________________
८५६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुणिनिः । स बभूवोपजीविनां अनुयायिवर्गः। पतत्यधो धाम विसार सर्वतः । न वञ्चनीयाः प्रभवोsनुजीविभिरित्यादौ । अजातेरिति किम् ? ब्राह्मणानामंत्रयिता। शालीन् भोक्ता प्रभोक्ता उपभोक्ता सम्भोक्तेति । बहुलाधिकारान्न भवति । शील इति किम् ? शीलभोज आतुरः ॥ ६६ ॥ सूत्रम्
साधौ ॥ ६७ ॥ [सि० ५।११५५] ५ तथा । साधुकारी ॥ ६७॥ ___ तथेति । नान्नः परात्साधावर्थे वर्तमानाद्धातोर्णिन् स्यात् । अशीलार्थ आरम्भः । साधु करोति साधुकारी साधुदायी चारुनी सुष्टुगामी । बहुलाधिकारात् साधु वादयति वादको वीणाम् । साधु गायतीत्यादौ न भवति । अत्रादिशब्दानुवृत्तेः 'ब्रह्मणो वदः' (५।१।१५६) णिन् स्यात् ।
ब्रह्म ब्रह्माणं वा वदति ब्रह्मवादी । अयमप्यशीलार्थ आरम्भः । जात्यर्थोऽसरूपविधिनिवृत्त्यर्थश्च । १०'व्रताभीक्ष्ण्ये (५।१।१५७) व्रतं शास्त्रोक्तो नियमः । आभीक्ष्ण्यं पौनःपुन्यं तयोर्गम्ययोः नाम्नः पराद्धातोर्णिन् । श्राद्धं पितृदैवयं कर्म तदुद्दिश्य कृतं पिण्डाद्यपि श्राद्धम् । अश्राद्धभोजी अलवणभोजी स्थण्डिलशायी स्थण्डिलवर्ती वृक्षमूलवासी पार्श्वशायी। तदन्यवर्जनमिह व्रतं गम्यते । आमीक्ष्ण्ये पुनः २ क्षीरं पिबन्ति क्षीरपायिण उशीनराः । उश्यते स्थादित्वात्कः, गौरादित्वाडीः, उशी नगरी;
तस्या नराः । तक्रपायिणः सौराष्ट्राः; सुराष्ट्रशब्दमेकवचनान्तं केचिन्मन्यन्ते इति 'बहुविषयेभ्यः' १५(६।३।४५) इति नाकञ् , अन्यथा सौराष्ट्रका इति स्यात् । कषायपायिणो गान्धाराः। गन्धारस्य
इमे गान्धाराः । सौवीरपायिणो वाह्रीकाः। व्रताभीक्ष्ण्ये इति किम् ? स्थण्डिले शेते स्थण्डिलेशयः । बहुलाधिकारादाभीक्ष्ण्येऽपीह न भवति । कुल्माषादाश्चौलाः । अशीलार्थ जात्यर्थं वचनम् ॥ ६७ ॥ इत्यनिर्दिष्टकाला प्रत्यया उक्ताः। अथ भूतकालविहिता प्रत्यया उच्यन्ते । सूत्रम्
ब्रह्मभ्रूणवृत्रात् क्विप् ॥ ६८॥ [सि० ५।१।१६१] २० एभ्यस्त्रिभ्यः कर्मभ्यः पराभूतार्थाद्धन्तेः किए स्यात् । ब्रह्म हतवान् ब्रह्महा ॥ ६८ ॥
'ब्रह्म' ब्रह्महेति । एवं भ्रूणहा वृत्रहा । किपित्यनेनैव सिद्धे नियमार्थं वचनम् । चतुर्विधश्चात्र नियमः । ब्रह्मादिभ्य एव हन्तेभूते कि नान्यस्मात् । पुरुषं हतवान् पुरुषघातः । मधुहा अहिहा गोत्रहा हिमहा तमोपहा असुरहा आखुहा इत्यादिषु वर्तमानभविष्यतोः कालमात्रे वा 'क्विप्' इत्यनेनैव किम् । तथा ब्रह्मादिभ्यो हन्तेरेव भूते नान्यस्माद्धातोः विप् । ब्रह्माधीतवान् ब्रह्माध्याय इत्यणेव, न तु २५ कि । ब्रह्मविदादयस्तु भूताविवक्षायाम् । तथा ब्रह्मादिभ्यो हन्तेर्भूते किबेव नान्यप्रत्ययः । ब्रह्माणं
हतवान् ब्रह्महा इति किबेव भवति, नाण-णिनौ । वृत्रनादयस्तु कालसामान्येन 'ब्रह्मादिभ्यः' इति टक्प्रत्यये साधवः । कथं वृत्रस्य हन्तुः कुलिशमिति ? केवलादेव हन्तेस्तृच् , पश्चात्रेण सम्बन्धः । मध्येऽपवादा पूर्वान् विधीन् बाधन्ते नोत्तरानिति किपाऽणादिरेव बाध्यते न तक्तवतू । तथा ब्रह्मादिभ्यो हन्तेः किप भूत एव नान्यस्मिन् । ब्रह्माणं हन्ति हनिष्यति ब्रह्मघात इत्यणेव । 'ब्रह्मा३० दिभ्यः' इति टक्प्रसङ्गे बहुलमण् । तदेतत्सर्वं बहुलाधिकाराल्लभ्यते ॥ ५६ ॥ सूत्रम्
*कृगः सुपुण्यपापकर्ममत्रपदात् ॥ ६९ ॥ [सि० ५।१।१६२] सोः पुण्यादेः कर्मणश्च पराभूतार्थात्कृगः क्विप् स्यात् ॥ ६९ ॥
'कृग' सोरिति सुशब्दात्पुण्यादिभ्यश्च कर्मभ्यः परात्करोते ते वर्तमानात् किप् स्यात् ॥६९॥ ३४ अनोपयोगिसूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org