Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 556
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः ९२९ ॥५९५ ॥ इति होपान्त्या दशभिः सूत्रैः। वलेरक्षः (५९६) वलक्षः शुक्लः ॥ ५९६ ॥ लाक्षाद्राक्षामिक्षादयः (५९७) अक्षान्ता निपात्यन्ते । लसेरा च । लाक्षा जतुः । रसेा च । द्राक्षा मृद्वीका । आङ्पूर्वान्मृदेरन्त्यस्वरादेर्लुक्प्रत्ययादेरित्त्वं च । आमिक्षा हविर्विशेषः । आदिग्रहणात् चुप इत्यस्य चोक्षः ग्रामरागः शुद्धं च । पीयिः सौत्रः । पीयुक्षा इत्यादयः॥ ५९७ ॥ इति क्षोपान्त्या द्वाभ्यां सूत्राभ्याम् । "क्रमेण व्यञ्जनोपान्त्या अकारान्ता निरूपिताः । एवमेव निरूप्यन्ते आकारान्तादयोऽप्यथ" ॥ १ ॥ समिनिकषिभ्यामाः (५९८) सम्पूर्वादिणः निपूर्वात्कषश्व आः स्यात् । समया निकषा गिरि नदीम् । समीपासूयावाचिनावेतौ ॥ ५९८ ॥ दिविपुरिवृषिमृषिभ्यः कित् (५९९) आः । दिवूच दिवा अहः । पुरत् पुरा भूतकालवाची । वृषू वृषा प्रबलमित्यर्थः । मृषीच मृषा असत्यम् ॥ ५९९ ॥ वेः साहाभ्याम् (६००) विपूर्वाभ्यां षोंच ओहांक् इत्येताभ्यामाः स्यात् । १० विसा चन्द्रः बुद्धिश्च । तालव्यान्तोऽयमित्येके । विहा विहगः सूर्यश्च ॥ ६०० ॥ वृमिथिदिशिभ्यस्थयट्याश्चान्ताः (६०१) एभ्य किदाः थयट्यश्चान्ता यथासङ्घयं स्युः। वृगट् वृथा अर्थम् । मिथूग मिथ्या मृषा निष्फलं च । दिशीत् दिष्ट्या प्रीतिवचनम् ॥ ६०१ ॥ मुचिखदेध च (६०२) आभ्यां किदाः धश्चान्तोऽस्य स्यात् । मुचलंती मुधा निष्फलम् । ष्वदि स्वधा पितृबलिः ॥६०२॥ सोबॅग आह च (६०३) सुपूर्वात् ब्रूतेराः आह इत्ययं चास्यादेशः स्यात् । स्वाहा १५ ॥ ६०३ ॥ सनिक्षमिदुषेः (६०४) एभ्य आः । षणूयी । सना नित्यम् । क्षमौषि क्षमा भूः शान्तिश्च । दूषंच दोषा रात्रिः ॥ ६०४॥डित् (६०५) धातोर्बहुलमाः स च डित् । मनिंग मा निषेधे । षोंच सा अवसानम् । अनक् आ स्मरणादौ । प्रीच् । प्रा स्मयने । हनं हा विषादे। वन वा विकल्पे । रांक रा दीप्तिः । भांक् सहपूर्वः सभा परिषत् । नानि इति सहस्य सः ॥ ६०५ ॥ खरेभ्य इ. (६०६) स्वरान्तेभ्य धातुभ्य इ: स्यात् । जिं जयिः राजा । हिंट हयिः२० कामः । रुक् रविः सूर्यः । कुंक् कविः काव्यकर्ता शुक्रश्च । टुंग्क् स्तविः उद्गाता । लूग्श् लविः दात्रम् । पूग्श पविः वज्रम् पवित्रं च । भू भविः सत्ता चन्द्रः विधिश्च । ऋक् अरिः शत्रुः । हूंग हरिः इन्द्रः विष्णुः चन्दनं मर्कटादिश्च । हरयः शुक्राश्वाः । टुडु,ग्क् भरिः वसुधा । सं सरिः मेघः। पृश् परिः भूमिः । तृ तरिः नौः । दृ दरिः महाभिदा । मश् ण्यन्तः । मारिः अशिवम् । वृगश वरिः विष्णुः ण्यन्तात् वारिर्गजबन्धभूः वारि जलम् ॥ ६०६॥ पदिपठिपचिस्थलिहलि-२५ कलिबलिवलिवल्लिपल्लिकटिचटिवटिवधिगाध्यर्चिवन्दिनन्यविवशिवाशिकाशिछिर्दितन्त्रिमन्निखण्डिमण्डिचण्डियत्यञ्जिमस्यसिवनिध्वनिसनिगमितमिग्रन्थिश्रथिजनिमण्यादिभ्यः (६०७) इः । पदिंच पदी राशिः मोक्षमार्गश्च । पठ पठिः विद्वान् । पचिः अग्निः । 'ठल स्थाने' स्थलिः दानशाला । हल हलिः हलः । कलि कलिः कलहः युगं च । बल बलिः देवोपहारः दानवश्च । 'वलिः वल्लि' । वलिः त्वक्तरङ्गः । वलिः हिरण्यशलाका लता च ।३० पल्ल पल्लिः मुनीनामाश्रमः व्याधसंस्त्यायश्च । कटे कटिः स्वाङ्गम् । 'चटण भेदे । चटिः वर्णः । वट वटिः गुलिका तन्तुः शूना नाभिर्वर्णश्च । 'बधि बन्धने' । बधिः (क्रियाशब्दः)। गाधृङ्गाधिः विश्वामित्रपिता । अर्च अर्चिः अग्निशिखा । वदुङ् वन्दिः ग्रहणिः । टुनदु नन्दिः ईश्वरः प्रतीहारः भेरिश्च । अव अविः ऊर्णायुः । वशक् वशिः वशिता । वाशिच् वाशिः कान्तिः रश्मिः गोमायुः अग्निः शब्दः प्रजननव्याप्ता चतुष्पाद् जलदश्च । काराङ् काशयः जनपदः । छर्दण् छर्दिः वमनम् । तत्रिण तत्रिः ३५ है. प्रका० उत्त. ११७ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636