________________
८६२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुधुडादौ हूर्ण इति । प्रकृतम्-अत्रादित्वात् क्तयोरिनिषेधः । तूर्णः धूर्णः इत्यत्र ऐदित्त्वादिडिषेधः । सर्वत्र पूर्वेण क्तयोस्तस्य नः । तौ तु मूर्तिः हूतिः तूतिः धूतिः । धूर्त इति चौणादिकः । मूर्त इति 'मूच्छिते मूर्तमूर्छालौ' इत्यभिधानचिन्तामणौ । कृतस्यापत्यं कार्तिरित्यत्रासिद्धं बहिरङ्गमन्तरङ्गे
इति न भवति । क्तयोरिति किम् ? पूर्तिः भित्तिः । कथं चूर्णिरिति ? चूरेरौणादिको णिः । रदान्त५स्येति किम् ? चरितं मुदितम् । कृतः कृतवानित्यत्र तु वर्णेकदेशानां वर्णग्रहणेनाग्रहणान्न भवति । रेफात्परेण स्वरभागेण व्यवधानाद्वा । ऋकारस्य हि मध्येऽर्द्धमात्रो रेफः, अग्रे पश्चाच तुरीयः स्वरभागः प्रतिज्ञायते । भिन्नवद्भ्यामित्यत्र प्रत्ययदकारस्य परेऽसत्त्वात् सूत्रे चाश्रुतत्वान्न भवति । कथं चीर्णः चीर्णवानिति ? च इति धात्वन्तरं चरतिसमानार्थ क्तक्तवतू विषयमामनन्ति । अत्रामी विशेषाः 'हादो हद क्तयोश्च (४।२।६७) 'हादैङ् सुखे च' इत्येतस्य क्तक्तवत्वोः क्तौ च हृद् आदेशः स्याद् । १० रदादमूर्च्छति क्तयोस्तस्य धातोर्दस्य च नत्वे हन्नः हनवान् हन्निः । क्तयोश्चेति किम् ? हादयित्वा । 'भित्तं शकलम् । (४।२।८१) भिदेः परस्य क्तस्य नत्वाभावो निपात्यते। शकलमिति भित्तशब्दश्चेत् शकलपर्यायः स्यात् । शकलमिति किम् ? भिन्नम् । शकलपर्यायनिर्देशः किम् ? भिदिक्रियाविवक्षायां शकले विषये भिन्नमित्येव यथा स्यात् । भिन्नं शकलम् । मिन्नं भित्तं 'शशभृद्भित्तनिरङ्कभित्तयः' नैषधीये । 'वित्तं धनप्रतीतम्' (४।२।८२) विन्दतेः परस्य क्तस्य नत्वाभावो १५ निपात्यते । धनपर्यायः प्रतीतपर्यायश्चेद्वित्तशब्दो भवति । विद्यते लभ्यते इति वित्तम् धनम् । विद्यते
उपलभ्यतेऽसाविति वित्तः प्रतीतः । 'ख्याते प्रतीतप्रज्ञातवित्तप्रथितविश्रुता' इत्यभिधानचिन्तामणी । अत्र कारिका वेत्तेर्विदितं, विन्तेर्विन्नं वित्तं च, विद्यतेर्विघ्नं । वित्तं धने प्रतीते च विन्दतेवित्तमन्यत्र' ॥ १॥ 'ऋहीघ्राध्रा०' (४।२।७६) इति विकल्पेन नत्वे 'विन्नं विचारिते' इत्यभिधा
नचिन्तामणौ । 'निर्विण्णः' (२।३।८९) निपूर्वाद्विदेः सत्तालाभविचारार्थात्परस्य क्तनका२० रस्य णत्वं निपात्यते । निर्विण्णः प्राब्राजीत् । कश्चितु वेत्तेरपीच्छति निर्विण्णवानिति च ॥ ८४ ॥
सूयत्याद्योदितः ॥ ८५॥ [सि० ४।२।७०] सूयत्यादिभ्यो नवभ्य ओदिभ्यश्च परयोः क्तयोस्तो नः स्यात् । सूनः सूनवान् । दूनः दूनबान् । लग्नः लग्नवान् ॥ ८५॥
'सूय०' सूयत्यादिभ्यो नवभ्य इति षूडौच सूनः सूनवान् । दृङ्च् दूनः २ । दीङच् दीनः २५२ । धीच् धीनः २ । मीङ्च् मीनः २ । रीच् रीणः २ । लीच् लीनः २ । डीङ्च डीनः २ । ब्रीच् ब्रीणः २ । इति सूयत्यादयः । ओदित् ओलजैङ् ओलस्जैति वा लग्नः २ । ओविजैति उद्विग्नः २ । ओप्यायैङ् पीनः २ । ट्वोश्वि शूनः २ । ओख्रश्चौत् वृक्तः २ । एभ्य इति किम् ? पीतः । सूयतीति श्यनिर्देशः सूतिसुवत्योर्निवृत्त्यर्थः ॥ ८५ ॥
व्यञ्जनान्तस्थातोऽख्याध्यः॥ ८६ ॥ [सि० ४।२७१ ] ३० व्यञ्जनात्परा या अन्तस्था तदन्तस्य ख्याध्यावर्जस्य क्तयोस्तो नः स्यात् । स्त्यानः स्त्यानवान् । द्राणः २ । ग्लानः २ । अख्याध्य इति किम् ? ख्यातः २ । ध्यातः २॥ ८६ ॥ __ 'व्यञ्जना०' व्यञ्जनादित्यादि । अयमर्थः । ख्याध्यावर्जितस्य धातोर्यव्यञ्जनं तस्मात्परा या
अन्तस्था तस्याः परो य आकारस्तस्मात्परस्य क्तयोस्तकारस्य नः स्यात् । 'ट्रय स्त्य संघाते' । स्त्यानः ३४ स्त्यानवान् । '३ स्वप्ने' निद्राणः २ । 'ग्लैं हर्षक्षये' ग्लानः २ । 'म्लैं गात्रविनामे' म्लानः २ । व्यञ्ज
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org