________________
८५८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअनोपयोगिसूत्रम्,
___णखराघोषाद्वनो रश्च ॥ ७२ ॥ [सि० २।४।४] एतदन्तात् विहितो यो वन् तदन्तात् स्त्रियां डीः स्यात् । तद्योगे नस्य रश्च । बहुदृश्वरी ॥७२॥
'णखरा०' वन इति वनक्कनिपूनिपामविशेषेण ग्रहणम् । एभ्य इति णकारान्तात् स्वरान्तादघो५षान्ताच यो विहितो वन तदन्तात् स्त्रियां ङी: स्यात् । वनोऽन्तस्य तु तत्सन्नियोगे रः स्यात् । ण 'ओण अपनयने' ओणति स्म स्त्री अवावरी । खर धीवरी । पा पीवरी । कृ सहकृत्वरी सुत्वरी । अघोष दृश् दृश्वरी मेरुदृश्वरी । णस्वराघोषादिति किम् ? युध् सहयुध्वा । युज्वा स्त्री । विहितविशेषणं किम् ? शृणातीति शर्वरी । स्वराद्विहिताद्गुणे कृते घोषवतो यथा स्यात् । वन इति किम् ?
श्वयतेः 'श्वन्मातरिश्वन' इत्यादिनाऽनि अन्तलोपे च श्वन ; अत्र न भवति शुनी । नान्तत्वादेव १० डीसिद्धस्तन्नियमार्थ रविधानार्थं च वचनम् । अत्रायं विशेषः 'वा बहुप्रीहेः' (२०४५)
णस्वराघोषाद्विहितो यो वन् तदन्तात् बहुव्रीहेः स्त्रियां ङीर्वा स्यात् । ङीयोगे रोऽन्तादेशश्च । प्रियावावरी प्रियावावा स्त्री । बहुधीवरी वहुधीवा । बहुमेरुदृश्वरी बहुमेरुदृश्वा । णस्वरादित्येव । बहुयज्वा स्त्री ॥ ७२ ॥ सूत्रम्
सहराजभ्यां कृग्युधेः ॥ ७३ ॥ [सि० ५।१।१६७] १५ आभ्यां कर्मभ्यां पराभूतार्थात्कृगः क्वनिप् स्यात् । सहकृत्वा सहयुध्वा । राजकृत्वा
राजयुध्वा ॥७३॥ __ 'सह' सह कृतवान् सहकृत्वा सहकृत्वानौ । सह युद्धवान् सहयुध्वा सहयुध्वानौ । राजानं कृतवान् राजकृत्वा राजकृत्वानौ । राजानं योधितवान् राजयुध्वा राजयुध्वानौ । युधिरन्तर्भूतण्यर्थः ।
सकर्मकः । कर्मण इत्येव । राज्ञा युद्धवान् । प्रत्ययान्तर[अणादेः]बाधनार्थोऽयमप्यारम्भः। त्रियां २० ज्यां वनो नस्य रत्वे 'महासिवेम्नः सहकृत्वरी बहु'मिति नैषधीये । बहुव्रीही प्रियसहकृत्वरी प्रियसहकृत्वा ॥ ७३ ॥ अत्रादिशब्दसंसर्गात्
__ अनोजनेर्डः ॥ ७४॥ [सि० ५।१।१६८] कर्मणः परादनुपूर्वाजने तेऽर्थे वर्तमानात् डः स्यात् । आत्मानुजः ॥ ७४ ॥
अनोर्ज० कर्मणः परादनुपूर्वाजनेर्भूतेऽर्थे वर्तमानात् डः स्यात् । पुमांसमनुजातः पुम२५ नुजः । 'पदस्य (२।१।८९) इति पुंसः सलोपः । रुयनुजः आत्मानुजः अनुपूर्वो जनिर्जननोपसर्जनायां प्राप्तौ वर्त्तमानः सकर्मकः । पुमांसमनुजननेन प्राप्तवानित्यर्थः ॥ ७४ ॥
___ सप्तम्याः ॥ ७५॥ [सि० ५।९।१६९] सप्तम्यन्ताद्भूतेऽर्थे वर्तमानाजनेर्डः स्यात् । उपसरजः मन्दुरजः । अप्सुजातं अजम् । (पञ्चम्यास्तथा) बुद्धिजः ॥ ७५ ॥ ३० 'सप्तम्या:०' सप्तम्यन्तात्पराद्भूतेऽर्थे वर्तमानाजनेर्डः स्यात् । उपसरे जातः उपसरजः । मन्दुरे ___ मन्दुरायां वा जातः मन्दुरजः । अप्सु जातं अप्सुजं अब्जम् । 'अजातेः पञ्चम्या:' (५।१। ३२१७० ) पञ्चम्यन्तादजातिवाचिनो नाम्नः पराद्भूतेऽर्थे जनेर्डः स्यात् । बुद्धर्जातो बुद्धिजः संस्कारः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org