________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रिया
८६७
पूर्वादर्देः परयोरविदूरे आदिरिड् न स्यात् । अभ्यर्णमविदूरमित्यर्थः । अभ्यर्णा शरत् । अभ्यर्ण शेते । अविदूर इति किम् ? अभ्यर्दितो वृषलः शीतेन बाधित इत्यर्थः । ' वृत्तेर्वृत्तं ग्रन्थे' ( ४|४| ६५) वृत्तेर्ण्यन्तात् ते वृत्तमिति ग्रन्थविषये निपात्यते । गुणाभावेट्प्रतिषेधौ णिलुक् च निपातनात् वृत्तो गुणश्छात्रेण । वृत्तं पारायणं चैत्रेण । वृत्तेरन्तण्यर्थस्यैतत् सिद्ध्यति । वर्तेस्तु ग्रन्थविषये वर्तित मिति प्रयोगनिवृत्त्यर्थं वचनम् । ग्रन्थे इति किम् ? वर्त्तितं कुङ्कुमम् । अन्ये तु ग्रन्थेपि वर्त्तितमिति ५ प्रयोगमाद्रियन्ते । 'धृषशसः प्रगल्भे' ( ४|४ | ६६ ) प्रगल्भो जितसभः, अविनीत इत्यन्ये । आभ्यां परयोः क्तयोरादिः प्रगल्भ एवार्थे इड् न स्यात् । धृष्टः विशस्तः प्रगल्भ इत्यर्थः । प्रगल्भ इति किम् ? धृषितः विशसितः । धृषेः 'आदित' ( ४।४।७२ ) इति शसेरप्यूदित्त्वाद् 'वेटोपत' इति प्रतिषेधे सिद्धे नियमार्थं वचनम् । अथ भावारम्भयोर्नित्यार्थं धृषेरुपादानं कस्मान्न भवति ? धृषेर्भावारम्भे स्वभावात् प्रगल्भार्थानभिधानात् । 'कषः कृच्छ्रगहने' (४|४|६७ ) कृच्छ्रं दुःखं १० तत्कारणं च । गहनं दुरवगाहम् । अनयोरर्थयोः कषेः परयोः क्तयोरादिरिड् न स्यात् । कष्टं वर्त्तते कष्टोऽग्निः। कष्टानि वनानि । कृच्छ्रगहन इति किम् ? कषितं स्वर्णम् । 'घुषेरविशब्दे' (४|४|६८) विशब्दनं विशब्द:- नानाशब्दनं प्रतिज्ञानं वा । ततोऽन्यत्रार्थे वर्त्तमानात् घुषेः परयोः क्तयोरादिरिड् न स्यात् । घुष्टा रज्जुः सम्बद्धावयवेत्यर्थः । घुष्टवान् । अविशब्द इति किम् ? अवधुषितं वाक्यमाह । नानाशब्दितं प्रतिज्ञातं वा वाक्यं ब्रूते इत्यर्थः । अत एव विशब्दनप्रतिषेधात् ज्ञाप्यते - घुषेर्विशब्दनार्थ - १५ स्यानित्यश्रादेर्णिजिति; तेनायमपि प्रयोग उपपन्नो भवति 'महीपालवचः श्रुत्वा जुघुपुः पुष्पमाणवाः' । स्वाभिप्रायं नानाशब्दैराविष्कृतवन्त इत्यर्थः । 'बलिस्थूले दृढ : ' ( ४।४।६९) बलिनि स्थूले चार्थे हेहे क्तान्तस्य दृढ इति निपात्यते । इडभावः तस्य दत्वं धातुहनयोर्लोपश्च निपातनात् । दृढो बली स्थूलो वा । परिदृढय्य गतः । पारिदृढी कन्या । बलिस्थूल इति किम् ? हितम् दृंहितम् । 'क्षुब्धविरिब्धखान्तध्वान्तलग्नम्लिष्टफाण्टबाटपरिवृढं मन्धखर मनस्तमः २० सक्ताऽस्पष्टाऽनायासभृशप्रभौ' (४|४|७०) क्षुब्धादयः क्तान्ताः मन्थादिष्वर्थेषु यथाकर्मणि सङ्ख्यमनिटो निपात्यन्ते । क्षुभेर्मन्थेऽर्थे क्तान्तस्ये भावो निपात्यते । मध्यते इति मन्थः, घञ्, क्तोऽपि क्षुभेः कर्मण्येव । तत्समानाधिकरण्यात् क्षुब्धः समुद्रः मथित इति मध्यमानः क्षोभं गत इति वार्थः, अन्तर्भूतण्यर्थत्वाद्गमित इत्यर्थः । मन्थनं वा मन्थः । तस्मिन्नभिधेये क्षुब्धं बल्लवेन विलोडनं कृतमित्यर्थः । अथवा द्रवद्रव्यसंपृक्ताः सक्तवो रूढ्या मन्थशब्देनोच्यन्ते । तद्द्रव्या- २५ भिधाने क्षुब्धशब्दो मन्थपर्यायो भवति । यदा तु क्षोभं प्रवृत्तिनिमित्तीकृत्य मन्थे वर्त्तते तदा क्षुब्धो मन्थइति सामानाधिकरण्यम्, सञ्चालितो मन्थ इत्यर्थः । मन्थेऽभिधेय इति किम् ? क्षुभितं समुद्रेण, क्षुभितं मन्थेन । क्षुभितः समुद्रो मन्थेन । अन्यस्तु दध्यादिकं येन मध्यते स मन्थो मन्थानक इत्याह । 'अमृतं नाम यत्सन्तो मत्रजिह्वेषु जुह्वति । शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना' ॥ १ ॥ इति । विपूर्वात्सौत्राद्रिभेर्विरिब्ध इति भवति । स्वरो ध्वनिश्चेत् । रेभेर्वा इत्वस्यापि निपातनात् ३० विरिभितं विरेभितमन्यत् । स्वनेः स्वान्तमिति मनश्चेत् । मनः पर्यायः स्वान्तशब्दः । विषयेष्वनाकुलं मनः स्वान्तमित्यन्ये । अन्यत्र स्वनितो मृदङ्गः । स्वनितं मनसा घट्टितं स्पृष्टमिति यावत् । ध्वनेर्ध्वान्तमिति तमश्चेत् । तमः पर्यायो ध्वान्तशब्दः । अनालोकं गम्भीरं तमो ध्वान्तमित्यन्ये । अन्यत्र ध्वनितं तमसा, ध्वनितो मृदङ्गः । लगेर्लग्नमिति सक्तं चेत् । म्लेच्छे क्लिष्टमिति अस्पष्टं चेत् । इत्वमपि निपातनात् । फणेः फाण्टमिति अनायाससाध्यं चेत् । यदश्रपितमपिष्टमुदकसंपर्कमात्राद्विभक्तरस - ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org