________________
८६४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुबन्धत्वान्न ग्रहणम् । अन्यस्तु तस्यापि ग्रहणमिच्छति । अत्रायं विशेषः। 'वाऽऽक्रोशदैन्ये (४।२।७५) आक्रोशे दैन्ये च गम्यमाने क्षेः परस्य अध्यार्थे क्तयोस्तकारस्य नकारो वा स्यात् । तत्सन्नियोगे च क्षी इत्ययमादेशः स्यात् । आक्रोशे क्षीणायुः क्षितायुर्जाल्मः । दैन्ये च क्षीणकः क्षितकस्तपस्वी । अध्यार्थ इत्येव । क्षितं जाल्मस्य, क्षितं तपस्विनः । कश्चित्तु भावेऽपि विकल्पमिच्छति । ५क्षीणमनेन क्षितमनेन । क्षेर्भावकर्मणो भाषायां क्त एव नास्तीति कश्चित् ॥ ८७ ॥ सूत्रम्
ऋहीघाघ्रात्रोन्दनुदविन्तेर्वा ॥ ८८ ॥ [ सि० ४।२।७६ ] एभ्योष्टाभ्यः क्तयोस्तोन्वा स्यात् । ऋणं ऋतम् । ह्रीण हीणवान् । हीतः हीतवान् ॥८॥
'ऋही.' एभ्योऽष्टाभ्य इति । 'कं प्रापणे च', 'नं गतौ वा' । ऋणं ऋतम् । 'ह्रींक लज्जायाम्' हीणः २ । ह्रीतः २ । 'ढीतहीणौ तु लजिते' इत्यभिधानचिन्तामणी । नां घ्राणः २ । प्रातः १०२ । ' तृप्तौ' ध्राणः २ । प्रातः २ । 'त्रैङ् पालने' त्राणः २ त्रातः २ । 'उन्दैप् क्लेदने' समुन्नः २ समुन्तः २ । 'णुदत् प्रेरणे' नुन्नः २ नुतः २। 'विदिप विचारणे' विन्नः २ वित्तः २ । विदः श्रनिर्देशात् विद्यतेविन्दतेश्च नित्यं नकारः। विन्नः २ । प्रथमाभ्यामप्राप्ते घ्रादिभ्यस्तु प्राप्ते विकल्पः । तेन दकारान्तानां दस्यापि पूर्वेण नत्वं न भवति, तकारनत्वाभावपक्षे च सन्नियोगशिष्टत्वादस्यापि
नकारो न भवति । व्यवस्थितविभाषेयम् । तेन ऋणमित्युत्तमर्णाधमर्णयोरेव, अन्यत्र ऋतं १५ सत्यम् । त्रायतेस्तु संज्ञायां न भवति त्रातः देवदत्तः, अन्यत्र तु नत्वं त्राणः । उभयत्रमित्येके ।
आदिशब्दोपादानात् 'दुगोरूच' (४।२।७७ ) दुगु इत्येताभ्यां परस्य क्तयोस्तस्य नः स्यात् । तत्सनियोगे अनयोरूकारश्चान्तादेशः 'टुदुंट् उपतापे' स्वादिः । 'गुत् पुरीषोत्सर्गे' कुटादिः । दुयतेस्म दूनः २ । गुवतिस्म गूनः २ । कौमुद्यां तु दुग्यो दीर्घश्च दुर्गतौ दूनः २ । 'टुदु उपतापे' इत्ययं तु न गृह्यते सानुबन्धकत्वात् । 'मृदुतया दुतयेति माघः' । एवं प्रहाण इति । अत्र सूत्रम् २० वरात्' (२।३।८५) अदुरुपसर्गान्तःशब्दस्थाद्रवर्णात्परस्य कृद्विषयस्य नकारस्य स्वरादुत्तरस्य
णो भवति । प्रहाणः २ । प्रहीणः २ । परिहीणः २ । प्रगूणः २ । प्रयाणं परियाणं प्रवयणं परिवयणं । प्रयायमाणं २ । प्रयायिणौ परियायिणौ । अप्रयाणिः अपरियाणिः । प्रयाणीयं परियाणीयं । प्रवहणीयं परिवहणीयम् । यथासम्भवं क्त क्तवतु अन आन इन् अनि अनीय इत्येते सप्त प्रत्ययाः
प्रयोजयन्ति । स्वरादिति किम् ? प्रभुमः २ । अदुरित्येव दुर्यानः पन्थाः। कृतीत्येव । प्रवापेन । २५ अलचटतवर्गशसान्तर इत्येव । प्रकुष्यमानं परिकप्यमानम् । प्रेण्वनं प्रेन्वनम् । प्रदानं प्रधानम् ॥ ८८ ॥ सूत्रम्
शुषिपचो मकवम् ॥ ८९ ॥ [ सि० ४।२।७८ ] एभ्यस्त्रिभ्यः क्तयोर्यथासङ्ख्यं मकवाः स्युः । क्षामः क्षामवान् । शुष्कः शुष्कवान् । पक्का पकवान् । निर्वाणमवाते (४।२७९) निपातोऽयम् । निर्वाणो मुनिः । वाते तु कर्तरि । ३० निर्वातो वातः । एवं *क्षीवादयो निपाताः ज्ञेयाः॥ ८९॥
'क्ष' स्पष्टम् । 'खितिखी०' उर् इति सूत्रे प्रक्रमे च व्याख्यातम् (पृष्ठ १०१)। अत्रादिशब्दानुवृत्तेः 'निर्वाणमवाते' (४।२।७९) निपूर्वाद्वातिधातोः परस्य क्तयोस्तकारस्य नकारो निपात्यते । अवाते कर्तरि वातश्चेन्निर्वाति क्रियायाः कर्ता न भवति । निर्वाणो मुनिः । निर्वाणो ३४दीपः । अवात इति किम् ? निर्वातो बातः । निर्वातं वातेन । भावेपि वात एव कर्ता । निर्वाणः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org