________________
८६०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
1
अकर्मका अप्युपसर्गयोगात्सकर्मका भवन्तीति शीङादिग्रहणम्, अन्यथा 'गत्यर्थाकर्मक०' इतिसूत्रेण क्तः सिद्ध्यत्येव । विकल्पपक्षे विवक्षायां कर्मणि क्तः । आश्लिष्टः कान्ता चैत्रेणेत्यादि । कर्माविवक्षायां तु सर्वत्र भावे क्तः । आश्लिष्टं चैत्रेण । अतिशयितं शिष्येण । अनूषितं तेन । उपस्थितं शिष्येण । उपासितं तैः । अनूषितं तेन । अनुजातं तेन । आरूढं तैः । अनुजीर्णं तेन । विभक्तं तैः ॥ ७८ ॥ आरम्भे ॥ ७९ ॥ [ सि० ५।१।१० ]
आरम्भार्थाद्धातोः कर्त्तरि क्तो वा स्यात् । प्रकृताः कटं ते । प्रकृतः कटस्तैः ॥ ७९ ॥
'आरम्भे' आरम्भे' आदिकर्मणि भूतादित्वेन विवक्षिते वर्त्तमानाद्धातोर्यः क्तो विहितः स कर्त्तरि वा स्यात् । प्रकृतः कटं भवान् । प्रकृतः कटो भवता । प्रकृतं भवता । कर्त्तुमारब्धः कृतः । अनेन क्तः । कर्त्तुमारभ्यते स्म 'तक्तवतू' इति क्तः । एवं प्रभुक्त ओदनं चैत्रः । प्रभुक्त ओदनचैत्रेण । १० भूतादित्वेनेत्यत्रादिशब्दाद्वर्त्तमानत्व भविष्यत्वयोरपि परिग्रहः । यथा ज्ञातुमारभते प्रज्ञातः । कर्षितुमारप्स्यते प्रकृष्टः ॥ ७९ ॥ सूत्रम्
गत्यर्थाऽकर्म कपिबभुजेः ॥ ८० ॥ [ सि० ५|१|११ ]
1
1
एभ्यः कर्त्तरि क्तो वा स्यात् । गतोऽसौ ग्रामं । गतो ग्रामस्तैः । आसितोऽसौ । आसितं तैः । पीताः पयस्ते । पीतं पयस्तैः । इदं भुक्तास्ते । इदं भुक्तं तैः ॥ ८० ॥
१५
'गत्य०' एभ्य इति भूतादौ यः क्तो विहितः स गत्यर्थेभ्योऽकर्मकेभ्यश्च धातुभ्यः पिबभुजिभ्यां च कर्त्तरि वा स्यात् । क्रमेणोदाहरणानि - गतोऽसौ ग्राममित्यादीनि कर्त्तृकर्मणोरुदाहरणानि भवतु मैत्रेण गत चैत्रेण इत्यादि विवक्षितकर्मत्वेपि पठितो भवान् । एवं प्रख्यातो विहितः । अविवक्षित कर्मेभ्यो नेच्छन्त्येके । तन्मते कृतो देवदत्त इत्यादि कर्त्तरि न भवति । कालाध्वभावैश्च कर्मभिः सकर्मका अव्यकर्मका उक्तास्तेन त्रैरूप्यं भवति । सुप्तो भवान् मासम्, सुप्तो भवता मासः, सुप्तं भवता मासम् । २० एवमोदनपाकं सुप्तो भवानित्यादि [ उपलक्षत्वाद्देशेनापि सुप्तो भवान् कुरूनित्यादि ] । 'अद्यर्थाच्चाधारे' (५|१|१२ ) अद्यर्थादाहारार्थाद्धातोर्गत्यर्थाकर्मकपि बभुजेश्च भूते यः क्तः स आधारे वा स्यात् । इदमेषां जग्धमित्यादि । अद्यर्थादित्यत्रार्थग्रहणात् इदमेषामभ्यवहृतम्, इदं तैरभ्यवहृतम् । इदं तेषामशितम् । इदं तैरशितम् । आरम्भे तु कर्त्तर्यपि भवति । इह ते अन्नं प्राशिताः । इह ते मधु प्रलीढाः । गत्यर्थादिभ्यः खल्वपि इदं तेषां यातं । इहमहेः सृप्तम् । इदमेषां आशितम् । इदमेषां शयितम् । २५ इदं गवां पीतम् । इदं तेषां भुक्तम् । पक्षे कर्तृकर्मभावेषु गत्यर्थाकर्मकेति सूत्रोक्तान्येवोदाहरणानि । कौमुद्यां तु 'मुकुन्दस्यासितमिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ।' पक्षे आसेरकर्मकत्वात्कर्त्तरि भावे च आचिते च मुकुन्दः आसितं तेन । गत्यर्थेभ्यः कर्त्तरि कर्मणि च रमापतेरिदं यातः । तेनेदं यातं । कथं ब्राह्मण्या भुक्ता इति भुक्तमस्त्येषामिति मत्वथायोऽच् ॥ ८० ॥ एवं भूतार्थे प्रत्ययमभिधाय वर्त्तमानात् क्तप्रत्ययं निर्दिशति । सूत्रम्—
३०
ज्ञानेच्छार्चार्थञीच्छील्यादिभ्यः क्तः ॥ ८१ ॥ [ सि० ५।२।९२]
एभ्यः सदर्थेभ्यः क्तः स्यात् । राज्ञां ज्ञातः इष्टः पूजितः मिन्नः शीलितो रक्षितः ॥ ८१ ॥ ज्ञाने० एभ्य इति । ज्ञानार्थेभ्य: इच्छार्थेभ्य: अर्चा पूजा तदर्थेभ्यो नीद्भ्यः शील्यादिभ्यश्च धातुभ्यः सत्यर्थे वर्त्तमानेभ्यः क्तः स्यात् । पूर्ववञ्चार्थस्य कर्तृकर्मार्थनिर्देशः । अयं भावः । कर्त्तरि ३४कर्मणि भावे च यथा प्रत्ययोऽभिहितस्तथैव केवलं वर्त्तमानकाल एव । ज्ञानार्थः राज्ञां ज्ञायते इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org