Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1055
________________ दायभागः - संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च (१) तत्र जीवद्विभागेोत्तरकालजातं पुत्रं प्रत्याह विष्णुः - पितृविभक्ता इति । अस्यार्थः । अविस्पष्टगर्भायां पितृभार्यायां ये पुत्रा विभक्तास्ते स्वविभागोतरकालजातस्य पुत्रस्य तत्सद्भावाज्ञानतः स्वभागप्रविष्ट - तद्भागांशानुद्धृत्य दद्युरिति । पिता तु स्वभागप्रविष्टतद्भागांशं न दद्यात् । किन्तु पूर्वजैर्दत्तानंशान् गृहीत्वा विभक्तजेन सह वसेत् । तस्याप्राप्तव्यवहारस्य सहवासेन पालनीयत्वात् । अत एव पितृविभक्ता भागं दद्युरित्युक्तम्। न पुनः पिता पितृविभक्ताश्च भागं दद्युरिति । यत्तु गौतमेनोक्तम्-‘विभक्तज़ः पित्र्यमेव' इति । भागं गृह्णीया - दिति शेषः। तदेतत्पितृविभक्त पुत्रैर्विभक्तजस्य भागदानात्प्रागेव पितरि मृते द्रष्टव्यम् । तथा च पूर्वजैर्भागो न देयः पित्र्यमेवेत्येवकारकरणात् । स्मृच. २०६ (२) यस्तु विभागकाले गर्भस्थो न ज्ञातो, ज्ञातोऽपि न तस्यांशो धृतस्तस्य भागमाह विष्णु:- पितृविभक्ता इति । विभागानन्तरं वस्य गर्भाधानं स पित्र्यमेवांशं लभते । +स्मृसा.६६ (३) जीवति तु पितरि मातरि तत्सपत्न्यां वाऽवि - स्पष्टगर्भायां विभक्तैर्विभागानन्तरोत्पन्नोऽयं स्वस्वभागादाकृष्य स्वभागसमभागभाक् कार्यः । तथा च विष्णुः पितृविभक्ता इति । तं च भ्रातृदत्तं तद्विभागं पितैव गृहीत्वा तं परिपालयेत् । तस्यैव तत्राधिकारात् । 'अप्राप्तव्यवहाराणां' इत्यादिप्रांगुक्तवचनाच्च । यच्च वचनं 'अनीशः पूर्वजः पित्रोर्भ्रातुर्भागे विभक्तजः ।' इति, तस्याप्ययमेव विषयः । व्यप्र.४६२ मनुः विभागानन्तरजातः पैतृकांशमात्रभाक् । संसृष्टिनश्चेत् भ्रात्रादयः तेभ्यः समो भागो ग्राह्यः । ऊर्ध्व विभागाज्जातस्तु पित्र्यमेव हरेद्धनम् । संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह || + चन्द्र. स्मृसावद्भावः । * व्यउ. व्याख्यानं • विभक्तेषु सुतो जातः ' इति याज्ञवल्क्यवचने मितागतम् । विभा); व्यम्र.४६ दातवत्; सेतु. ७६ रोल्प (रमुत्य); विभ. ६७ सेतुवत्; समु.१४४ भागं (भागान्); विच.३७ रत्नवत्. (१) मस्सु. ९।२१६ मिवा. २।१२२; दा. २४ प्रथमपादः : १३०; अप.२।१२२; गौमि. २८/२७ स्युः (Sस्य); १५३३ 1 (१) विभागोत्तरकालं पित्रा यद्विभागद्वयं गृहीतं 'द्वावंशौ प्रतिपद्येत' इति तदेव सत्यां पितुरिच्छायां ग्रहीतव्यम् । पितुरूर्ध्वं वा, न तत्र भ्रातृमिर्वाच्यं किमि - त्ययं द्वावंशौ गृह्णातीति । अथ च नास्ति पितुरिच्छा, तदा समं च, स्वसमोऽस्य भाग उद्धर्तव्यः । ये पितुरूर्ध्व संसृष्टास्तेषामेव स पैतृकोंऽशस्तदुक्तं 'दद्यादपहरेच्चांश जातस्य च मृतस्य च' इति जातस्य संसृष्टिन एव दद्युः । पितुरूर्ध्व तदीयमंशं च सममेव, 'विभक्ताः सह' इत्यनया तु बुद्धया (?) । 'भगिन्या आ प्रसवान्नैव विभागोऽस्ति' इति वसिष्ठेन दर्शितम् (१) । मेधा. (२) पित्रोरिदं पित्र्यमिति व्याख्येयम् । ये च विभक्ताः पित्रा सह संसृष्टाः तैः सार्धे पितुरूर्ध्व विभ तजो विभजेत् । *मिता.२।१२२ (३) 'ऊर्ध्व विभागाज्जातस्त्वि' त्यनेन (मस्मृ. ९ | २१६, नास्मृ. १६/४४) च सस्पृहे पितरि तदिच्छया विभागकालोऽपरो दर्शितः । दा. २४ यदि पिता पुत्रान् विभज्य स्वयं च यथाशास्त्रं भागं गृहीत्वा पुत्रैरसंसृष्ट एव मृतः तदा विभागानन्तरं जातः पितृधनमेव गृह्णीयात् स एव तस्य भागः । अथ कैश्चित् पुत्रैः सह संसृष्टः पिता मृतः तदा संसृष्टेभ्यो भागं गृह्णीयात् । Xदा. १३० (४) विभक्तेषु जातः पितृधनमेव हरेन्न भ्रातृधनं, पितुर्भ्रातॄणां चाभावे पित्रा सह ये संसृष्टास्तैः सह पितृभागं विभजेत । जात इत्येकवचनमविवचितम् । अप. २।१२२ * पमा, मपा. मितागतम् । x ममु. दागतम् । व्यक. १५२ मनुनारदौ; स्मृख. ३०७ वा ये (ये वा); विर. ५३८ हरेद्धनम् (धनं हरेत्); स्मृसा. ६६,७७, १४८ विरवत् ; पमा. ४९९ पू., ५०० उत्त.; मपा.६५५; दकि. ४३; रत्न. १४४; विचि. २२८, २४८ विरवत् व्यनि; स्मृचि. ३५; नृप्र. ३६; सवि. ३७५ बिरवत, स्मृतिः : ४३५ पू०० ४३६ उत्त, स्मृचवत्; चन्द्र. ७२ विरबत्; वीमि. २।१२२ विरवत् व्यप्र. ४३४,४६९ पू. ४६३ उत्त; व्यउ. १५० पू., १५१ उत्त.; व्यम.४६६ विता. ३२२,४२८६ राकौ. ४५१ पू., ४५२ उत्त. सेतु. ७३,७५,८०.८१; विभ. ६६ पू.; समु.१४४; विच.३३ पू. : १०१.

Loading...

Page Navigation
1 ... 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084