________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया
८६३ नेति किम् ? यातः २ । अन्तस्थेति किम् ? स्नात २ । आत इति किम् ? च्युतः २। द्रुतः २ । प्लुतः २ । धातुना व्यञ्जनविशेषणादिह न भवति । निर्यातः २। द्विर्भावेऽप्यन्तस्थेत्यभेदाश्रयणाद् बहिरङ्गत्वेनासिद्धेश्च न स्यात् । अख्याध्य इति ख्याध्यावर्जनात् ख्यात इत्यादौ तो नो न स्यात् । आतः परस्येति किम् ? दरिद्रितः २ । अत्रामी विशेषाः । 'प्रसमः स्त्यः स्ती' (४।१।९५) प्रसम् इति समुदायपूर्वस्य स्त्यायतेः क्तयोः पुरतः स्तीत्यमादेशः स्यात् । प्रसंस्तीतः प्रसंस्तीतवान् ।५ प्रसम इति किम् ? संप्रस्त्यानः २ । स्त्यानः २ । प्रसमो नेच्छन्त्यन्ये । एतत्सूत्रं न कुर्वन्तीत्यर्थः । 'प्रात्तश्च मो वा' (४।१।९६) प्रस्तीमः प्रस्तीमवान् । 'श्यः शीर्द्रवमूर्तिस्पर्श नश्चास्पर्शे' (४।१।९७) द्रवस्य मूर्तिः काठिन्यं तस्मिन् , स्पर्शे च वर्तमानस्य श्यायतेः क्तयोः पुरतः शी इत्यादेशः स्यात् । तत्सन्नियोगे च क्तयोस्तकारस्यास्पर्शविषये नकारादेशो भवति । शीनं शीनवद् घृतम् । शीनं शीनवन्मेदः । द्रवावस्थायाः काठिन्यं गतमित्यर्थः। स्पर्शे शीतं वर्त्तते ।१० शीतो वायुः । गुणमात्रे तद्वति चार्थे स्पर्शविषयो भवति । द्रवमूर्तिस्पर्श इति किम् ? संश्यानो वृश्चिकः । शीतेन सङ्कुचित इत्यर्थः । 'व्यञ्जनान्तस्थात०' इति नत्वम् । 'प्रतेः' (४।१।९८) प्रते: परस्य श्यायतेः क्तयोः परतः प्रागुक्तं स्यात् प्रतिशीनः प्रतिशीनवान् । प्रतिपूर्वोऽयं रोगे वर्तते । 'प्रतिश्यायस्तु पीनस इति वचनात्' इति पूर्वेणाप्राप्ते वचनम् । 'वाऽभ्यवाभ्याम्' (४।१।९९) अभि अव इत्येताभ्यां परस्य श्यायतेः परतः प्रागुक्तं वा स्यात् । अभिशीनः २ । अभिश्यानः २ । १५ अवशीनः २ । अवश्यानः २ । द्रवमूर्तिस्पर्शयोरप्यनेन विकल्पः । अभिशीनं अभिश्यानं घृतम् । अवशीनं अवश्यानं हिमम् । अभिशीतो अवशीतो वायुः । स्पर्शत्वान्न नत्वम् । अभिश्यानोऽवश्यानो वायुः । 'व्यञ्जनान्तस्थात' इति स्पर्शेऽपि नत्वम् । अभ्यवाभ्यामिति किम् ? संश्यानः २ । केचित्तु समा व्यवधानेऽपीच्छन्ति । अभिसंशीनः २ । अभिसंश्यानः २ । अवसंशीनः २ । अवसंश्यानः २ । तन्मतसंग्रहार्थ अभ्यवाभ्यामिति तृतीया व्याख्येया। समस्ताभ्यामपीत्यन्ये । अभ्यव-२० शीनः २ । अभ्यवश्यानः २ । विपर्यासे प्रयोगो नास्ति । वाशब्दस्य व्यवस्थितविभाषार्थत्वादन्योपसर्गान्ताभ्यां न भवति । समभिश्यानः २ । समवश्यानः २ । अत्रादिशब्दात् 'पूदिव्यञ्चेनाशाङ्तानपादाने' (४।२।७२) पू दिव् अञ्च इत्येतेभ्यो यथासक्यं नाशे द्यतेऽनपादाने चार्थे परस्य क्तयोस्तकारस्य नः स्यात् । पूना यवा विनष्टा इत्यर्थः । आद्यूनः परिघुनः । समनौ शकुनेः पक्षौ सङ्गतावित्यर्थः । नाशाद्यूतानपादान इति किम् ? पूतं धान्यम् । द्यूतं वर्तते । उक्तमुदकं कूपात् । २५ कथं व्यक्तम् ? अञ्जर्भविष्यति । 'सेसे कर्मकर्तरि' (४।२।७३ ) सिनोतेः सिनातेर्वा परस्य क्तयोस्तकारस्य प्रासे कर्मणि कर्तृत्वेन विवक्षिते नकारः स्यात् । सिनो प्रासः स्वयमेव । ग्रास इति किम् ? सितं कर्म स्वयमेव । कर्मकर्तरीति किम् ? सितो ग्रासो मैत्रेण । सितो गलो ग्रासेन ॥८६॥
क्षेः क्षी चाऽध्यार्थे ॥ ८७ ॥ [सि० ४।२।७४ ] क्षेस्तो नस्तद्योगे क्षेः क्षीश्च न तु ध्यार्थे । क्षीणः क्षीणवान् । अध्यार्थे इति किम् ? भावकर्म-३० ते क्षितमस्य ॥ ८७॥ __क्षेः०' घ्यार्थो ध्यणों भावकर्मणी । ततोऽन्यस्मिन्नर्थे विहितयोः क्तयोस्तकारस्य 'झिं क्षये' इत्येतस्मात्परस्य नः स्यात् । तत्सन्नियोगे चास्य क्षी इत्ययमादेशो क्षीणः क्षीणवान् मैत्रः । अधिकरणे इदमेषां क्षीणम् । अध्यार्थ इति किम् ? । क्षितमस्य भावे क्तः । 'क्षिषश् हिंसाया'मित्यस्य तु सानु-३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org