________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया
८५७ हखस्य तः पित्कृति ॥ ७० ॥ [सि० ४।४।११३] हस्वान्तस्य धातोः पिति कृति तोऽन्तः स्यात् । सुष्टु कृतवान् सुकृत् ॥ ७० ॥
'हख०' स्पष्टम् । अनेन तागमे सुष्ठ कृतवान् सुकृत् पुण्यं कृतवान् पुण्यकृत् । एवं पापकृत् । कर्मकृत् । मंत्रकृत् पदकृत् । इदमपि नियमार्थं वचनम् । त्रिविधश्चात्र नियमः । एभ्यः कृग एव भूते कि नान्यस्माद्धातोः।१। मत्रमधीतवान् माध्यायः इत्यणक्ता एव भवन्ति, न किप् । अण् च क्तौ ५ च अणक्ताः । क्तवतुर्दर्शित एव । क्तस्तु आरम्भे यः क्तः स गृह्यते । अन्यस्य भावकर्मणोविधानात् 'गत्यर्थाः' इत्यस्य तु सकर्मकत्वादप्राप्तिः । मन्त्रवित् पापनुत् इत्यादौ तु भूताविवक्षायां किप् । एभ्यः कृगो भूत एव विप्।२। इह न भवति कर्म करोति करिष्यति वा कर्मकारः, मंत्रकारः पदकारः। तथा एभ्यः परात्कृगो भूते कृगः किबेव नान्यप्रत्ययः।३। तेन कर्म कृतवान् कर्मकार इति न भवति । एभ्य एव भूते कृगः किबिति धातुनियमो नेष्यते । तेन शास्त्रकृत् तीर्थकृत् वृत्तिकृत् सूत्रकृत् भाष्यकृदि-१० त्यादयः सिद्धाः । अत्रादिशब्दसन्धानात् 'सोमात्सुगः' (५।१।१६३ ) सोमं सुतवान् सोमसुत् । अत्रापि चतुर्द्धा नियमः । 'सोमादेवेति नियमात्सुरां सुतवान् सुरासाव इत्यण् । सुरासुदिति भूताविवक्षायाम् । सुग एवेति नियमात् सोमं पीतवान् सोमपा इति विच । भूत एवेति नियमात् सोमं सुनोति सोप्यते वा सोमसाव इत्यण । 'किबेवेति नियमात् सोमं सुतवानित्यः न भवति । "अग्नेश्चेः' (५।१।१६४) अग्निं चितवान् अग्निचित् । अत्रापि चतुर्द्धा नियमः । अमेरेवेति नियमात् १५ कुड्यं चितवान् कुड्यचाय इत्यण् । 'चेरेवेति नियमात् अग्निं कृतवानग्निकारः । भूत एवेति नियमादग्निं चिनोति चेष्यति वा अमिचायः । किवेवेति नियमादग्निं चितवानित्यः न भवति । 'कर्मण्यग्न्यर्थे' (५।१।१६५) कर्मणः पराभूतेऽर्थे वर्तमानाच्चिनोतेः कर्मणि कारकेऽग्न्यर्थेऽभिधेये किप् स्यात् । श्येन इव चीयते श्येनचित् । एवं कङ्कचित् रथचक्रचित् । अग्न्यर्थ इष्टकाचय उच्यते । बहुलाधिकारात् रूढिविषय एवायं द्रष्टव्यः । केचित्तु संज्ञाशब्दात्कालत्रयेप्ययं भवतीत्याहुः । श्येन २० इव चीयते चितश्चेष्यते वा अग्निचित् । 'करणाद्यजो भूते' (५।१।१५८) करणवाचिनः पराभूते वर्तमानाद्यजेणिन् स्यात् । अग्निष्टोमेनेष्टवान् अग्निष्टोमयाजी । भवति हि सामान्य विशेषयो|दविवक्षायां सामान्ययजौ विशेषयजिरमिष्टोमः करणम् । भूत इति किम् ? अमिष्टोमेन यजते । करणादिति किम् ? गुरूनिष्टवान् । 'निन्ये व्याप्यादिन्विक्रियः' (५।१।१५९) व्याप्यापराद्विपूर्वात् क्रोणातेभूते वर्तमानात्कुत्सिते कर्तरीन् स्यात् । सोमं विक्रीतवान् सोमविक्रयी । एवं २५ तैलविक्रयी ब्राह्मणः । निन्द्य इति किम् ? धान्यविक्रायः वणिक । (व्याप्यादिति किम् ? ग्रामे विक्रीतवान् ) भावेऽलन्तस्य मत्वर्थीयेनेना सिद्ध्यति कुत्सायामण्बाधनार्थं वचनम् । 'हनो णिन्' (५।१।१६०) व्याप्यात्पराद्भूते वर्तमानात् हन्तेर्निन्द्ये कर्तरि णिन् स्यात् । पितृव्यं हतवान् पितृव्यघाती । असरूपत्वादणपि पितृव्यघातः । केचित्त्वसरूपविधि नेच्छन्ति । निन्ध इति किम् ? शत्रु हतवान् शत्रुघातः । व्याप्यादित्येव दण्डेन हतवान् । घबन्तान्मत्वर्थीयेनेना सिद्धे भूतकुत्साभ्यामन्यत्र ३० मत्वर्थीयनिवृत्त्यर्थं वचनम् । अन्यत्रापीच्छत्यन्यः। एवं पूर्वसूत्रेऽपि ॥ ७० ॥ सूत्रम्
दृशः क्वनिप् ॥ ७१ ॥ [ सि० ५।१।१६६ ] व्याप्यात्पराभूतार्थादृशः क्वनिप् स्यात् । बहुदृश्वा ॥ ७१ ॥ 'दृश०' बहु दृष्टवान् बहुदृश्वा । एवं मेरुदृश्वा विश्वदृश्वा परलोकदृश्वा ॥ ७१ ॥ ३४
है. प्रका• उत्त. १०८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org