Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभागः - संसृष्टिविभागः, भूतापुत्रसंसृष्टिघनाधिकारश्च
साम्याय विभज्य हरेत् । अस्यापवाद उत्तरार्धेनोच्यते तेन पित्रा ये विभक्ताः संसृष्टास्तैः समं वा विभजेत् । नन्द.
|
याज्ञवल्क्यः विभागानन्तरजातः पैतृकथनात् भ्रातृविभक्तधनाद् अंशं गृह्णाति "विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥ (१) यस्माच्च स्वत्वे सति विभागः, तस्मात् - 'विभsपि सवर्णायाः पुत्रो जातो विभागभाक् । दृश्याद्वा तद्विभागः स्यादायव्ययविशोषितात्.' अनिवृत्तरजस्कायां मातरि विभजतां विभागोत्तरकालं यदि पुत्रो जायेत, तस्यापि द्रव्यसंबन्धोऽस्त्येव । तस्मात् स्वत्वे सत्येव इत्युक्तम् । यदि हि विभागेन स्वत्वसंबन्धोऽभविष्यत्, ततो विभक्तजस्य द्रव्यसंबन्धों नोपापत्स्यत । अस्मिन् पुनरस्त्येव तस्यापि द्रव्यसंबन्धः । अतः स्वत्व इति । अतोऽयं श्लोकस्तद्विवेकायारभ्यते । 'विभक्तेऽपि सवर्णायाः पुत्रो जातो. विभागभाक् । स्यादिति शेषः । अविशेषेऽपि पित्र्यबिभागभागित्यवसेयम् । यथाइ गौतमः — 'विभ | क्तजः पित्र्यम्' इति । विभक्तजोऽपि च पितुर्निर्धनत्वे भ्रातृद्रव्यादेव दृश्यमानात् तस्य विभक्तजस्य विभागः स्यात् । अयं तु विशेषः - आयव्ययविवर्जितात् । यत् स्वयंमार्जितं, स आयः । यत् तस्माद् द्रव्यमुपक्षीणं स व्ययः । आयव्ययविशुद्धं विभक्तजेन सह समं विभजनीयमित्यर्थः । विश्व. २।१२५ (२) विभागोत्तरकालमुत्पन्नस्य पुत्रस्य कथं विभागकल्पनेत्यत आह-विभक्तेष्विति । विभक्तेषु पुत्रेषु पश्चात्सविश्व. २।१२५ (१) यास्मृ. २।१२२; अपु. २५६।८; पूर्वार्धे (विभक्तेऽपि सवर्णायाः पुत्रो जातो विभागभाक् ); मिता. २ । १२२: २ । १४० पू.; दा. १३२; अप; व्यक. १५२; गौमि. २८/२७५ स्मृच. ३०७ क्तेषु (क्ते तु); विर. ५३९९
१५३५
वर्णायां भार्यायामुत्पन्नो विभागभाक् । विभज्यत इति विभागः । पित्रोर्विभागस्तं भजतीति विभागभाक् । पित्रोरूर्ध्व तयोरंशं लभत इत्यर्थः । मातृभागं चासत्यां दुहितरि । 'मातुर्दुहितरः शेषम्' इत्युक्तत्वात् । असवर्णायामुत्पन्नस्तु स्वांशमेव पित्र्याल्लभते । मातृकं तु सर्वमेव । एतदेव मनुनोक्तम्- 'ऊर्ध्व विभागाज्जातस्तु पित्र्यमेव हरेद्धनम्' (मस्मृ. ९।२१६ ) इति । पित्रोरिदं पित्र्यमिति व्याख्येयम् । 'अनीशः पूर्वजः पित्रोर्भ्रातुर्भागे विभक्तजः' इति स्मरणात् । विभक्तयो - र्मातापित्रोर्विभागे विभागात्पूर्वमुत्पन्नो न स्वामी विभक्तजश्च भ्रातुर्भागे न स्वामीत्यर्थः । तथा विभागोत्तरकालं पित्रा यत्किञ्चिदर्जितं तत्सर्वं विभक्तजस्यैव J 'पुत्रैः सह विभक्तेन पित्रा यत्स्वयमर्जितम् । विभक्तजस्य तत्सर्वमनीशाः पूर्वजाः स्मृताः ॥' इति स्मरणात् । ये च विभक्ताः पित्रा सह संसृष्टाः तैः सार्धं पिटुरूर्ध्वे विभक्तजो विभजेत् । यथाह मनुः - संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह' इति । पितुरूर्ध्व पुत्रेषु विभक्तेषु पश्चादुत्पन्नस्य कथं विभागकल्पनेत्यत आह — दृश्याद्वेति । तस्य पितरि प्रेते भ्रातृविभागसमयेऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तरकालमुत्पन्नस्यापि विभाग: । तद्विभागः कुत इत्यत आह । दृश्याद्भातृमिर्गृहीताद्धनात् । कीदृशात् आयव्ययविशोघितात् । आयः प्रतिदिवसं प्रतिमासं प्रत्यब्दं वा यदुत्पद्यते, व्ययः पितृकृतर्णापाकरणं, ताभ्यामायव्ययाभ्यां यच्छोषितं तत्तस्मादुद्धृत्य तद्भागो दातव्यः स्यात् 1 एतदुक्तं भवति । प्रातिस्विकेषु भागेषु तदुत्थमायं प्रवेश्य पितृकृतं चर्णमपनीयावशिष्टेभ्यः स्वेभ्यः स्वेभ्यो भागेभ्यः किञ्चित्किञ्चिदुद्धृत्य विभक्तजस्य भागः स्वभागसमः कर्तव्य इति । एतच्च विभागसमयेऽप्रजस्य भ्रातुर्भार्या - यामस्पष्टगर्भायां विभागादूर्ध्वमुत्पन्नस्यापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीक्ष्य विभागः कर्तव्यः । यथाह वसिष्ठः——‘अथ भ्रातॄणां दायविभागो याश्वानपत्याः स्त्रियस्तासामापुत्रलाभात् इति । गृहीत गर्भाणामाप्रसवात्प्रतीक्षणमिति योजनीयम् । + मिता.
1
मा. ४९९ पू. ५०० उत; मपा. ६५६ उत्त; रत्न. १४४, १४५; विचि. २२७; व्यनि तद्वि ( ऽथ वि) धितात् (धनात् ); स्मृचि.३५; नृप्र.३६; सवि. ३७५ पू., ३७६ उत्त.: ४३५ पू. वीमि ; व्यप्र. ४६२ पू. ४६३ उत्त. : ५५८ ( = ) उत्तः ५५९ ( ) पू.; व्यड. १५० पू. १५१ उत्त.; व्यम. ४६; बिता.-३२२ पू., ३२५; राकौ. ४५१; सेतु. ७८ उत्त., नारदः; समु. १४४; विच. ५८:७५ उत्त., नारदः.
+ पमा, मपा., व्यान, सर्वि, व्यड, विता. मितागतम् ।

Page Navigation
1 ... 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084