SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ८५९ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया संस्कारजा स्मृतिः । सन्तोषजं सुखम् । कौशल्याया जातः कौशल्याजः । संज्ञाशब्दोत्रोपपदम् । अजातेरिति किम् ? हस्तिनो जातः ॥ ७५ ।। सूत्रम् क्वचित् ॥ ७६ ॥ [सि० ५।१।१७१ ] यथालक्ष्यं जनेर्डः स्यात् । अनुजः किञ्जः॥ ७६ ॥ यथालक्ष्यमिति । उक्तादन्यत्रापि । कचिल्लक्ष्यानुसारेण डः स्यादित्यर्थः । उक्तानानोऽन्यतोपि ५ किं जातेन किञ्जः । केन जातः किलोऽनिर्मातपितृकः । अलं जातेन अलञ्जः । द्विर्जातो द्विजः। न जातोऽजः । अधिजातोऽधिजः । उपजः परिजः । प्रजाताः प्रजाः । अभिजः। कर्मणोपि अनुजः । जातेरपि ब्राह्मणजः पशुवधः । क्षत्रियजं युद्धम् । स्त्रीजमनृतम् । उक्ताद्धातोरन्यतोपि ब्रह्मणि जीनवान् ब्रह्मज्यः । उक्तानानो धातोश्चान्यतोपि वरमाहतवान् वराहः । उक्तानाम्नो धातोः कारकाच्चान्यतोपि । परिखाता परिखा आखाता आखा । उपखाता । नामधातुकालान्यत्वे मित्रं १० ह्वयति मित्रह्वः । अणोपऽवादो डः । धातुकारकान्यत्वे पटे हन्यतेस्म पटहः । धातुकालान्यत्वे वार्चरति वा! हंसः । 'वाहर्पत्यादयः' इति निषेधे 'चटते सद्वितीये' रस्य न शः । नामकारकान्यत्वे पुंसानुजातः पुंसानुजः । नामाभावे उक्तधातुकालान्यत्वे अटति अतति वा अः कायति कामयते वा कः । भातीति भं नक्षत्रम् । नामाभावे उक्तधातुकालकारन्यत्वे च खम्यते इति खम् । 'सुयजोनिप्' (५।१।१७२ ) सुनोतेर्यजतेश्च भूतार्थवृत्तेरयं प्रत्ययः स्यात् । सुतवान् सुत्वा सुत्वानौ । १५ इष्टवान् । यज्वा यज्वानौ । कनिप्वन्भ्यां सिद्धे भूते नियमाथं वचनम् । मन्नादिसूत्रस्थस्य कचिद्रहणस्यैव प्रपञ्चः । ङकारो गुणनिषेधार्थः । पकारः पित्कार्यार्थः । इकार उच्चारणार्थः । 'जुषोऽतः' (५।१।१७३ ) जीर्यते तेऽर्थे अतः स्यात् । जीर्यति स्म जरन् जरती । असरूपत्वाज्जीर्णः । 'श्लिषशीङस्था०' इति कर्तरि क्तः । जीर्णवान् । ऋकारो दीर्घत्वनिषेधार्थः ॥ ६४ ॥ तक्तवतू ॥ ७७॥ [सि० ५।१।१७४ ] भूतार्थाद्धातोरेतौ स्याताम् । तत्र तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाश्चेति वचनात् क्तः कर्मणि भावे च । क्रियतेस कृतः कटश्चैत्रेण । स्थितं चैत्रेण ॥ क्तवतुश्च कर्तरि । करोति स करोति स कृतवान् । प्रकृतः कटं चैत्रः । स्थितवांश्चैत्रः ॥ ७७ ॥ 'क्त' प्रकृतः कटं देवदत्तः । प्रकृतवान् कटं देवदत्तः । अत्र समुदायस्याभूतत्वेऽपि कटैकदेशे कटत्वोपचारात्तस्य च निवृत्तत्वाद्भूत एव धात्वर्थः । इत्यादिकर्मण्यप्यनेनैव क्तक्तवतू सिद्धौ ॥ ७७ ॥ २५ श्लिषशीस्थासवसजनरुहजृभजेः क्तः ॥ ७८ ॥ [ सि० ५।१।९] एभ्यो नवभ्यः कर्तरि तो वा स्यात् । आश्लिष्टः कान्तां चैत्रः । आश्लिष्टा कान्ता चैत्रेण । अतिशयितो गुरु शिष्यः। अतिशयितो गुरुः शिष्येण । उपस्थितो गुरुं शिष्यः। उपस्थितो गुरुः शिष्येण । उपासितो गुरुं सः। उपासितो गुरुस्तेन । अनूषितो गुरुं सः। अनूषितो गुरुस्तेन । अनुजातः तं सः । अनुजातः सः तेन । आरूढोऽश्वं सः। आरूढोऽश्वस्तेन । अनु-३० जीर्णस्तं सः। अनुजीर्णः स तेन । विभक्ताः खं ते । विभक्तं खं तैः ॥ ७८ ॥ 'श्लिष०' 'भव्यगेयजन्यरम्यपात्याप्लाव्यं नवा' (५।१७) सुत्राधिकारोऽनुवर्तनीयः ।३२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy