Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1042
________________ १५५० व्यवहारकाण्डम् नस्तु संसृष्टीत्यविशेषेणाभिधानात् । पितापुत्रयोरपि संसर्ग | सोदरे संसृष्टिनि सति अन्यमातृजः संसृष्टयपि न कथनात् । 'अनपत्यस्य धर्मोऽयमभार्यापितृकस्य चेत्यस्य गृह्णीयात्, अर्थात्तत्र संसृष्टी सोदर एव गृह्णीयात् वा बाधस्य पित्रा विभक्तसंसर्गानन्तरजातविषयत्वात् । संसृष्टत्वाविशेषेऽपि सोदरत्वेन तस्यैव बलवत्त्वात् । दात. १९४ (११) यस्तु वैमात्रेयस्य भाग एव नास्तीति मुख्योऽर्थः सोऽपि संसर्गव्यवस्थाविरोधादनादृतः । संसृष्टिपरोक्षेऽसाध्वीनां तत्पत्नीनां भरणमात्रं विधेयम् | +चन्द्र. ९७ (१२) [ अत्र भारुचिः - इत्युपक्रम्योक्तम् ] संसृष्टिनोऽपुत्रस्यापितृकस्य धनं पितृव्यगाम्येवेति विष्णुवचनस्यार्थः । अत एवाह याज्ञवल्क्यः -- 'संसृष्टिनस्तु संसृष्टी' इति । यत्र पुनः पितृव्यसोदरौ संसृष्टौ तत्र संसृष्टिनं सोदरगाम्येव, न पितृव्यगामीत्याह याज्ञवल्क्यः— 'सोदरस्य तु सोदर' इति । सोदरस्य संसृष्टस्य धनं सोदर एव गृह्णीयात् । संसृष्टिपितृव्यादिस्तु संसृष्टोऽपि न गृह्णीयात् । तस्यैव तत्पिण्डदानाधिकारादिति वचनार्थः । संसृष्टिनो मरणानन्तरं जातस्य पुत्रस्यैवांशो दातव्यः नं ग्रहीतव्य इत्याह याज्ञवल्क्यः - 'दद्याच्चापहरेच्चांश जातस्य च मृतस्य च ।' इति । यत्र पुनः भिन्नोदरा भ्रातरः केचन संसृष्टाः, सोदरभ्रातरो न सन्ति, पितृव्यादयोऽपि संसृष्टाः, तत्र मिन्नोदरभ्रातृगाम्येव धनमित्याह याज्ञवल्क्यः—' अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् ।' इति । असंसृष्टीति शेषः । सवि.४३२-३ अन्तरङ्गन्यायेनासंसृष्टिनामेव धनग्राहित्वमाह याज्ञवल्क्यः - असंसृष्टयपि चादद्यात् इति । अपिशब्देन 'सोदरस्य तु सोदर' इत्यत्र सोदरोऽनुकृष्यत इति भारुचिः । लक्ष्मीधरस्तु — अपिशब्देन 'संसृष्टो नान्यमातृज' इत्यन्यमातृजपदसामर्थ्यात् सोदर एव समुच्चीयत इत्याह । तदयमर्थः - संसृष्टिनो धनं असंसृष्टसोदर एव गृह्णीयात् । अन्यमातृजस्तु संसृष्टोऽपि न गृह्णीयात् । असंसृष्टिनः सोदरस्य पाक्षिकापचयभाराभ्युपगमसाहसशालित्वाभावेऽपि पितृपिण्डदानाधिकारस्तस्यैवेति तदुक्तिः । अनेनैव न्यायेन एकोदराणामपि संसृष्टस्य मध्यमस्य मरणे कनिष्ठस्यासंसृष्टिनः तदौर्ध्वदेहिकाधिकारात् संसृष्टज्येष्ठस्य विद्यमानत्वेऽपि तस्य न मध्यमांश 1 तदेवं संसृष्टित्वे प्रमीतसंसृष्टित्वमेव संसृष्टिनोऽधिकारः संसृष्टिनस्तु संसृष्टीत्यनेन प्रतिपादितः । अत्रैव विशेषः सोदरस्य तु सोदरः, सोदराऽसोदरसंसर्गे संसृष्टी सोदरो गृह्णीयात् नतु मिन्नोदरसं सृष्टीत्यर्थः । स्मृसा.७७-८ [ बालरूपमते ] अन्योदर्यः सापत्न्यः धनं हरेत् संसृष्टी सन् हरेत् । अर्थादसंसृष्ट्यन्योदर्यो न हरेत् । तच्च हरन् सोदर्यसद्भावे मनुवचनानुसारेण तेन समं हरेत् । सोदराभावे सकलमेव । न तत्र सोदरभ्रातृपुत्रादेरंधिकार इत्यत्र तात्पर्यम् । असंसृष्टित्वे भ्रातृपुत्रस्याधिकारस्तदानीं तत्सुत इति वचनानुसारात् । नन्वेवमसंसृष्टस्य सापत्न्यस्यानधिकार एव किमित्यत्राह - 'असंसृष्टयपि वादद्यात् सोदर्यो नान्यमातृजः ।' संसृष्टश्चेदन्यमातृजो नास्ति । स्मृसा. १३२ [हलायुधमते ] जातस्येति विद्यमानस्येत्यर्थः । पूर्वोक्तमेव विस्फोरयति--अन्योदर्यस्त्विति । स्मृसा. १४५ (९) अन्ये तु पितापुत्रयोः संसर्गे पितुश्च भागानन्तरं पुत्रे जाते पितरि च प्रमीते संसृष्टी पुत्रः पितुरंशं तस्मै जातका दद्यादित्यर्थमाहुः । विचि. २४७ (१०) सोदरे त्वसंसृष्टिनि संसृष्टिन्य सोदरे च सति कतरस्तावद् गृह्णीयात्, एवं सोदरासोदरयोः संसृष्टयोः सद्भावे कतर इत्यत्र प्रथमत आह- अन्योदर्यस्त्विति । अन्योदर्यः पुनः संसृष्टी सन् गृह्णीयात् नान्योदर्यमात्रः किन्तु असंसृष्टट्यपि पूर्ववचनस्थसोदरपदानुषङ्गात् प्राप्तः सोदरश्च गृह्णीयात् । तेनैकत्र विषये पूर्ववचनोक्तसंसृष्टत्वसोदरत्वयोरेकशः संबन्धेन तुल्यत्वादुभयोर्विभज्य ग्रहणं, तदुभयसत्त्वे चासोदर्यस्यासंसृष्टिनोऽतुल्यरूप त्वान्नेति द्वितीये आह- संसृष्टो नान्यमातृज इति । * स्वमतं (पृ.७८) 'अन्योदयस्तु' इति लोकस्य मिताव्याख्याने गतम् । पारिजातमतं (पृ. १३९ - ४० ) मितागतम् । प्रकाशमतं (पृ.१४८) मितागतम् । धर्मकोशमतं 'यदा कश्चिदिति बृहस्पतिवचने द्रष्टव्यम् । बालरूपीयं 'संसृष्टिनस्तु ' इति श्लोकव्याख्यानं मितागतम् । x शेषं स्मृतिसार स्वमते गतम् । + 'संसृष्टिनस्तु' इत्यस्य व्याख्यानं मितागतं स्मृचगतं च । 'अन्योदर्यस्तु' इत्यस्य व्याख्यानं मिवागतम् ।

Loading...

Page Navigation
1 ... 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084