Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1069
________________ दायभागः — विभागसंदेहे निर्णयविधिः १५०७ अत्र कात्यायन: - - ' वसेयुर्दश वर्षाणि पृथग्धर्माः पृथक्रियाः । भ्रातरस्तेऽपि विज्ञेया विभक्ताः पैतृकाद्धनात् ॥' भ्रातृशब्दोऽत्र रिक्थ संबन्ध्युपलक्षणार्थम् । पैतृकग्रहणं दायग्रहणोपलक्षणार्थमिति चन्द्रिकाकारः। तन्न । स्वत्वानुत्पत्तेरिति वक्ष्यते । ननु कार्यानुषङ्गाद्वा अशक्त्या वा दशवर्षपर्यन्तं दायग्रहणाभावे व्यवहारः सिद्ध एवेति पूर्वप्रकरणोक्तं विरुन्ध्यादिति चेन्मैवम् । परमार्थतो दायग्रहणाभावे । 'पश्यतोऽब्रुवतो भूमेर्हानिविंशतिवार्षिकी । परेण भुज्यमानाया धनस्य दशवार्षिकी ॥' इति - वत् छलानुसारेण विभक्ता एवेति चन्द्रिकाकारः । अत्र छलं स्वोपेक्षानिबन्धनम् । नन्वेवं 'पश्यतोऽब्रुवतो भूमेः रित्यत्र न व्यवहारहानिः स्वस्वरूपहानिः, अपि तु फलहानिरित्युक्तं विज्ञानयोगिना । तद्वदत्राऽपि फलहानिरेव न स्वरूपहानिः न व्यवहारहानिरिति चेन्मैवम् । भूमेह - निरित्यत्र कर्मणि षष्ठीविधानाद्विंशतिवार्षिको भोगो भूमि हन्यादिति वाक्यार्थस्य निष्पन्नत्वात् । दशवार्षिको भोगो धनं हन्यादिति स्वरूपहानिरेवोक्ता । ननु 'छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । ' इति तत्त्वा नुसरणेनैव न्यायः कर्तव्य इति चेन्मैवम् । अत्र छलमत त्त्वात्मकं विवक्षितम् । न तु तत्त्वात्मकम् । तत्त्वात्मकछला वलम्बनेन तु व्यवहारनिर्णयदर्शनात् । तथाहि - ' भूत- ' च्छलानुरोधेन द्विगतिः समुदाहृतः । इति व्यवहारस्य छलावलम्बनमप्येका गतिर्युक्ता । अन्यथा - 'धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । चतुष्पाद्व्यवहारोऽयमु तरः पूर्वबाधकः ||' इति स्मृत्या उत्तरेषां व्यवहारचरित्रराजशासनानां धर्मबाधकत्वं छलानुसरणनिबन्धनं निरुन्ध्यात् । एतस्य छलानुसरणस्य तात्त्विकत्वे स्मृतिकाराणामप्रामाणिकत्वं स्यात् । अत एव छलं निरस्य भूतेनेत्यत्र छलग्रहण मतत्त्वात्मकछलविषयमिति मन्तव्यम् । लिखितसाक्षिणावन्तरेणेत्यर्थः । साक्षिग्रहणं प्रबल प्रमाणस्योपलक्षणम् । अत एव लेख्यमपि संगृहीतम् । अत एवानन्तरमुक्तं तेनैव - ' तेषामेताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु । विभक्तानवगच्छेयुः लेख्यमप्यन्तरेण तान् ॥' लेख्यग्रहणं साक्षिणामुपलक्षणम् । केचिदाहुःअत्र विभागनिह्नवे लेख्य (लिखित) साक्षिभ्यां तुल्यबलत्वं लिङ्गानामप्यवगन्तव्यम् । अत एवाहैतद्व्याख्याने चन्द्रिकाकारः -- प्रवर्तन्ते व्यक्ताः समस्ता इति शेष इति । तन्न । परस्परकर्तृकसाक्षित्वप्रातिभाव्यादीनां ज्ञापक हेतुभ्यो विलक्षणत्वेनोक्तत्वात् । साक्षिग्रहणेनैव ज्ञात्यादीनां तटस्थसाक्षिणामपि साक्षित्वेऽपि विभाग निर्णये तेषां प्राबल्यज्ञापनार्थ पृथग्ग्रहणमिति विज्ञानेशः । साक्षिग्रहणं कृतसाक्षिपरमिति केचित् । बृहस्पतिः - 'एकपाकेन वसतां पितृदेवद्विजार्चनम् । एकं भवेद्विभक्तानां तदेव स्याद् गृहे गृहे ॥' एवं च पृथक्पृथग्वैश्वदेवादिकार्यप्रवर्तनं अविभक्तेष्वविद्यमानं विभक्तत्वमवगमयतीति विभागसंदेह निर्णय युक्तिर्युक्तेत्यनवद्यमिति चन्द्रिकाकारः । अस्यायमाशयः --पितृदेवद्विजार्चनमित्यत्र पितृशब्देन प्रत्याब्दिकमुच्यते T अमावास्याश्राद्धादीनामविभक्तानां मध्ये इतराभ्यनुज्ञया इतरस्याधिकारात् । अत्र 'देवशब्देन तत्संनियोगशिष्टं वैश्वदेवश्राद्धमुच्यते । न तु देवयज्ञादिकं, तस्याविभक्तानामपि विहितत्वात् । 'अविभक्तैश्च कर्तव्या वैश्वदेवादिकाः क्रियाः । इति स्मरणादिति । एतच्च वैवाहिकानिर्येषां मते अलौकिकः । लौकिकत्वपक्षे तु विभागानन्तरमेव अग्निहोत्रवैश्वदेवादिकाः कार्या इति तेषां कारक हेतवो वैश्वदेवादिकाः । उभयेषां प्रत्याब्दिकं कारकहेतुरिति । अत्र केचिदाहुः -- चन्द्रि काकारेण श्रेष्ठनिर्णायकप्रमाणाभावे लिङगानां प्रवेश इत्युक्तं त (तु)च्च लिखितसाक्षिसद्भावे ताभ्यां निर्णय औत्सर्गिक इति तेषां प्राथम्य ( प्राधान्य) मुक्तम् । न तु प्रमापकत्वे लिखितसाक्षिलिङ्गानाम् । विभागनिह्नव स्थले लिङ्गादितरप्राबल्यस्य स्मृत्याचारयोर्वेदानुमा पकत्वे तुल्ये आचारमूल वेदानुमानात् स्मृतिमूलवेदानुमानस्य सुकरत्ववदित्यनुसंधेयमिति । तन्न । चन्द्रिकाकारस्य लिङ्गशब्देन हेतुरभिप्रेतः । स च ज्ञापक एव । कारक हेतूनां लिखितादतिशयित्वान्न तुल्यतेति । अत एव चन्द्रिकाकारविज्ञानयोगिभ्यां - 'निह्नवे भावितो दद्यादेकदेशविभावितः' इति वचनव्याख्यानावसरे छलानुसरणमत्र कार्यमित्युक्तम् । विज्ञान योगिनापि ' स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।' इत्यत्र अवष्टम्भविषये दिव्यं नास्तीति वदता, पश्यतोऽब्रुवतो भूमेरित्यत्राऽपि तु फलहानिरिति वदता, छलानुसारेण निर्णयोऽङ्गीकृत इति दिङ्मात्रमुदाहृतम् ।..

Loading...

Page Navigation
1 ... 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084