________________
८६९
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया 'यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध' इति न्यायज्ञापनार्थम् , तेन 'विदक् ज्ञाने' विदितः २ । हृषितः २ । तुष्ट इत्यर्थ इत्यादि सिद्धम् ॥ ९९ ॥ सूत्रम्
नवाऽनयोः ॥ १०० ॥ [सि० ४।४।७२ ] भावारम्भयोः क्ते तु वा । मिन्नं मेदितम् २ ॥१०॥
'नवा०' अनयोरिति भावारम्भयोरित्यर्थः । आरम्भ आदिक्रिया। आदितो वे आरम्भे च५ विहितयोरादीड वा न भवति । मिन्नमनेनेति भावे क्तः । प्रमिन्न इति आरम्भे क्तः । पूर्वेण नित्यं प्राप्ते विकल्पः । आदिशब्दानुवृत्तेः 'शकः कर्मणि' (४।४।७३) शकेर्धातोः कर्मणि विहितयोः क्तयोरादिरिड्वा न स्यात् । शकः शकितो वा घटः कर्तुं चैत्रेण । कर्मणि क्तवतुर्नास्तीति नोदाह्रियते । कर्मणीति किम् ? शक्तः कटं कर्तुं चैत्रः ॥ १०० ॥ सूत्रम्
श्वसजपवमरुषत्वरसंघुषाखनामः ॥ १०१ ॥ [सि० ४।४।७५] १० एषामष्टानां क्तयोरिडा स्यात् । श्वस्तः २ श्वसितः २ । जप्तः २ जपितः २ । अहन्पश्चमस्पेति दीर्घे, वान्तः २ वमितः २ । रुष्टः २ रुषितः २ । तूर्णः २ त्वरितः २ । संघुष्टः २ संघुपितः २ । आस्वान्तः २ आस्खनितः २ । अभ्यान्तः । अभ्यमितः २ ॥ १०१॥
श्वस०' श्वसित इति । एवं प्रश्वस्तः २ प्रश्वसितः २ । आश्वस्तः २ आश्वसितः २ । विश्वस्तः २ विश्वसितः २ । व्याभ्यामेव केचिद्विकल्पमिच्छन्ति । तन्मते श्वसितः २ । निश्वसितः २ १५ प्राङिभ्यो नित्यमिड् निषेध इत्यन्ये । प्रश्वस्तः २ । आश्वस्तः २ । श्वसेः कर्तर्ययं विकल्पो भावेऽधिकरणे च नित्यमेवेट् । जपिवम्योर्नित्यमिट् निषेधः इत्यन्ये । जप्तः २ । वान्त २ । रुषित इति 'सहलुभ०' इति वेट्त्वाद्रुषेर्नित्यं निषेधे प्राप्ते वचनम् । संघुष्ट इति संघुष्टं संघुषितं वाक्यम् । संघुष्टौ संघुषितौ दम्यौ । संघुष्टवान् संघुषितवान् वाक्यम् । आस्वन् आस्वान्त आस्वनितश्चैत्रः संघुषास्वनिभ्यां परत्वादयमेव विकल्पः । तेनाविशब्देनापि संघुष्टा रज्जुः संघुषिता रजुः । मनस्यपि आस्वनितं २० मनः आस्वातं मन इति भवति । अभ्यमित इति व्याधितोऽभ्यमितोऽभ्यान्तो रोगीत्यर्थः । आन्त अमित इति कौमुद्याम् ॥ १०१॥
. आः खनिसनिजनः ॥ १०२ ॥ [सि० ४।२।६०] खातः २ । सातः २ । जातः २॥१०२॥ आः खनिसनिजन इति स्पष्टम् । प्राग् व्याख्यातम् (पृष्ठ ७९९) ॥ १०२ ॥ सूत्रम् णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञतम् ॥ १०३ ॥ [सि० ४।४।७४ ] एते णौ तान्ता वा निपात्यन्ते । दान्तः २ दमितः २ । शान्तः २ शमितः २ । पूर्णः २ पूरितः २ । दस्तः २ दासितः २ । स्पष्ट: २ स्पशितः २ । छन्नः २ छादितः २ । ज्ञप्तः २ ज्ञापितः २॥ १०३ ॥
'णौ०' स्पष्टम् । आदिशब्दानुवृत्तेः "अपचितः' (४।४।७७) अपपूर्वस्य चायतेः क्तान्तस्येडभावश्चिरादेशश्च वा निपात्यते अपचितः अपचायिः । 'नमस्थितो नमसितापचिता वश्चितोऽर्चितः ३१ १ 'नवा भावारम्भे' ( ४।४।७२ ) इत्यस्य स्थाने ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org