Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभागः - विभागसंदेहे निर्णयविधिः
१५७९
तदूर्ध्व मैत्रादिना यल्लब्धं तदेवाविभाज्यं दशवर्षमध्ये | ज्ञापकहेतूनां कारकत्वात्मनाऽवस्थितैः कारकहेतुमिरेव निर्णय इत्यर्थादुक्तम् । इयांस्तु विशेषः -- -स्वभावतः कारकहेतुभिः सद्य एव विभाग सिद्धेस्तन्निर्णयः, ज्ञापकहेतुरूपकारकाणां दशवर्षपर्यन्त इति । सर्वाभावे दिव्यानवतारात् शुद्धो विभागः कर्तव्यः । उक्तहेतुभिः विभागसिद्धावपि व्यवहर्तृभ्रातुभ्यो यत्किञ्चिद्देयमिति सर्वमनवद्यम् । सवि.४४०-९
(७) योतकैर्यौतकवदसाधारणीभूतैः । चकारेण नारदोक्तविभागलिङ्गानां दिव्यस्य च संग्रहः । +वीमि . (८) यद्यपि ज्ञातिबन्धवोऽपि साक्षिविधयैव निर्णयकारणं तथापि बहिरङ्ग साक्ष्यपेक्षयाऽन्तरङ्गास्ते श्राद्धादिपृथग्भावरूपविभागलिङ्गतत्त्वज्ञा विभागकतारश्चेति गोबलीवर्दन्यायेन पृथगुपात्ताः । +व्यप्र. ५६३ (९) मिताटीका - ज्ञातिभिरित्यादि । तेषां बहूनामेकसाधकत्वात् पितृबन्धुभिरिति । इदमुपलक्षणमन्यद्वयस्यापि । वस्तुतस्तु ज्ञातिभिरित्यस्योदासीनैः सजातीयैरित्यर्थः । बन्धुभिरित्यस्य बन्धुत्रयैर्भ्रात्रादिभिश्चेत्यर्थ उचित इति बोध्यम् ।
बाल.
लब्धं मैत्रादिकं विभाज्यमेव । अविभागदशायां स्वयं मार्जितं मैत्रादिकं विभाज्यमिति कैमुतिकन्यायसिद्धम् । यथाह विष्णुः—‘अपित्र्यं गार्म धार्मे मैत्रं वैद्यमाकस्मिकमादशाब्दं प्रविभाज्यमत ऊर्ध्वं सर्वमविभाज्यम्' इति । अत्राह भारुचिः– अपित्र्यं अविद्यमानपितृद्रव्यम् । एतत् त्रितयविशेषणम् । गार्भे स्त्रीधनम् । धार्मे इष्टापूर्तादिकम्। मैत्रं मित्रसकाशाल्लब्धम् । वैद्यं विद्यात लब्धम् । आकस्मिकं अकस्माल्लब्धं निध्यादिकम् । प्रतिग्रहादिना लब्धम् । एतत्पञ्चविधद्रव्यमध्ये उत्तरत्रयं धर्मविभागाभावेऽविभक्तत्वात् विभाज्यम् । दशवर्षपर्यन्तावस्थितिरूपधर्मविभागसद्भावेऽप्यविभाज्यमेव इति । अयमाशयः आ दशवर्षमिति धर्मविभागोपलक्षणमिति । न चैतद्वचनम् — 'संविश्व परिवृत्तिश्च विभागश्च समा अपि । आदशाह्यन्निवर्तन्ते विषमा नवबत्सरात् ॥' इति विषमविभागस्य नववर्षपर्यन्तं निवृ- | त्तिप्रतिपादकभरद्वाजवचनानुसारेण नववर्षादुपरि विषमविभागो न परावर्तत इत्येवम्परमिति वाच्यम् । एतद्वचनस्य तत्परत्वाभावात् । तथाहि - एतद्वचनं विभागसंदेहं प्रक्रम्योक्तम् । वचनसामर्थ्यं चापि तथैव प्रतिभाति । 'वसेयुर्दश वर्षाणि पृथग्धर्माः पृथक्क्रियाः । 'विभक्ता भ्रातरः...||' इति पृथग्धर्मकत्व पृथक्क्रियत्वलक्षणविशेषणविशिष्टदशवर्षपर्यन्तं वसतिर्विभागहेतुः प्रतिपादितः विषमविभागप्रतिपादनपरत्वे व्याहन्येत । विभक्ता भ्रातर इति लिङ्गसामर्थ्यात् लिङ्गी विभागो व्याहन्येत । विभागलिङ्गानां परस्वत्वापादकत्वायोगात् । छलानुसारेणापि व्यवहारस्य न्याय्यत्वादिति तत्र व्यब्लोपे पञ्चम्येव समाश्रयणीयेति । तन्न । विभागलिङ्गानां कारकरूपहेतुत्वाद्विभागोत्पादने सामर्थ्यस्योक्तेः । स्वत्वस्यापि पुत्राणां जन्मनैव सिद्धत्वात् । तत्त्वात्मकछलानुसरणस्य न्याय्यत्वेनोदाहृतत्वात् । तदयमत्र निष्कर्षः -- विभागसंदेहे क्वचित् लिखितेन निर्णयः, क्वचित्साक्षिभिः, कचित् ज्ञातिभिः, कन्विद्वन्धुभिः, क्वचिन्मिश्रितैर्निर्णयः कर्तव्यः, एतेषामभावे कारकहेतुभिर्निर्णयः । उभयसद्भावे कारकहेतुरौत्सर्गिक एव । ज्ञापकहेतुभिस्तु दशवर्षपर्यन्तं परिवर्तितैरेव निर्णयो नान्यैः । दशवर्षपर्यन्तावस्थितानां
नारदः विभागनिर्णये प्रमाणानि 'विभागधर्म संदेहे दायादानां विनिर्णयः । ज्ञातिभिर्भागलेख्येन पृथक्कार्यप्रवर्तनात् ।। भ्रातॄणामविभक्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् ॥ + शेषं मितागतम् ।
* सवि. व्याख्यानं 'विभागनिहवे' इति याज्ञवल्क्यवचने (पृ.१५७६) द्रष्टव्यम् ।
(१) नासं. १४ ३६ र्णय: (र्णये) ख्येन ( ख्यैस्तु) कार्य-: प्रवर्तनात् (कार्या प्रकल्पना ); नास्मृ. १६ । ३६ ख्येन ( ख्यैश्व ); दा. २२९ 'ज्ञातृभिः' इति पाठः; व्यक. १६२; स्मृच. ३१०१ विर.६०६; स्मृसा.८०३ पमा. ५६९; मपा. ६८९; विचि. २५२; स्मृचि.३६, सवि.४४०६ दानि. ५ देहे (देहो); प्र. ५६३; व्यम. ५८; विता. ४७३; राकौ. ४६ ०; सेतु. ८६; समु. १४५; विच. १०२.
(२) नासं. १४ ३७ तेषां (देषां ); नास्मृ. १६ । ३.७. ऽपि भवेत्तेषां (हि तेषां भवेद ); मिता. २।१४९; व्यक. १६२; स्मृच.२५९ ऽपि (हि) तेषां (देषां) : ३१०; विर,६०६
है

Page Navigation
1 ... 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084