________________
दायभागः -- मृतापुत्रधनाधिकारक्रमः
क्षायाः सवात्प्रकाशस्वरसो बलीयान् प्रकरणानुरोधश्चाकाङ्क्षाया बलवत्वात् निर्हार निषेधवद्दृश्यतेऽपीति । *विर. ५११-२ (४) प्रपौत्रपर्यन्तानामभावे पत्नी धनाधिकारिणी ।
दात. १९०
(५) स्थावरे भर्तृदाये भोग एव न दानम् । 'अपुश्री शयनं भर्तुः' इति वचनात् । पतिसामान्ये बाधकाभावाच्च वाक्यान्तराल्लब्धदायादगामित्वाभिधानायास्य वचनस्य साफल्यसंभवाच्च । कृतनिवृत्तिप्रकरणे कुलज्येष्ठपर्यन्ताननुमतौ अनापदि स्त्रीकृतमात्रस्यैवाप्रामाणि कत्वोक्तेश्च, सौदायिकप्रीतिलब्धयोः स्वातन्त्र्यप्रतिपादनस्य च सांव्यवहारिकदानपरत्वेनाप्युपपत्तेः । पणद्विसहस्रो परिधने स्त्रीणामस्वातन्त्र्यम् । चन्द्र.८२ भर्तृधनभाक् प्रत्नी दुहिता च क्रमेण पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥
(१) एवं च तानि वचनानि अनूढदुहितृविषयाणि । अथवा निर्धनोढादुहितृविषयाणीति मन्तव्यम् । निर्धनत्वेनैवाप्रतिष्ठिताऽत्र व्यवस्थिता । न पुनर्वन्ध्यात्वादिना संतान राहित्येनाप्रतिष्ठिता । तस्याः संतानमुखेनादृष्टोपकारकसंबन्धाभावेन धनहारित्वायोगात् । तदभाव इत्यनेन पूर्वोक्ताया अव्यभिचारिण्याः पत्न्या अभावः प्रत्यवमृश्यते न पत्नीस्वरूपमात्रस्य । तेन न केवलं पत्न्याः स्वरूपाभावे दुहिता धनहारिणी किं तु अव्यभिचारित्वरूप विशेषणाभावेऽपीति मन्तव्यम् । अत एव संग्रहकारेण 'तादृक्पत्न्या अभावे तु पुत्रिका धनमर्हति' इत्युक्तं, न परं पत्नीस्वरूपाभावे । किन्तु धनभा
|
१५२१
गिनीति निरूपणार्थमुक्तविशेषणविशिष्टपत्न्यभावे पुत्रिका धनमर्हतीत्यर्थः । पुत्रिका धनमर्हतीति तु प्रागेव निरस्तत्वादुपेक्षणीयम् । तेन पत्नीस्वरूपाभावे दुहितृगामि द्रव्यं, विशेषणाभावे तु 'पिता हरेत्' इत्यादिवचनोक्तपित्रादिगामीति कैश्चित्कृता विषयव्यवस्थाऽप्युपेक्षणीया । स्मृच. २९६ (२) अनूढाया एव सापिण्ड्यं 'अनन्तरः सपिण्डो वस्तस्य तस्य धनं हरेदिति मनुवचनात् । ' पुत्राभावे प्रत्यासन्ने न्यायसपिण्डे' इत्यापस्तम्बवचनाच्च सपिण्डस्यैव धनग्रहणं प्रतीयते । अनूढाया अभावे असपिण्डयाऽपि ग्राह्यम् । व्यनि. (३) मिताटीका - धनहरीति तु पचाद्यचष्टित्वेन बोध्यम् । विभागकथनानन्तरमस्योक्तत्वाद्विभक्तत्वस्य लाभः । पत्नीत्याद्यपवादस्य 'संसृष्टिनस्तु संसृष्टीत्यस्य वक्ष्यमाणत्वादसंसृष्टित्वलाभः । बाल. २।१३५(पृ.२२१) अपुत्रमृतधनभाजः क्रमेण पत्नी दुहितरः पिता माता भ्राता तत्पुत्राश्च
* स्मृसा. विश्वद्भावः । विचि विरवत् ।
(१) मिता. २।१३६ भर्तु (पत्यु); स्मृच. २९६ भवेत्तदा (प्रतिष्ठिता); स्मृसा. ७१ उत्त; पमा. ५२४ मितावत् : ५३२ पत्नी...हरी (भर्तुर्धनहरी पत्नी) पू.; मपा. ६७२; रत्न. १५४; व्यनि. मिताबत् ; नृप्र.४० तदा (तथा) शेषं मितावत् : ४१ पत्नी... हरी (पत्युर्धनहरी पत्नी) पू. सवि.४१२१ वीमि. २।१३६ व्यप्र. ४९४, ५२० मितावत्; व्यउ. १५२ पमा. (पृ.५३२) वत्: १५४ उत्त, याज्ञवल्क्यः व्यम. ६१ पू.: ६२; विता. ८५ पू. : ४०१ ; बाल. २११३५ (पृ. २२१ ); समु. १४१. मितावत् .
अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राश्व कीर्तिताः ॥
(१) अस्मिन्विषये कात्यायनेन सुबोधतया क्रमो दर्शितः । पुत्रशब्दः संबन्धिशब्दत्वादिन्यायेन भ्रातृपुत्रेष्वेव वर्तते । अत एव याज्ञवल्क्येन 'भ्रातरस्तथा तत्सुता' इत्युक्तम् । स्मृच.२९९
(२) [बालरूपमते] पत्नी च सवर्णा सैव ज्येष्ठा । यथोक्तम् --- 'सवर्णा चेद्विजातीनां प्रशस्ता दारकर्मणि' । एतदभिप्रायमेव शंख : - 'ज्येष्ठा वा पत्नी'ति ।
• स्मृसा. १२८
(१) मिता. २।१३६ थ (र्य); स्मृच. २९९: स्मृसा. _१२८ थ (ये) माता भ्राता (भ्राता भ्रातुः ); पमा. ५२६ वा (च) त्रा (त्र): ५२८ ( = ); व्यनि. बृहस्पतिः; नृपः ४० पिबा (थ वा); वीमि. २।१३६३ व्यप्र.४९४ स्मृत्यन्तरम् ;व्य. १५२ भ्राता भ्रातृ): १५४ स्याथ (स्य च ) आता पुत्राश्च ( पुत्राश्च परि); व्यम. ६२ स्याथ ( स्यास्य ) त्राश्च (त्राः प्र ); विता. ३.८५ भ्राता पुत्राश्च कीर्तिताः (भ्रातरः पुत्रकास्तथा ); २२१ वा (च) पू.]; समु
[पृ.२०९
बाल. २ १३५
१४२.