Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai
________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रिया
८८३
'वृभि०' एभ्यः शीलादौ सत्यर्थे वर्त्तमानेभ्यष्टाकः स्यात् । 'वृश संभक्तौ' । वृणीते इत्येवंशीलो वराकः । प्रत्ययस्य दित्त्वात् स्त्रियां ङीः वराकी । भिक्षाकः २ | जल्पाकः २ । कुट्टाकः २ । आदिशब्दानुवृत्तेः 'प्रात्सूजोरिन' (५/२/७१ ) प्रात्पराभ्यां सुवतिजुभ्यामिन् स्यात् । इति निरनुबन्धग्रहणात् सुवतेर्ग्रहणं न सूतिसूयत्योः । प्रसुवति-प्रजवतीत्येवंशीलः प्रसवी प्रजवी | 'जीणहक्षिविश्रिपरिभूवमाभ्यामाव्यथः (५/२/७२ ) एभ्य इन् स्यात् । जयतीत्येवंशीलो ५ जयी । इण् अत्ययी उदयी । द्द, आदरी । क्षीति क्षिक्षितोर्ग्रहणम् । क्षयी | विश्रि विश्रयी । परिभू परिभवी । वम् वमी । अभ्यम् अभ्यमी । अव्यथ् न व्यथते अव्यथी ॥ १३४ ॥ सूत्रम् सृघस्यदो मरक् ॥ १३५ ॥ [ सि० ५/२/७३ ]
सृमरः । घस्मरः । अनरः ।। १३५ ।।
'सृघ०' एभ्यो मरक् स्यात् । सरतीत्येवंशीलः सृमरः प्रसृमरः । घस्मरः अद्मरः ॥ १३५ ॥ १० भञ्जिभसिमिदो घुरः ॥ १३६ ॥ [ सि० ५|२|७४ ]
घुरः । भङ्गुरम् । भासुरम् | मेदुरम् ॥ १३६ ॥
'भञ्जि०' भज्यते स्वयमेवेत्येवंशीलं भङ्गरम् काष्ठम् । भासुरम् वपुः । मेदते मेद्यते वा मेदुरः । कारो गत्वार्थः ॥ १३६ ॥
वेत्तिच्छिदभिदः कित् ॥ १३७ ॥ [ सि० ५|२|७५ ]
घुरः । विदुरः । छिदुरः । भिदुरः ॥ १३७ ॥
'वेत्ति०' वेत्तीत्येवंशीलो विदुरः । छिद्यते भिद्यते स्वयमेव छिदुरः भिदुरः । किन्वाद्गुणाभावः । वेन्तीति तिवा निर्देश इतरविदित्रयव्युदासार्थः । व्याप्ये घुरकेलिमकृष्टपच्यम् (५1१1४ ) इति वक्ष्यमाणसूत्रादयं घुरप्रत्ययः । कर्मकर्त्तरीति ज्ञेयम् । भासमिदिविदां कर्त्तर्येव घुरः कर्मकर्त्तुर - सम्भवात् । भासते इत्येवंशीलः भासुरः मेदुरः विदुरः । केचिच्छिदिभिदोरपि कर्त्तरि घुरमि - २० च्छन्ति । 'दोषान्धकारभिदुरो' 'हप्तारिवक्षच्छिदुर' इति ॥ १३७ ॥
भयो रुरुकलुकम् ॥ १३८ ॥ [ सि० ५/२/७६ ]
भीरुः । भीरुकः भीलुकः ॥ १३८ ॥
'भियो' बिभेतीत्येवंशीलो भीरुः भीरुकः भीलुकः । ऋफिडादित्वाल्लत्वं प्रयोगानुसरणाद्गरीय इति लाघवार्थ लुकप्रत्ययविधानम् ॥ १३८ ॥
सृजीणूनशष्ट्ट्ररप् ॥ १३९ ॥ [ सि० ५।२७७ ]
एभ्यः कित् द्वरप् स्यात् । प्रसृत्वरः । जित्वरः । इत्वरः । नश्वरः । 'गत्वर:' ( ५१२७८ ) निपातोऽयम् ॥ १३९ ॥
'सृजी ० ' सरतीत्येवं शीलः सृत्वरः सुत्वरी । जित्वरः २ । इण् इत्वरः २ । सर्वत्र 'ह्रस्वस्य तः पित्कृति' इति तोन्तः । नश्वरः २ । 'गत्वरः ' गमेष्वरप् मकारस्य च तकारो निपात्यते ॥ १३९ ॥
Jain Education International
१५
For Personal & Private Use Only
२५
३६
www.jainelibrary.org
Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636