Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 545
________________ ९१८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुमसैच मसूरः धान्यः चर्मासनं च । पशिः सौत्रः, पश्यते गम्यते इति पशूरः ग्रामः । 'खट काङ्के' खटूरः मणिविशेषः । 'खडण भेदे' खडूरः खुरलीस्थानम् । 'खर्ज मार्जने च' खजूरः वृक्षः । 'कर्ज व्यथने' । कर्जूरः स एव मलिनश्च । 'सर्ज अर्जने' । सर्जूरः अहः । कृपौङ्, कर्पूरः गन्धद्रव्यम् । वल्लि वल्लूरः शुष्कमांसम् । मडु मण्डूरः धातुविशेषः ॥ ४२७ ॥ महिकणिचण्यणिपल्य५लितलिमलिशलिभ्यो णित् (४२८) ऊरः । मह माहूरः शैलः । 'कण गतौ' काणूरः नागः। चण चाणूरः मल्लो विष्णुहतः । अण आणूरः प्रामः । पल पालूरं नाम नगरं अन्ध्रराज्ये । अली, आलूरः विटः । तलण् , तालूरः जलावतः । मलि मालूरः दानवः बिल्वश्च । शल शालूरः दर्दुरः ॥४२८ ॥ स्थाविडेः कित् (४२९) ऊरः । ष्ठां स्थूरः वठर उच्चश्च । स्थूरा जङ्घाग्रदेशः । विड विडूरः वालवाये ग्रामः ॥ ४२९ ॥ सिन्दूरकचूरपत्तूरधुत्तूरादयः (४३०) ऊरान्ता निपा१० त्यन्ते । स्यन्देः सिन्द् च सिन्दूरं चीनपिष्टः । करोतेश्वोन्तश्च क—र औषधविशेषः । पतेस्तोन्तश्च पत्तूरं गन्धद्रव्यम् । धुवो द्विरुक्तस्तोन्तो हस्खश्च । धुत्तूरः उन्मत्तकः । दधातेधत्तूरमित्यन्ये । आदिग्रहणात् कस्तूरहारहूरादयः॥ ४३० ॥ कुगुपतिकथिकुथिकठिकुठिकुटिंगडिगुडिमुदिमूलिदंशिभ्यः केरः (४३१) किदेरः । कुङ् कुबेरः धनदः । गुंत् गुबेरं युद्धम् । पल पतेरः पक्षी पवनश्च । कथण कथेरः कथकः कुहकः शकुन्तश्च । कुथच् कुथ्यति पानीयसंपर्केण कुथैरः १५ शिडाकीसम्भारः । कठ कठेरः दरिद्रः । कुठिः सौत्रः, कुठेरः निसृतसारः अर्जकश्च । कुटत् , कुटेरः शठः । गड गडेरः मेघः प्रस्रवणशीलश्च । गुडत् गुडेरः राजा पण्यं च बालभक्ष्यम् । मुदि मुदेरः हर्षः । 'मूल प्रतिष्ठायाम्' मूलेरः वनस्पतिः मूलेरं पण्यं च । 'दशं दशने' दशेरः सर्पः जनपदश्च ॥ ४३१॥ शतेरादयः (४३२) केरप्रत्ययान्ता निपात्यन्ते । शढं तश्च शतेरः वायुः तुषारश्च । आदिशब्दाद्गुधेरशृङ्गबेरनालिकेरादयः ॥ ४३२ ॥ कठिचकिसहिभ्य ओरः (४३३) कठ २० कठोरः अमृदुः चिरन्तनश्च । 'चक तृप्तौ' चकोरः पक्षिविशेषः पर्वतविशेषश्च । पहिं सहोरः विष्णुः : पर्वतश्च ॥ ४३३ ॥ कोरचोरमोरकिशोरपोरहोरादोरादयः (४३४) ओरप्रत्ययान्ता निपात्यन्ते । कायतेश्चरतम्रियतेश्च डिच्च । कोरः बालपुष्पम् । चोरः तस्करः । मोरः मयूरः । कृशेरिचोपान्त्यस्य किशोरः तरुणः बालश्च । हन्तेर्डित् घश्च । घोरं कष्टम् । हूंग् होरा निमित्तवादिनां चक्ररेखा । डुदांग्क दोच् दोरः कटिसूत्रं तन्तुगुणः । आदिग्रहणादन्येऽपि ॥ ४३४ ॥ किगृवृभ्यः २५ करः (४३५) किः सौत्रः, केकरः वक्रदृष्टिः । शश् शर्करा मत्स्यण्डिकादिः कर्कशः क्षुद्रपाषाणकणिकाश्च । वृग्ट वर्करः छागः शिशुः ॥ ४३५ ॥ सूपुषिभ्यां कित् (४३६) षूत् सूकरः वराहः । पूषंच पुष्करं पद्मं तूर्यमुखं हस्तिहस्तानं आकाशं मुरजः तीर्थनाम च ॥ ४३६ ॥ अनिकाभ्यां तरः (४३७) अनक् , अन्तरं बहिर्योगोपसंव्यानयोः छिद्रमध्यविरहविशेषेषु च । के कातरः भीरुः ॥ ४३७ ॥ इण्पूभ्यां कित् (४३८) तरः, इतरः निर्दिष्टप्रतियोगी । पूग्श् पूतरः जलजन्तुः ३०॥ ४३८ ॥ मीज्यजिमामद्यशोवसिकिभ्यः सरः (४३९) मीच , मेसरः वर्णविशेषः । जिं जेसरः शुरः । अज वेसरः अश्वतरः । वेस गतावित्यस्य वा 'जठर०' (४०३) इत्यादिनिपातनादरे रूपम् ॥ मांक मासरः आयामः । मदैच् मत्सरः क्रोधः । अशौटि अक्षरं वर्णः मोक्षपदमाकाशं च । अक्षेर्वा अरेरूपम् । वसं वत्सरः संवत्सरः परिवत्सरः वर्षाभिधानानि । इडामानेन वसन्यत्र काला वयवा इति इड्वत्सरः, इडया मानेन वसन्त्यत्रेति इडावत्सरः; वर्षविशेषाभिधाने । परिवत्सरादीन्यपि ३५ वर्षविशेषाभिधानानि इत्येके । कि इत्यदादौ स्मरन्ति केसरः सिंहसटः पुष्पावयवः बकुलश्च । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636