________________
८७० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुइत्यभिधानचिन्तामणौ । चिनोतेः पूजार्थो नास्तीतीदं निपातनम् । 'हृषेः केशलोमविस्मयप्रतीघाते' (४।४।७६) हृषेः केशादिष्वर्थेषु क्तयोरादिरिड्वा न स्यात् । हृष्टाः हृषिताः केशाः । हृष्टं हृषितं केशः । हृष्टानि हृषितानि लोमानि । हृष्टं हृषितं लोमभिः । हृष्टो हृषितश्चैत्रो विस्मित
इत्यर्थः । हृष्टा हृषिता दन्ताः प्रतिहता इत्यर्थः । व्याख्यातं चैदं प्राक् । 'अपाश्चतुष्पा०' (४।४।९५) ५इति (पृष्ठ ५९८) सूट प्रक्रमे ॥ १०३ ॥ सूत्रम्
सेट्क्तयोः ॥ १०४॥ [सि० ४।३।८४] सेटक्तयोः परयोर्णेलृक् स्यात् । कारितः २ । गणितः गणितवान् । 'स्फायः स्फी वा' (४।१२९४) स्फीतः २ स्फातः २॥ १०४ ॥
'से.' अयमस्यार्थः । सेट्कयोः क्तयोः परतो गेलृक् स्यात् । कारित इति । एवं हारितः २। १० गणितः संज्ञपितः पशुः । सेडिति किमर्थम् । इटि कृते लोपो यथा स्यात् । शाकितः २ । अन्यथेड्
न स्यात् एकस्वरत्वात् 'एकस्वरादनुस्खारेत' इतीनिषेधात् । नचैकस्वराद्विहिताभावादेवेड् निषेधो स न भविष्यतीति वाच्यम् । यतो विषय एव णिलोपापेक्षयेदं द्रष्टव्यम् । 'स्फा०' अस्यायमर्थः । स्फायतेः क्तयोः परतः स्फी इत्ययमादेशो वा स्यात् । स्फीत इति । एवं संस्फीतः संस्फीतवान् ।
स्फातः स्फातवान् । संस्फातः २ । क्तयोरियेव । स्फातिः । विकल्पं नेच्छन्त्यन्ये । कथं स्फीति१५रिति ? उच्यते । स्फायतेस्म स्फीतः । स्फीत इवाचरिति कर्तुः किप स्फीततीति 'स्वरेभ्य इ.' ॥१०४॥ सूत्रम्
क्तयोरनुपसर्गस्य ॥ १०५ ॥ [सि०४।१।९२] अनुपसर्गस्य प्यायः क्तयोः पीः स्यात् । पीनम् २ । पीनवन्मुखम् । अनुपसर्गस्येति किम् ? प्रप्यानो मेघः॥१०५॥ २० 'क्तयो' स्पष्टम् । अत्रायं विशेषः । 'आङोन्धूधसो' (४।१।९३) आङः उपसर्गात्परस्य प्यायतेरन्धौ ऊधसि चार्थे क्तयोः परतः पीरादेशः स्यात् । आपीनोऽन्धुः । आपीनमूधः । अन्धुरृणमूधसो वा पर्यायः । आङ इति किम् ? प्राप्यानोऽन्धुः । परिप्यानमूधः । अन्धूधसोरिति किम् ? आप्यानश्चन्द्रः । आङ एवेति नियमात् प्राप्यानमूध इत्यत्राउन्तादुपसर्गान्न भवति । अनुपसर्गस्य तु पूर्वेण भवत्येव । पीनः पीनवानन्धुः । पीनं पीनवदूधः । अन्ये तु प्यायतेः केवलस्यापूर्वस्य आङ२५न्तोपसर्गपूर्वस्यैव प्रयोगमिच्छन्ति, नान्यपूर्वस्य । तन्मते प्रप्यानपरिप्यानादयोऽप्रयोगाः । आदिशब्दसंसर्गात् 'श्रः शृतं हविः क्षीरे' (४।१।१००) श्रातेः श्रायतेश्च क्तप्रत्यये हविषि क्षीरे चाभिधेये शृभावो निपात्यते । शृतं हविः शृतं क्षीरं स्वयमेव । श्रातिश्रायती हि अकर्मको कर्मकर्तृविषयस्य पचेरर्थे वर्त्तते । तयोश्चैतन्निपातनम् । हविः क्षीर इति किम् ? श्राणा यवागूः । श्रपेः
प्रयोक्ये (४।१।१०१) श्रातेः श्रायतेश्च ण्यन्तस्यैकस्मिन् प्रयोक्तरि क्ते परतो हविषि क्षीरे ३० चाभिधेये शृभावो निपात्यते । श्राति श्रायति वा हविः स्वयमेव तच्चैत्रेण प्रायुज्यत शृतं हविश्चैत्रेण ।
यदा तु द्वितीयप्रयोक्तरि णिगुत्पद्यते तदा न भवति । अपितं हविश्चैत्रेण मैत्रेणेति । क्षीर इत्येव ।
अपिता यवागूः । अन्ये तु श्रपिं चुरादावदन्तं पठन्ति । तस्यैव अपेनिपातनम् । प्रयोजकण्यन्तस्य ३३ त्वेकस्यापि प्रयोगं नेच्छन्ति । तन्मते कर्मकर्तृ हविः श्रातुं चैत्रः प्रयुक्तवानिति प्रयोजकव्यापारे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org