Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१५८६
(६) विभक्तानामपि यत्रांशपरिच्छदो न जातस्तन्मध्यगमेव तिष्ठति, तेन तत्र साधारणत्वमेव । तत्रैको Sनीशः । पृथग्भूतेषु सर्वेष्वेव द्रव्येषु स्वतन्त्रकृतस्य सिद्धिरेव । *विचि.५९ (७) वस्तुतस्तु स्थावरविक्रय निषेधोऽविभक्तस्थावर विषयः । तत्रापि यदि विक्रयं विनाऽवस्थितिर्न भवति तदा विक्रये कर्तव्ये दायादानां दुरन्ततानिवृत्त्यर्थं क्रेतुरिच्छया दानमप्युक्तम् ।
दात. १७७
(८) तत्राविभक्तानां मध्यकद्रव्ये स्वाम्यसाम्यादनीशत्वमन्यानुमतिं विना सिद्धमपि स्थावरे विशेषतस्तदादरार्थमुच्यते । विभक्तानां तु व्यवहारसौकर्यार्थम् । का लान्तरे हि विभक्ताविभक्तसंशये विभागभावनाऽवश्यं साक्ष्यादिप्रमाणेन तथा सति कार्या स्यादन्यथा साधारणद्रव्यदानाद्यसंभवात् । अनुमतौ तु सत्यां तदनपेक्ष एव व्यवहारः सिद्धयति । न तु यथाश्रुतं स्थावरे विभ क्तानामपि समं साम्यम्। विभागस्यादृष्टार्थताप्रसङ्गात् । अतश्चान्यानुमतिमन्तरेणापि दानादिस्वरूपं सिद्धयत्येव । विभागभावनायां व्यवहारोऽपि । यथा - 'स्वग्रामज्ञातिसामन्तदायादानुमतेन वा। हिरण्योदकदानेन षड्मिगच्छति मेदिनी ॥' इति वचने ग्रामानुमतिः सामन्तानुमतिश्च । सामान्तानुमतिस्तु सीमाविप्रतिपत्तिनिरासायापि । ज्ञातिदायादानुमतेस्तु पूर्ववदेव व्यवस्था । अत एवं स्मृत्यन्तरम् — 'प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः ' इति । अन्यथाऽत्रापि ग्रामसामन्तानुमतिमन्तरेण दानाद्यसिद्धि: प्रसज्येत । 'हिरण्योदकदानेने - ति, 'स्थावरे विक्रयो नास्ति कुर्यादाधिमनुज्ञया' इति स्थावरस्य विक्रयप्रतिषेधात्, 'भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति । तावुभौ पुण्यकर्माणौ नियतं स्वर्गगामिनौ ।' इति दानप्रशंसनाच्च कुटुम्ब भरणाद्यर्थमवश्यकर्त्त व्येsपि विक्रये सहिरण्यमुदकं क्रेत्रे दत्त्वा दानांशोऽपि कश्विद्यथा तत्र भवति तथा दानरूपेण स्थावरविक्रयं कुर्यादिति सूचितम् | व्यप्र.४५८-९ [स्मृतिचन्द्रिकामतं खण्डयति ] तत्कल्पनामात्रम् ।
* विचि (१.२५२) मितावत् ।
व्यवहारकाण्डम्
-अविभक्तत्वादेव तत्रानुमत्यपेक्षणात् । + व्यप्र. ५६२
(९) तदुक्तापवादादिव्यतिरेकेण विभक्तोक्तिस्तु यत्र देशान्तरे प्रतिबन्धाद्वा स्थावरं न विभक्तं अन्यद्धनं विभक्तं तत्र यः कश्चित्स्वीयमंशं गृहं क्षेत्रं वा ददाति विक्रीणीते वा तत्परा । अंशानिश्चयाद्विवादाक्रान्तत्वाXविता. २८९ च्चेति मदनरत्नप्राच्यादयः । पूर्वजैरनुजानां संस्काराः कार्या मध्यगाद्धनात् असंस्कृता भ्रातरस्तु ये स्युस्तत्र यवीयसः । संस्कार्याः पूर्वजैस्ते वै पैतृकान्मध्यगाद्धनात् ॥ (१) तत्राजीवत्पितृकेषु भ्रातृष्वित्यर्थः । असंस्कृताः पित्रेति शेषः ।
स्मृच. २६९
(२) यवीयसो यवीयांसः, आर्षत्वान्नुमदीर्घयोरभावादित्येके । अन्ये तु यवीयसः कनिष्ठस्य मध्यगादित्याहुः । फलतश्च न कश्चिद्विशेषः । विर.४९२. (३) भ्रातृग्रहणमत्र भगिनीनामुपलक्षणम् ।
रत्न. १४३
(४) अत्र च संस्कार्यसाहचर्यात् 'अनूढानां दुहितृणां' 'कन्यकानां त्वदत्तानाम्' इत्यनूढत्वविशेषणोपादानाच्चापरिणीता एव चतुर्थांशभागिन्यो भगिन्योऽन्यास्तु यत्किञ्चिदौचित्याल्लभन्त इति बोध्यम् ।
व्यप्र. ४५८
(५) स च विभागः सर्वभ्रातृभगिनीसंस्कारोंत्तरं कार्यः । विता. ३३३
व्यासः विभागे वृत्तेऽपि स्थावरमविभाज्यं, तत्र नैकः कश्चित्स्वतन्त्रो विभक्तोsपि
२
स्थावरस्य समस्तस्य गोत्रसाधारणस्य च । नैकः कुर्यात् क्रयं दानं परस्परमतं विना ।।
+ व्यप्र. (पृ.३०८) अपवत् (पृ. ४५८) मिताक्षराव्याख्यानमेतत् । x मिताक्षरामतं चोपन्यस्तम् ।
(पृ. ५६२) मितावत्,
(१) स्मृच. २६९ पूर्वजैस्ते वै ( प्रातृभिश्चैव ); विर. ४९२; रहन. १४३ गा (का); व्यप्र. ४५८ रत्नवत्; व्यम. ४६ जैस्ते वै (जेनैव) गा (मा); विता. ३३३ (=) रत्नवद; विभ. ९०; समु. १२९.
(२) दा. ३४; दात. १६४, १७६६ स्यप्र. ४३१, ४५९
सेतु.८२-३१ विभ,६१ मतं ( मतिं); विच. ५० विभवत्

Page Navigation
1 ... 1076 1077 1078 1079 1080 1081 1082 1083 1084