Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

Previous | Next

Page 517
________________ ८९० महामहोपाध्याय श्री विनयविजयगणिविरचितेखोपज्ञ है मलघु " जनपदः । रमिं, अस्य लमादेशे लमकः ऋषिविशेषः । क्षुदूंपी अस्य क्षुल्लादेशश्च । क्षुद्यतेऽनायासेन क्षुल्लकः दभ्रः । क्षुधं लातीति क्षुल्लः स एव क्षुल्लक इति वा । वट अस्य अवोन्तश्च । वेष्टते बहिः प्रवेशं वटवकस्तृणपुञ्जः । आङ् पूर्वात् ढौकतेर्डिच आढौकते मानकाले आढकं मानम् । आदिग्रहणात् बृहत्तत्रात् कला आपिबन्तीति शास्त्राणि । कथयतीति कथकः तोटकाख्यायिकादीनां ५ वर्णयिता । उम्भति मनोरथात् उपकः ऋषिविशेषः । चपति सान्त्वयति मानिनीः चम्पकः । फलति रक्षा अनेन हे फलहकः ॥ ३३ ॥ इत्यकप्रत्ययः सप्तभिः सूत्रैः । शलिब लिपतिवृतिनभिपटितटित डिगडि भन्दिवन्दिमन्दिनमिकुदुपूमनिखजिभ्य आकः (३४) शलति पूर्णभावं शलति तन्तुरनया शलाका एषणी पूरणरेखाद्यूतोपकरणं सूची च । 'बल प्राण' प्राणिति पयसा बलाका जलचरी शकुनिः । पत्ल गच्छति सैन्येन सह पताका । वृतुङ् १० वर्ताका शकुनिजातिः । णभच् नभाकः चक्रवाकजातिः काकश्च । पट गतौ पटति सैन्येन सह पटाका वैजयन्ती पक्षिजातिश्च । 'तट उच्छ्राये' तटति उच्छ्रयं करोति वर्षाभिः तटाकं सरः । तडण् आघाते आहन्यते जलैः तडाकं तदेव । 'गड सेचने' गड्यते तैलादिना गडाकः शाकजातिः । भदुङ् भन्दते सुखयति आदेशकारिणः भन्दाकं शासनमागमः । ताम्रपत्रलिखितं च । मदुङ् मन्दाका ओषधिः । णमं नमत्यार्येभ्यः नमाका म्लेच्छजातिः । कुङ् कवतेऽव्यक्तं शब्द १५ करोति कवकः पक्षी । टुदुं दुनोति धार्मिकान् वाकः म्लेच्छः । पूङ् पवते धान्यादि पवाका वात्या | मन्यते उपादेयतया राजभिः मनाका हस्तिनी । खज मध्यतेऽसौ खजाकः आकरः । मध्यतेऽनेन मन्था दर्विः । मध्यते पक्षिभिः खजाकं आकाशम् । मध्नाति युवमनः खजाकः बन्धकी । मध्यते रोगैः खजाकं शरीरम् । मध्यते विपक्षपक्षिभिः खजाकः पक्षी ॥ ३४ ॥ शुभिगृहि विदिपुलिगुभ्यः कित् (३५) आकः । शोभते व्योनि शुभाका पक्षिजाति: । गृह्यते २० गृहाकः । वेत्ति चेतयते शरीरं विदाका भूतग्रामः । पोलति महान् भवति पुलाक: अर्द्धस्विन्नधान्यविशेषः । गुङ् गुंतू वा गूयते उपादेयतया गूयतेऽनेन वा गुवाकं पूगफलम् ॥ ३५ ॥ पिषेः पिन्पिण्यौ च (३६) अस्मादाक: एतौ चास्यादेशौ स्याताम् । पिष्यते दानवकुलमनेन पिनाकमैशं धनुः शूलं च । पिष्यन्तेऽनेन वृक्षपत्राणि पिनाक: दण्डः । पिष्यते महिष्यादिदानाय पिण्याकस्तिला दिखलः ॥३६॥ मवाकश्यामाकवार्ताकवृन्ताकज्योन्ताकग्वाक भद्राकादयः (३७) एते आकप्रत्य - २५ यान्ता निपात्यन्ते । मव्य यलोपः मव्यति सम्बध्नाति वस्त्रादिकं मवाकः रेणुः । इयैङ्, श्यायते भोज्यभावमृषीणां मोऽन्ते श्यामाकः जघन्यो व्रीहिः । वृतेर्वृद्धिश्च वर्तते काशनाशाय वार्ताकी शाकविशेषः तत्फलं वार्ताकम् । स्वरान्नोऽन्तश्च । वृन्ताकी उच्च बृहती तस्फलं वृन्ताकम् । ज्युङ् न्तश्च प्रत्ययादिः । ज्यवतेऽस्मिन् स्विद्यमानः ज्योन्ताकं स्वेदसद्म विशेषः । गुंतू गुंङ् वा ऊवादेशश्च गूवाकं पूगफलम् । भदुङ् भन्दते सुखं जनाभं भद्राकः अकुटिलः । आदिग्रहणात् सीव्यति पुष्पादिकं स्योनाकः वृक्षः । ३० चर्वति तत्त्वं चार्वाकः नास्तिक: । पिपर्ति परभावं पराकः परकीयः ||३७|| इत्याकप्रत्ययं चतुर्भिः सूत्रैः । क्रीकल्यलिदलिस्फटिदूषिभ्य इकः (३८) क्रीणातीति क्रयिकः । कलन्ते शब्दायन्ते भृङ्गा अस्यां कलिका कोरकम् । उत्प्राबल्येन शब्दायते उत्कलिका तरङ्गः । अली (अल्यते) भूप्यते तिलकादिना अलिकं ललाटम् । दल्यते कुठारादिना दलिकं दारु । 'स्फट स्फुट्ट विशरणे' स्फटति विकसति प्रतिबिम्बमस्मिन् स्फटिक मणिः । दूषयति चक्षू दूषिका नेत्रमलः ॥ ३८ ॥ आङः पणि३५ पनिपदिपतिभ्यः (३९) इकः । आपण्यते स्तूयते ग्राम्यैः आपणिकः पत्तनवासी व्यवहारको वा । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636