Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1013
________________ दायभागः -- मृतापुत्रधनाधिकारक्रमः क्षायाः सवात्प्रकाशस्वरसो बलीयान् प्रकरणानुरोधश्चाकाङ्क्षाया बलवत्वात् निर्हार निषेधवद्दृश्यतेऽपीति । *विर. ५११-२ (४) प्रपौत्रपर्यन्तानामभावे पत्नी धनाधिकारिणी । दात. १९० (५) स्थावरे भर्तृदाये भोग एव न दानम् । 'अपुश्री शयनं भर्तुः' इति वचनात् । पतिसामान्ये बाधकाभावाच्च वाक्यान्तराल्लब्धदायादगामित्वाभिधानायास्य वचनस्य साफल्यसंभवाच्च । कृतनिवृत्तिप्रकरणे कुलज्येष्ठपर्यन्ताननुमतौ अनापदि स्त्रीकृतमात्रस्यैवाप्रामाणि कत्वोक्तेश्च, सौदायिकप्रीतिलब्धयोः स्वातन्त्र्यप्रतिपादनस्य च सांव्यवहारिकदानपरत्वेनाप्युपपत्तेः । पणद्विसहस्रो परिधने स्त्रीणामस्वातन्त्र्यम् । चन्द्र.८२ भर्तृधनभाक् प्रत्नी दुहिता च क्रमेण पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥ (१) एवं च तानि वचनानि अनूढदुहितृविषयाणि । अथवा निर्धनोढादुहितृविषयाणीति मन्तव्यम् । निर्धनत्वेनैवाप्रतिष्ठिताऽत्र व्यवस्थिता । न पुनर्वन्ध्यात्वादिना संतान राहित्येनाप्रतिष्ठिता । तस्याः संतानमुखेनादृष्टोपकारकसंबन्धाभावेन धनहारित्वायोगात् । तदभाव इत्यनेन पूर्वोक्ताया अव्यभिचारिण्याः पत्न्या अभावः प्रत्यवमृश्यते न पत्नीस्वरूपमात्रस्य । तेन न केवलं पत्न्याः स्वरूपाभावे दुहिता धनहारिणी किं तु अव्यभिचारित्वरूप विशेषणाभावेऽपीति मन्तव्यम् । अत एव संग्रहकारेण 'तादृक्पत्न्या अभावे तु पुत्रिका धनमर्हति' इत्युक्तं, न परं पत्नीस्वरूपाभावे । किन्तु धनभा | १५२१ गिनीति निरूपणार्थमुक्तविशेषणविशिष्टपत्न्यभावे पुत्रिका धनमर्हतीत्यर्थः । पुत्रिका धनमर्हतीति तु प्रागेव निरस्तत्वादुपेक्षणीयम् । तेन पत्नीस्वरूपाभावे दुहितृगामि द्रव्यं, विशेषणाभावे तु 'पिता हरेत्' इत्यादिवचनोक्तपित्रादिगामीति कैश्चित्कृता विषयव्यवस्थाऽप्युपेक्षणीया । स्मृच. २९६ (२) अनूढाया एव सापिण्ड्यं 'अनन्तरः सपिण्डो वस्तस्य तस्य धनं हरेदिति मनुवचनात् । ' पुत्राभावे प्रत्यासन्ने न्यायसपिण्डे' इत्यापस्तम्बवचनाच्च सपिण्डस्यैव धनग्रहणं प्रतीयते । अनूढाया अभावे असपिण्डयाऽपि ग्राह्यम् । व्यनि. (३) मिताटीका - धनहरीति तु पचाद्यचष्टित्वेन बोध्यम् । विभागकथनानन्तरमस्योक्तत्वाद्विभक्तत्वस्य लाभः । पत्नीत्याद्यपवादस्य 'संसृष्टिनस्तु संसृष्टीत्यस्य वक्ष्यमाणत्वादसंसृष्टित्वलाभः । बाल. २।१३५(पृ.२२१) अपुत्रमृतधनभाजः क्रमेण पत्नी दुहितरः पिता माता भ्राता तत्पुत्राश्च * स्मृसा. विश्वद्भावः । विचि विरवत् । (१) मिता. २।१३६ भर्तु (पत्यु); स्मृच. २९६ भवेत्तदा (प्रतिष्ठिता); स्मृसा. ७१ उत्त; पमा. ५२४ मितावत् : ५३२ पत्नी...हरी (भर्तुर्धनहरी पत्नी) पू.; मपा. ६७२; रत्न. १५४; व्यनि. मिताबत् ; नृप्र.४० तदा (तथा) शेषं मितावत् : ४१ पत्नी... हरी (पत्युर्धनहरी पत्नी) पू. सवि.४१२१ वीमि. २।१३६ व्यप्र. ४९४, ५२० मितावत्; व्यउ. १५२ पमा. (पृ.५३२) वत्: १५४ उत्त, याज्ञवल्क्यः व्यम. ६१ पू.: ६२; विता. ८५ पू. : ४०१ ; बाल. २११३५ (पृ. २२१ ); समु. १४१. मितावत् . अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राश्व कीर्तिताः ॥ (१) अस्मिन्विषये कात्यायनेन सुबोधतया क्रमो दर्शितः । पुत्रशब्दः संबन्धिशब्दत्वादिन्यायेन भ्रातृपुत्रेष्वेव वर्तते । अत एव याज्ञवल्क्येन 'भ्रातरस्तथा तत्सुता' इत्युक्तम् । स्मृच.२९९ (२) [बालरूपमते] पत्नी च सवर्णा सैव ज्येष्ठा । यथोक्तम् --- 'सवर्णा चेद्विजातीनां प्रशस्ता दारकर्मणि' । एतदभिप्रायमेव शंख : - 'ज्येष्ठा वा पत्नी'ति । • स्मृसा. १२८ (१) मिता. २।१३६ थ (र्य); स्मृच. २९९: स्मृसा. _१२८ थ (ये) माता भ्राता (भ्राता भ्रातुः ); पमा. ५२६ वा (च) त्रा (त्र): ५२८ ( = ); व्यनि. बृहस्पतिः; नृपः ४० पिबा (थ वा); वीमि. २।१३६३ व्यप्र.४९४ स्मृत्यन्तरम् ;व्य. १५२ भ्राता भ्रातृ): १५४ स्याथ (स्य च ) आता पुत्राश्च ( पुत्राश्च परि); व्यम. ६२ स्याथ ( स्यास्य ) त्राश्च (त्राः प्र ); विता. ३.८५ भ्राता पुत्राश्च कीर्तिताः (भ्रातरः पुत्रकास्तथा ); २२१ वा (च) पू.]; समु [पृ.२०९ बाल. २ १३५ १४२.

Loading...

Page Navigation
1 ... 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084