________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया प्रदीपो वातेनेत्यत्र तु प्रदीपः कर्ता, वातस्तु हेतुः करणं वेति प्रतिषेधः । केचिन्निर्वाणं वातेनेतीच्छन्ति । तेषां वाते कर्तरि प्रत्यये प्रतिषेधः इति द्रष्टव्यम् । एवं *क्षीवादय इति वार्तिकम् अत्र सूत्रम् 'क्षीवोल्लाघकृशपरिकृशफुल्लोत्फुल्लसंफुल्लाः' (४।२।८८) अनुपसर्गाः क्तप्रत्ययान्ता एते निपात्यन्ते । 'क्षीवृङ् मेदे' । 'उत्पूर्वो लाघृङ् सामर्थे' 'कृशच् तनुत्वे' केवलः, परिपूर्वश्च; एभ्यः परस्य ततकारस्य लोपः इडभावश्च निपात्यते क्षीव उल्लाघः कृशः परिकृशः 'त्रिफला५ विशरणे' इत्यस्मात्केवलादुत्संपूर्वाञ्च परस्य क्तस्य लादेशो भावारम्भविवक्षायामिडभावश्च निपात्यते । फुल्लः उत्फुल्लः संफुल्लः । केचित्तु क्षीयवान उल्लाघवान् कृशवान् परिकुशवान् फुल्लवान् उत्फुल्लवान् संफुल्लवान् इति क्तवतावपि रूपमिच्छन्ति । तदर्थं तक्तवत्वोस्तशब्दावधेनिपातनं द्रष्टव्यम् । एतदर्थमेव बहुवचनम् । अनुपसर्गा इति किम् ? प्रक्षीवितः प्रोल्लाघितः प्रकृशितः सम्परिकृशितः प्रफुल्लः । निपातनस्येष्टविषयत्वात् 'फल निष्पत्ती' फलितः २ । क्षीवादयः शब्दाः केनाऽचापि च सिद्ध्यन्ति, १० प्रक्षीवित इत्यादिरूपनिवृत्त्यर्थं वचनम् । कथं प्रक्षीवः ? प्रगतः क्षीवः प्रक्षीव इति प्रादिसमासाद्भविष्यति ॥ ८९ ॥ अथैतेषामेव कार्यविशेषमाह । सूत्रम्
क्षुधवसस्तेषाम् ॥ ९० ॥ [सि० ४।४।४३ ] आभ्यां परेषां तक्तवतुक्त्वामिट् स्यात् । क्षुधितः २ । उषितः २॥९०॥ 'क्षुध०' क्षुधित इति द्विकेनाङ्केन सर्वत्र तक्तवतू रूपं ज्ञेयम् । क्त्वायां तु क्षुधित्वा उषित्वा । १५ यङ्लुपि वावसितः २ वावसित्वा । अत्र ग्रहणनिर्देशात् 'यजादि वचेः' इति न वृत् । वावस्तः २ ।। ब्रावस्त्वा । वसिति वसतेस्रहणं वस्तेस्त्विडस्त्येव । अत्रादिशब्दानुवृत्तेः क्तयोः 'निष्कुषः' (४।४। ३९) परयोः क्तयोरादिरिद नित्यं स्यात् । निष्कुषितः । निष्कुषितवान् ॥ ९० ॥ सूत्रम्
लुभ्यञ्चेर्विमोहाचें ॥ ९१ ॥ [सि० ४।४।४४] आभ्यां यथासङ्ख्यं विमोहपूजार्थाभ्यां तक्तवतुक्त्वामिट् स्यात् । विलुभितः २। अञ्चित:२० २॥९१॥
'लुभ्यः' आभ्यामिति । 'लुभच् गाय' 'अञ्चू गतौ च' इत्येताभ्याम् । विमोहनपूजार्थाभ्यामिति विमोहो विमोहनमाकुलीकरणम् , पूजा अर्चा । विलुभितः सीमन्तः । विलुभिताः केशाः । विलुभितानि पदानि । विलुभितवान् । लुभित्वा लोभित्वा केशान् गतः । अञ्चिताः गुरवः । उच्चैरञ्चितलाङ्गलः । अञ्चितवान् गुरून् । शिरोऽश्चित्वेव संवहन् । विमोहाच इति किम् ? लुब्धो जाल्मः । लुब्ध-२५ वान् लुब्ध्वा लुभित्वा लोभित्वा । उक्तमुदकं कूपात् । अत्तवा अश्चित्वा । लुभेः क्त्विं सहेलभेत्यादिनाञ्चेश्वोदितो वेति विकल्पे उभयोश्च 'वेटोपतः' इति क्तयोर्नित्यं निषेधे प्राप्ते वचनम् ॥ ९१ ॥ सूत्रम्
ऋवर्ण,यूटुंगः कितः ॥ ९२ ॥ [सि० ४।४।५७] अवर्णान्तादेकखराद्धातोः श्रेोश्च कित इट् न स्यात् । वृतः, श्रितः, ऊर्गुतः । एकखरादिति किम् ? जागरितः॥ ९२ ॥ _ 'ऋवर्ण ' एकस्वरादिति विशेषणं ऋवर्णान्तस्यैव न तु श्रयतेरूणुगश्च अव्यभिचारादसम्भवाच । तथैवाह-ऋवर्णान्तादेकखरादिति । वृतः २ । क्त्वायां वृत्वा । स्तृतः २ । स्तृत्वा २ । तृ तीर्णः तीर्णवान् तीर्खा । पृ पूर्तः २ पूर्वा । श्रि श्रितः २ श्रित्वा । उवर्णादिति सिद्धे ऊर्युक् ग्रहणमनेकस्वरा) । ३३
है. प्रका० उत्त० १०९
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org