषविधानात् त्तत्वमेव भवति । अत एव विशेषविधानादुत्तरत्र 'दत्' (४।४।१०) इति सूत्रे सामान्यम् । अवत्तः अवत्तवान अवत्तिः । उपसर्गादिति किम् ? दधि ३० दत्तम् । स्वरादिति किम् ? निर्दत्तम् दुर्दत्तम् । निर्दितम् । दुर्दितम् । द इति किम् ? प्रदाता बीयः । निदातानि भाजनानि । कितीति किम् ? प्रदाता । तीति किम् ? प्रदाय । अध इति किम् ? धांग निहितः । दूधे निधीतः ॥ १०९ ॥ सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org