________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया
८६१
राज्ञां ज्ञातः । एवं बुद्धः विदितः अवगतः । इच्छार्थ राज्ञां इष्टः । तैरिष्यमाण इत्यर्थः । एवं मतः अर्चार्थ राज्ञां पूजित इति एवमर्चितः । नीत् विमिदाङ् मिन्नः । ञिक्ष्विदाङ् क्ष्विण्णः । ञिष्विदाङ् स्विन्नः । ञिधृषाद धृष्टः । भित्वरिषु तूर्णः । ञिष्वप॑क् सुप्तः । ञिभींकू भीतः । ञिइन्धैपी इद्धः । ञितृषच् तृषितः । शीलादि 'शीलतो रक्षितः क्षान्तः आक्रुष्टो जुष्ट उद्यतः । संयतः शयितस्तुष्टो रुष्टो रुषित आसितः ॥ १ ॥ कान्तोऽभिव्याहृतो हृष्टः तृप्तः सृप्तः स्थितो ५ भृतः । अमृतो मुदितः पूर्त्तः स ( श ?) तोक्तः श्रान्तविस्मितौ ॥ २ ॥ संरब्धारन्धदयिता दिग्धः स्निग्धोऽवतीर्णकः । आरूढो मूढ आयस्तः क्षुधिताक्लांत त्रीडिताः ॥ ३ ॥ मत्तश्चैवं तथा क्रुद्धः लिष्टः सुहित इत्यपि । लिप्ततृ ( ह ?) प्तौ च विज्ञेयौ सति लग्नादयस्तथा ॥ ४॥ बहुलाधिकाराद्यथाभिधानमेभ्यो भूतेऽपि को भवति । तथा च तद्योगे तृतीयासमासो पि सिद्धः । ‘अर्हद्भ्यस्त्रिभुवनराजपूजितेभ्यः' । एवं शीलितो मैत्रेण रक्षितो मैत्रेण । आक्रुष्टचैत्रेणेत्यादि १० द्रष्टव्यम् । वर्त्तमानक्ते तु षष्ठ्येव । कान्तो हरिश्चन्द्र इव प्रजानामिति । अन्ये तु ज्ञानाद्यर्थेभ्यस्तनकौण्डिन्यन्यायेन भूते तस्य बाधनात् वर्त्तमानतेन च योगे कर्त्तरि षष्ठीविधानात् त्वया ज्ञातो मया ज्ञात इत्यादिरपशब्द इति मन्यन्ते ॥ ८१ ॥ क्तादिप्रत्ययानां कार्यविशेषमाह । सूत्रम्
ऋल्वादेरेषां तो नोऽप्रः ॥ ८२ ॥ [ सि० ४ २ ६८ ]
पॄवर्जात् ऋदन्तात् ल्वादिभ्यश्च परेषां क्तिक्तक्तवतूनां तो नः स्यात् । तीर्णः तीर्णवान् । १५ लूनः लूनवान् । अप्र इति किम् । पूर्तः पूर्तवान् ॥ ८२ ॥
'ऋल्वा०' स्वादिभ्यश्चेति 'पूग्ा पवने' इत्यारभ्य वृत्त्वादिरिति पर्यन्तो द्वाविंशतिकः क्रयाद्यन्तर्गणः प्वादिगणस्तत्राद्यं विहाय लग्श् छेदने इत्यारभ्य वृत्त्वादिरिति पर्यन्तः एकविंशतिकः वाद्यन्तर्गणो ल्वादिर्गणः । ल्वादिषु ये ऋकारान्ताः स्तृतृप्रभृतयस्तेषां ऋग्रहणेनैव सिद्धे ल्बादिषु पाठः ध्वादिकार्यार्थः । तीर्णः तीर्णवानिति, क्तौ तु तीर्णिः । कृ कीर्णः कीर्णवान् कीर्णिः । गृ गीर्णः गीर्णवान् २० गीर्णिः । ल्वादि लूनः लूनवान् लुनिः । धूनः धूनवान् धूनिः । लीनः लीनवान् लीनिः । पूर्त्तः पूर्त्तवान्, तौ तु पूर्त्तिः । पूर्णिरित्यपि कश्चित् ॥ ८२ ॥ सूत्रम्
1
रदादमूर्छमदः तयोर्दस्य च ॥ ८३ ॥ [ सि० ४२२६९]
मूर्छमदवर्जाद्रदन्तात्परयोः क्तयोस्तस्य तद्योगे धातोर्दस्य च नः स्यात् । पूर्णः पूर्णवान् । दून: दूनवान् । भिन्नः भिन्नवान् ॥ ८३ ॥
२५
'रदा०' पूर्णः पूर्णवान् । पूरैचि इत्यस्य रूपम् । गुरैः आगूर्णः आगूर्णवान् । भिद् भिन्नः २ । छिद् छिन्नः २ । रदादिति किम् ? चितः चितवान् । अमूर्च्छमद इति किम् ? अत्र विशेषसूत्रम् राहुक् ॥ ८४ ॥ [ सि० ४।१।११० ]
रात्परयोवोक स्यात् । अतुनासिकादौ कौ धुडादौ च । शूटोऽपवादः । हूर्णः २ । तूर्णः २ । घूर्णः २ ॥ ८४ ॥
३०
'राल्लुक्' स्पष्टम् । अनुनासिकादौ यथा 'मूर्च्छा मोहसमुच्छ्राययोः' । हुच्छ कौटिल्ये । मनि अनेन छोपे गुणे कर्त्तव्ये, 'भ्वादेनमिन ०' इति शास्त्रमसदिति गुणे मोर्मा होर्मा । एवं तुर्वै धुर्वे । अनेन वलोपे गुणे तोर्मा धोर्मा । कौ मूः मुरौ मुरः । हू: हुरौ । तूः तुरौ । धूः धुरौ । ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org