________________
८६६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुऊर्णतः २ । अर्गुत्वा । गित्वाद्यङ्लुपि न भवति अर्णोनवित्वा । एकस्वरादित्येव । जागरितः २ । जागरित्वा । कित इति किम् ? वरिता तरिता श्रयिता अणुविता ऊर्णविता। विहितविशेषणात् तीर्णः पूर्तः इत्यत्र कृतेऽपीरुरादेशे निषेधो भवति ॥ ९२ ॥ सूत्रम्
उवर्णात् ॥ ९३ ॥ [सि० ४।४।५८] ५ उवर्णान्तादेकखराद्धातोर्विहितस्य कित इट् न भवति । युतः २ । भूतः २॥ ९३ ॥
'उव०' स्पष्टम् । क्वायां युत्वा । एवं यूनः २ लूनः २ । लुत्वा । कित इत्येव । यविता लविता ॥ ९३ ॥ सूत्रम्
पूक्लिशिभ्यो नवा ॥ ९४ ॥ [सि० ४।४।४५] पूक्लिशिभ्यां च तक्तवतुक्त्वामिद् वा स्यात् । पूतः२। पवितः २। क्लिष्टः२ । क्लिशितः२ १०॥९४ ॥
'पू' क्त्वायां पूत्वा पवित्वा । क्लिष्ट्वा क्लिशित्वा । पूङिति कारः पूगो निवृत्त्यर्थः । तस्य हि 'न डीशीङ्' इत्यादिना कित्त्वप्रतिषेधाभावात् पुवित इत्यनिष्टं रूपमासज्येत । बहुवचनं क्लिश्यति क्लिनात्योZणार्थम् । पूङ उवर्णादिति नित्यं निषेधे प्राप्ते, क्लिश्यतेनित्यमिटि क्लिनातेश्चौदित्त्वात् क्त्वायां विकल्पे सिद्धेऽपि क्तयोर्नित्यं प्रतिषेधे (प्राप्ते ?) विकल्पार्थं वचनम् ॥ ९४ ॥ सूत्रम् ।
डीयश्यैदितः क्तयोः ॥ ९५॥ [सि० ४।४।६१] दिवादिकस्य डीयतेः श्वेरैदियश्च धातुभ्यः परयोः क्तक्तवत्वोरिट् न स्यात् । त्रस्तः २ । डीनः २ । श्वितः २। लग्नः २॥ ९५॥
'डीय०' डीयतेरिति देवादिकस्येत्यर्थः । त्रस्तः २ । ऐदित्त्वादिडिषेधः । एवं ओलजै लग्नः २ । ओविजै उद्विग्नः २ । यतै यत्नः २ । दीपै दीप्तः २। डीयेति श्यनिर्देशात् डयतेरिडेव डयितः २ । २०क्तयोरिति किम् ? डयिता श्वयिता लज्जिता उद्विजिता । कृतै नृतै चूतै इत्येषां वेट्वेन क्योरिट्प्रतिषेधे सिद्धे ऐदित्त्वं यङ्लुबर्थम् । तेन चरीकृतः २ । नरीनृतः २ । वरीवृतः २ इत्यत्रानेकस्वरत्वेऽपीटप्रतिषेधः ।। ९५ ॥ सूत्रम्
वेटोऽपतः ॥ ९६ ॥[सि०४॥४६२] पतिवर्जितात्क्वचिद्विकल्पेटो धातोरेकखरात्परयोः क्तयोरिट् न स्यात् । 'नशौच नाशे' नष्टः २५२ । अपत इति किम् ? पतितः ॥ ९६ ॥
'वेटो' अपत इति अयं भावः । पतिवर्जिताद्यत्र कचिद्विकल्पितेटो धातोरेकस्वरात्परयोः क्तयोरिट् न स्यात् । नशौच नष्टः २ । रधौच रद्धः २ । अौप व्यक्तः २ । गुहौ गूढः २ । 'धूगौदितः' (४।४।३८) इति विकल्पितेट् । शमू शान्तः २ । असू अस्तः २। केचिदस्यते वे क्ते नित्यमिटमिच्छन्ति । असितमनेन । उदितो वेति विकल्पितेट् । सह सोढः २ सहलुभेति विकल्पितेद। ३० पतित इति इवृधीति सनि वेट्त्वात् इनिषेधे प्राप्ते प्रतिप्रसवार्थ प्रतिषेधः । अत्रादिशब्दानुवृत्तेः
'संनिवेरर्दः' (४।४।६३) सनिविपूर्वादर्दतेः परयोः क्तयोरादिरिड् न स्यात् । समर्णः __ समर्णवान् । न्यणः २ । व्यर्णः २ । सन्निवेरिति किम् ? अर्दितः प्रार्दितः । कश्चित्केवलाद३३पीच्छति । अर्णः २ । 'अविदूरे भेः' (४।४।६४) विदूरं विप्रकृष्टं ततोऽन्यदविदूरम् । अभि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org