________________
८६८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमौषधं कषायादि तदेवमुच्यते । अग्निना तप्तं यदीषदुष्णं तत्फाण्टमित्यन्ये । अविद्यमानायासः पुरुषो वा सामान्येन फाण्टशब्देनाभिधीयते । फाण्टाचित्रास्त्रपाणयः । वाहेर्बाढमिति भृशं चेत् क्रियाविशेषणमेवैतत् स्वभावात् । बाढविक्रमा इति तु विस्पष्टपटुवत् समासः । वाहितमन्यत् । परिपूर्वस्य वृहे
हेर्वा परिवृढ इति प्रभुश्चेत् । परिवृढः प्रभुः । परिवढय्य गतः । पारिवृढी कन्या । अन्यत्र परिवृ. ५हतम् । केचित्तु लग्नविरिब्धम्लिष्टफाण्टबाढानि धात्वर्थस्य सक्ताद्यर्थविषयमाने भवन्तीत्याहुः । तेषां लग्नं सक्तेनेत्याद्यपि भवति । यथा लोम्नि हृष्टमिति ॥ ९६ ॥ सूत्रम्
न डीशीङ्पकृषिक्षिदिखिदिमिदः ॥ ९७ ॥ [सि० ४।३।२७ ] एभ्यः सप्तभ्यः परौ सेटौ तौ किन्न स्याताम् । डयितः २ । शयितः २ । पवितः २ । डीङ् भूवादिकः ॥ ९७॥ १० 'नडी०' इटः कित्त्वाभावाद्गुणे डयतेीवादिकस्य डयितवान् । शीङ् शयितः २ । पूङ् पवितः
२; 'उवर्णादिति नित्यं निषेधे प्राप्ते 'पूक्लिशिति वेट् धृष आदित इति नित्यं निषेधे प्राप्ते धर्षितुमारब्धः प्रधृष्यतेस्मेति वा वाक्ये ते 'नवा भावारम्भे' (४।४।७२) इतीद प्रधर्षितः २ । क्ष्विद् प्रक्ष्वेदितः २ । प्रस्वेदितः २ । मिद् प्रमेदितः २ । डीशीफूङामनुबन्धनिर्देशो यङ्लुब्निव
त्यर्थः । डेडियतः २ । शेश्यितः २ । पोपुवितः २ । पोपूयतेस्म कर्मणि क्तः । अनेकस्वरत्वादिट् , १५ उवर्णादिति न प्रतिषेधः । पूक्लिशीति विकल्पोऽपि न । आदिशब्दानुवृत्तेः 'मृषः क्षान्ती' (४।३।२८) क्षान्तौ वर्तमानान्मृषः 'मृषीच तितिक्षायां' इत्यस्मात्परौ सेटौ क्तक्तवतू किद्वन्न भवतः । मर्षितः २ । क्षान्ताविति किम् ? अपमृषितं वाक्यमाह । सासूयमित्यर्थः । सेटावित्येव 'मृषू सहने' मृष्टः २ । ऊदित्त्वात् 'वेटोऽपत' इति क्तयोरिनिषेधः ॥ ९७ ॥ सूत्रम्
उति शवोद्भयः क्तौ भावारम्भे ॥ ९८॥ [सि० ४।३।२६ ] २० उत्युपान्त्ये सति शवहेभ्योऽदादिभ्यश्च परौ भावारम्भे तक्तवतू सेटौ वा किद्वत्स्याताम् ।
रुदितं रोदितमेभिः । प्रद्युदितः २ । प्रद्योदितः २ । प्ररुदितः २ प्ररोदितः २। शवाझ्यः इति किम् ? प्रगुधितः इत्यादि ॥९८॥
उति० उकारे उपान्त्ये सति शवहेभ्योऽदादिभ्यश्च धातुभ्यो भावे आरम्भे चादिकर्मणि विहितो क्तौ तक्तवतू सेटौ वा किद्वद्भवतः । कुचितमनेन कोचितमनेन प्रकुचितः प्रकोचितः । प्रकुचितवान् २५प्रकोचितवान् । द्युतितमनेन द्योतितमनेन प्रद्युतितः प्रद्योतितः । मुदितमनेन मोदितमनेन प्रमुदितः
प्रमोदितः । अझ्यः, रुदितं रोदितमनेन प्ररुदितः प्ररोदितः । प्ररुदितवान् प्ररोदितवान् । उतीति किम् ? श्वितितमनेन वितितः । शवाय इति किम् ? 'गुधच् परिवेष्टने' । गुधितमनेन प्रगुधितः । भावारम्भ इति किम् ? रुचिता कन्या । क्ताविति किम् ? प्रद्योतिषीष्ट । सेटावित्येव । रूढमनेन प्ररूढः प्ररूढवान् ॥ ९८ ॥ सूत्रम्
आदितः ॥ ९९ ॥ [सि० ४।४।७१ ] आदितो धातोः परयोः क्तयोरिट् न स्यात् । भिन्नः २ ॥ ९९ ॥
'आदि०' भिन्न इति । एवं निविदा विण्णः २ । निविदा स्विन्नः । श्विता श्वित्तः । ३३आदितां धातूनां भावारम्भे वेट्त्वादन्यत्र 'वेटोपत' इत्यनेनैव नित्यमिटप्रतिषेधे सिद्धे योगविभागो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org