________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायामुणादयः
९२९
॥५९५ ॥ इति होपान्त्या दशभिः सूत्रैः। वलेरक्षः (५९६) वलक्षः शुक्लः ॥ ५९६ ॥ लाक्षाद्राक्षामिक्षादयः (५९७) अक्षान्ता निपात्यन्ते । लसेरा च । लाक्षा जतुः । रसेा च । द्राक्षा मृद्वीका । आङ्पूर्वान्मृदेरन्त्यस्वरादेर्लुक्प्रत्ययादेरित्त्वं च । आमिक्षा हविर्विशेषः । आदिग्रहणात् चुप इत्यस्य चोक्षः ग्रामरागः शुद्धं च । पीयिः सौत्रः । पीयुक्षा इत्यादयः॥ ५९७ ॥ इति क्षोपान्त्या द्वाभ्यां सूत्राभ्याम् । "क्रमेण व्यञ्जनोपान्त्या अकारान्ता निरूपिताः । एवमेव निरूप्यन्ते आकारान्तादयोऽप्यथ" ॥ १ ॥
समिनिकषिभ्यामाः (५९८) सम्पूर्वादिणः निपूर्वात्कषश्व आः स्यात् । समया निकषा गिरि नदीम् । समीपासूयावाचिनावेतौ ॥ ५९८ ॥ दिविपुरिवृषिमृषिभ्यः कित् (५९९) आः । दिवूच दिवा अहः । पुरत् पुरा भूतकालवाची । वृषू वृषा प्रबलमित्यर्थः । मृषीच मृषा असत्यम् ॥ ५९९ ॥ वेः साहाभ्याम् (६००) विपूर्वाभ्यां षोंच ओहांक् इत्येताभ्यामाः स्यात् । १० विसा चन्द्रः बुद्धिश्च । तालव्यान्तोऽयमित्येके । विहा विहगः सूर्यश्च ॥ ६०० ॥ वृमिथिदिशिभ्यस्थयट्याश्चान्ताः (६०१) एभ्य किदाः थयट्यश्चान्ता यथासङ्घयं स्युः। वृगट् वृथा अर्थम् । मिथूग मिथ्या मृषा निष्फलं च । दिशीत् दिष्ट्या प्रीतिवचनम् ॥ ६०१ ॥ मुचिखदेध च (६०२) आभ्यां किदाः धश्चान्तोऽस्य स्यात् । मुचलंती मुधा निष्फलम् । ष्वदि स्वधा पितृबलिः ॥६०२॥ सोबॅग आह च (६०३) सुपूर्वात् ब्रूतेराः आह इत्ययं चास्यादेशः स्यात् । स्वाहा १५ ॥ ६०३ ॥ सनिक्षमिदुषेः (६०४) एभ्य आः । षणूयी । सना नित्यम् । क्षमौषि क्षमा भूः शान्तिश्च । दूषंच दोषा रात्रिः ॥ ६०४॥डित् (६०५) धातोर्बहुलमाः स च डित् । मनिंग मा निषेधे । षोंच सा अवसानम् । अनक् आ स्मरणादौ । प्रीच् । प्रा स्मयने । हनं हा विषादे। वन वा विकल्पे । रांक रा दीप्तिः । भांक् सहपूर्वः सभा परिषत् । नानि इति सहस्य सः ॥ ६०५ ॥ खरेभ्य इ. (६०६) स्वरान्तेभ्य धातुभ्य इ: स्यात् । जिं जयिः राजा । हिंट हयिः२० कामः । रुक् रविः सूर्यः । कुंक् कविः काव्यकर्ता शुक्रश्च । टुंग्क् स्तविः उद्गाता । लूग्श् लविः दात्रम् । पूग्श पविः वज्रम् पवित्रं च । भू भविः सत्ता चन्द्रः विधिश्च । ऋक् अरिः शत्रुः । हूंग हरिः इन्द्रः विष्णुः चन्दनं मर्कटादिश्च । हरयः शुक्राश्वाः । टुडु,ग्क् भरिः वसुधा । सं सरिः मेघः। पृश् परिः भूमिः । तृ तरिः नौः । दृ दरिः महाभिदा । मश् ण्यन्तः । मारिः अशिवम् । वृगश वरिः विष्णुः ण्यन्तात् वारिर्गजबन्धभूः वारि जलम् ॥ ६०६॥ पदिपठिपचिस्थलिहलि-२५ कलिबलिवलिवल्लिपल्लिकटिचटिवटिवधिगाध्यर्चिवन्दिनन्यविवशिवाशिकाशिछिर्दितन्त्रिमन्निखण्डिमण्डिचण्डियत्यञ्जिमस्यसिवनिध्वनिसनिगमितमिग्रन्थिश्रथिजनिमण्यादिभ्यः (६०७) इः । पदिंच पदी राशिः मोक्षमार्गश्च । पठ पठिः विद्वान् । पचिः अग्निः । 'ठल स्थाने' स्थलिः दानशाला । हल हलिः हलः । कलि कलिः कलहः युगं च । बल बलिः देवोपहारः दानवश्च । 'वलिः वल्लि' । वलिः त्वक्तरङ्गः । वलिः हिरण्यशलाका लता च ।३० पल्ल पल्लिः मुनीनामाश्रमः व्याधसंस्त्यायश्च । कटे कटिः स्वाङ्गम् । 'चटण भेदे । चटिः वर्णः । वट वटिः गुलिका तन्तुः शूना नाभिर्वर्णश्च । 'बधि बन्धने' । बधिः (क्रियाशब्दः)। गाधृङ्गाधिः विश्वामित्रपिता । अर्च अर्चिः अग्निशिखा । वदुङ् वन्दिः ग्रहणिः । टुनदु नन्दिः ईश्वरः प्रतीहारः भेरिश्च । अव अविः ऊर्णायुः । वशक् वशिः वशिता । वाशिच् वाशिः कान्तिः रश्मिः गोमायुः अग्निः शब्दः प्रजननव्याप्ता चतुष्पाद् जलदश्च । काराङ् काशयः जनपदः । छर्दण् छर्दिः वमनम् । तत्रिण तत्रिः ३५
है. प्रका० उत्त. ११७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org