Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 525
________________ ८९८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैम लघु I पर्पटादयः । लंघते निःस्पृहत्वम् ॥ १४४ ॥ अनिवृललिभ्य आट: (१४५) अनक् अनाटः शिशुः । शृश् शराटः शकुन्तः । पृश् पराटः आयुक्तः । वृड्श् वराटः सेवकः । ' ललिण् ईप्सायाम्' । लल्यते तिलकादिना ललाटम् ॥ १४५ ॥ सृसृपेः कित् (१४६) आटः । संस्राटः पुरःसरः सेवकः । सृप्लं सृपाटः अल्पः कुमुदादिपत्रं च । सृपाटी उपानत् कुप्यं अल्पपुस्तकश्च ५ ॥ १४६ ॥ किरो लश्च वा (१४७) किरतेः किदाटः रस्य लो वा । किलाटः भक्ष्यविशेषः । किराटः वणिक् म्लेच्छश्च ॥ १४७ ॥ कपाटविराटशृङ्गाटमपुनाटादयः (१४८) एते आटान्ता निपात्याः । कम्पेर्नलोपश्च । कपाटः अररिः 'जपादीनां पो वः' (२।३।१०५ ) इति वत्वे कवाटः । वृङ इत्वं च विराटः राजा । श्रयतेः शृङ्ग् च शृङ्गाटं जलविशेषः विपणिमार्गश्च । प्रपूर्वात् पुर्णेनश्च । 'पुणत् शुभे' प्रपुनाटः एडगजः । आदिशब्दात् खल्वाटादयः । खलन्ति बिल्वादीन्यस्मिन् ॥ १४८ ॥ १० चिरेरिटो भू च (१४९) चिरेः सौत्रादिटो भश्चान्तादेशः स्यात् । चिरिणोति हिनस्ति पित्तं च चिर्मिंटी वालुङ्की ॥ १४९ ॥ दिण्टश्वर च वा (१५०) चिरेष्टित् इण्टश्चर् इति वा स्यात् । हिनस्ति कामुकान् चरिण्टी चिरिण्टी च प्रथमवयाः स्त्री ॥ १५० ॥ तृकृकृपिकम्पिकृषिभ्यः कीटः (१५१) एभ्यः कित् ईटः स्यात् । तिरीट: कूलवृक्षः मुकुटं वेष्टनं च । कृत् किरीटं मुकुट हिरण्यं च । कृपौङ् कृपीटं हिरण्यं जलं च । कपूङ् कम्पीटं कम्पः कम्प्रं च । कृषत् कृषीटं जलम् १५॥ १५१ ॥ खञ्जेररीटः (१५२) 'खजु गतिवैकल्ये' खञ्जरीटः खञ्जनः ॥ १५२ ॥ गज भृभ्य उट उडश्च (१५३) भिन्नविभक्तिकनिर्देश उटस्योत्तरत्रानुवृत्त्यर्थः । अप्रकृतस्याप्युडस्येह विधानं लाघवार्थम् । 'गुश् शब्दे' गरुट : गरुडश्च गरुत्मान् । जृष् च जरुटः जरुडश्च वनस्पतिः । दृश् दरुट: दरुडश्च बिडालः । ' वृश भरणे' । वरुट: वरुडः मेष: । 'भृश् भर्जने च' । भरुट: भरुडश्च मेष एव ॥ १५३ ॥ मङ्केर्मकमुकौ च ( १५४) 'मकुङ् मण्डने' । इत्यस्मात् उटः प्रत्यय इमा२०वादेशौ च स्याताम् । मकुटः मुक्कुटश्च ॥ १५४ ॥ नर्कुटकुक्कुटोत्कुरुटमुरुटपुरुटादयः (१५५) एते उटान्ता निपात्यन्ते । नृतेः कश्च । नर्कुट : बन्दी | कुकेः कोन्तश्च । कुक्कुटः कृकवाकुः । उत्पूर्वात्कृगः कुर् च । उत्कुरुटः कचवरपुञ्जः । मुरिपुर्योर्गुणाभावश्च । मुरुटः यद्वेण्वादिमूलमृजु कर्तुं न शक्यते । पुरुटः जलतन्तुः | आदिशब्दात् स्थपुटादयः ॥ १५५ ॥ दुरो द्रः कूटश्च दुर् च (१५६) दुर् पूर्वात् दृणाते: कित् ऊट पुटश्च प्रत्ययौ दुर् चास्यादेशः स्यात् । दुर्दुरूटः दुर्मुखः । २५ दुर्दुरुटः अदेशकालवादी || १५६ ॥ बन्धेः (१५७) बन्धंश्, अस्मात् किदूतः । बध्नाति भोगान् ब (व) धूटी ॥ १५७ ॥ चपेरेट: (१५८) चप्यते शान्तः क्रियतेऽनेन चपेटः हस्ततलाहतिः ॥ १५८॥ यो णित् (१५९) गृत् अस्मात् णिदेटः । गारेट: ऋषिः ॥ १५९ ॥ कृशक्शाखेरोटः (१६०) करोटः भृत्यः शिरः कपालं च । करोटं च भाजनविशेषः । शकोटः बाहुः । ‘शाखू व्याप्तौ’ शाखोटः वृक्षविशेषः ॥ १६० ॥ कपोटवकोटाक्षोटक कटादयः (१६१) एते ३० ओटान्ता निपात्यन्ते । 'कब्रुङ् वर्णे' । पश्च । कपोटः वर्णः कितवश्च । वचेः कञ्च । वकोटः बकः । अनातेः सश्च परादिः । अक्षोटः फलवृक्षः । कृगः कोऽन्तश्च । कर्कोटः नागः । आदिशब्दादन्येपि ॥ १६१ ॥ इति टोपान्त्यप्रत्ययप्रकरणं चतुर्विंशत्या सूत्रैः । वनिकणिकाश्युषिभ्यष्ठः (१६२) 'वन भक्तौ' वन्यते स्वामी अनेन वण्ठः अनिविष्टः । ' कण शब्दे' । कण्ठः कन्धरा । काशृङ्, काशतेऽग्निसंपर्कात् काष्ठं दारु । काष्ठा दिग् अवस्था च । 'उषू दाहे' । ओष्ठः दन्तच्छदः ॥ १६२ ॥ पीवि३५शिकुणिपृषिभ्यः कित् (१६३) ठः । पीच् पीठमासनम् । विशंत् विष्ठा पुरीषम् । कुणत्, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636