Book Title: Haim Prakash Maha Vyakaranam Uttararddham
Author(s): Kshamavijay
Publisher: Hiralal Somchand Kot Mumbai

View full book text
Previous | Next

Page 502
________________ प्रक्रियावृत्तिरूपे श्रीमप्रकाशे कृदन्तप्रक्रिया शत्रानशावेष्यति तु सस्यौ ॥ ११९ ॥ [ सि० ५।२।२० ] वर्त्तमाने धातोः शत्रानशौ स्याताम् । भविष्यत्काले तु तौ सस्यौ । यान् । शयानः । यास्यन् ॥ ११९ ॥ 1 'शत्रा०' भविष्यत्काले त्विति एष्यन्मात्रे भविष्यन्तीति विषयेऽर्थे, सस्यौ स्यप्रत्ययसहितौ, शत्राशौ भवतः । स्योऽपि प्रत्ययत्वाद्धातोरेव । यान् यान्तौ यान्तः । शयानौ शयानः । कुर्वन् कुर्वाणः | ५ एकविषयत्वाद्वर्त्तमानापि याति यातः यान्ति । एवं सर्वत्र । तथा सन् सन्ति । अधीयानः अधीते । विद्यमानः विद्यते । जुह्वत् जुहोति । विदन् वेत्ति । जानन् जानाति । तथा तरादौ प्रत्यये, पचत्तरः पचत्तमः । पचतितरां पचद्रूपः पचतिरूपम् । जल्पत्कल्पः जल्पतिकल्पं । पश्यद्देश्यः पश्यतिदेश्यम् । पठद्देश्यः पठतिदेशीयम् । एवं पचमानतरः पचमानतमः पचतेतरामित्यादि । द्वितीयाद्यन्तसामानाधिकरण्यसम्बोधनतरादिवर्जिततद्धितप्रत्ययोत्तरपदक्रियालक्षणहेतुषु एषु षट्सु वर्त्तमानाया अन्वया - १० योगाच्छत्रानशावेव । पचन्तं पचमानं पश्य । पचता पचमानेन कृतम् । पचते पचमानाय देहि । पचतः पचमानाद्भीतः । पचतः पचमानस्य स्वम् । पचति पचमाने गतः । सम्बोधने हे पचन हे पचमान । तराद्यन्यतद्धिते कुर्वतोऽपत्यं कौर्वतः पाचतः वैक्ष्यमाणिः कुर्वत्पाश्यः । कुर्वच्चरः । उत्तरपदे, भज्यत इति भक्तिः । कुर्वन् भक्तिरस्य कुर्वद्भक्तिः कुर्वाणभक्तिः । क्रियाया लक्षणं ज्ञापकम् । तत्र तिष्ठन्तो गणका अनुशासति, अनुशासनक्रियया गणका लक्ष्यन्ते । सा चानुशासनक्रिया उपविष्टे १५ गच्छति चेत्युभयविषयत्वेन दुर्लक्षा | अतः स्थानक्रियया लक्ष्यते । ननु अनुशासतीत्यत्रापि वर्त्तमाना न प्राप्नोति यतोऽनयापि गणका लक्ष्यन्ते । नैवम् । क्रियालक्ष्यक्रियायां वर्त्तमाना न स्यात् । गणकादिद्रव्यलक्षकक्रियायां भवत्येव । यथा 'शयानां भुञ्जते यवनाः' । बहुषु मूत्रयत्सु कश्चैत्र इति पृष्टः कश्चिदाह यस्तिष्ठन्मूत्रयति । एवं यो गच्छन् भक्षयति, शयानो भुङ्क्ते, योऽधीयान आस्ते, तथा पठन् पिबति, स मैत्रः । एवं यः पचन् पठति । योऽधीयान आस्ते, य आसीनोऽधीते, तथा फलन्ती वर्द्धते २० द्राक्षा, पुष्यन्ती वर्द्धतेऽब्जिनी । शयाना वर्द्धते दूर्वा आसीनं वर्द्धते बिसम् । क्रियाया हेतुर्जनकस्तत्र जनयन् वसति । अधीयानो वसति । भविष्यति तु सस्यौ । यास्यन् इति । एवं शयिष्यमाणः । पक्षन् पक्ष्यमाणः । यास्यति शयिष्यते पक्ष्यते भविष्यन् इति । अध्येष्यमाणः अध्येष्यते इत्यादि । पक्ष्यत्तरः पक्ष्यमाणतमः । पक्ष्यतितमामित्यादि सर्वेष्वेकविषयत्वात् भविष्यन्त्यपि । पक्ष्यन् व्रजति । पक्ष्यमाणो व्रजतीति क्रियायां क्रियार्थायां एकविषयत्वाच्च भविष्यन्त्यादयोपि । पक्ष्यामीति व्रजति । पाचको व्रजति । २५ पक्तुं व्रजति । पूर्ववदेव द्वितीयाद्यन्तसमानाधिकरण्यादिषु भविष्यन्त्याः समन्वयाभावादभावः । पक्ष्यन्तं पश्य । पक्ष्यमाणं पश्य । हे पक्ष्यन् हे पक्ष्यमाण ब्राह्मण । पाक्ष्यतः पाक्ष्यमाणिः पक्ष्यमाणपाशः पक्ष्यद्भक्तिः पक्ष्यमाणप्रियः । जल्पिष्यन्तो ज्ञास्यन्ते पण्डिताः । अध्येष्यमाणा वेत्स्यन्तीत्यादि । सदेष्यतोरभावे तु श्वः पक्ता । बहुलाधिकारात् द्रव्यगुणयोर्लक्षणे हेतुमद्भावद्योतके त्यादियोगे च न भवति । यो कम्पते सोऽश्वत्थः । यत्तरति तल्लघु । हन्तीति पलायते । वर्षतीति धावति । करिष्यतीति ३० व्रजति । हनिष्यतीति नश्यति । पचत्यतो लभते विजयतेऽतः पूज्यते । क्रियाया अपि लक्षणे [ न केवलं द्रव्यगुणयोर्लक्षणे ] चादियोगे न भवति । यः पचति च पठति च स चैत्रः । योऽधीते चास्ते च स चैत्रः । शकारः शित्कार्यार्थः । ऋकारो ङधावर्थः ॥ ११९ ॥ अत्रोपयोगि सूत्रम् । ३३ Jain Education International ८७५ For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636