________________
१५५०
व्यवहारकाण्डम्
नस्तु संसृष्टीत्यविशेषेणाभिधानात् । पितापुत्रयोरपि संसर्ग | सोदरे संसृष्टिनि सति अन्यमातृजः संसृष्टयपि न कथनात् । 'अनपत्यस्य धर्मोऽयमभार्यापितृकस्य चेत्यस्य गृह्णीयात्, अर्थात्तत्र संसृष्टी सोदर एव गृह्णीयात् वा बाधस्य पित्रा विभक्तसंसर्गानन्तरजातविषयत्वात् । संसृष्टत्वाविशेषेऽपि सोदरत्वेन तस्यैव बलवत्त्वात् । दात. १९४ (११) यस्तु वैमात्रेयस्य भाग एव नास्तीति मुख्योऽर्थः सोऽपि संसर्गव्यवस्थाविरोधादनादृतः । संसृष्टिपरोक्षेऽसाध्वीनां तत्पत्नीनां भरणमात्रं विधेयम् | +चन्द्र. ९७
(१२) [ अत्र भारुचिः - इत्युपक्रम्योक्तम् ] संसृष्टिनोऽपुत्रस्यापितृकस्य धनं पितृव्यगाम्येवेति विष्णुवचनस्यार्थः । अत एवाह याज्ञवल्क्यः -- 'संसृष्टिनस्तु संसृष्टी' इति । यत्र पुनः पितृव्यसोदरौ संसृष्टौ तत्र संसृष्टिनं सोदरगाम्येव, न पितृव्यगामीत्याह याज्ञवल्क्यः— 'सोदरस्य तु सोदर' इति । सोदरस्य संसृष्टस्य धनं सोदर एव गृह्णीयात् । संसृष्टिपितृव्यादिस्तु संसृष्टोऽपि न गृह्णीयात् । तस्यैव तत्पिण्डदानाधिकारादिति वचनार्थः । संसृष्टिनो मरणानन्तरं जातस्य पुत्रस्यैवांशो दातव्यः नं ग्रहीतव्य इत्याह याज्ञवल्क्यः - 'दद्याच्चापहरेच्चांश जातस्य च मृतस्य च ।' इति । यत्र पुनः भिन्नोदरा भ्रातरः केचन संसृष्टाः, सोदरभ्रातरो न सन्ति, पितृव्यादयोऽपि संसृष्टाः, तत्र मिन्नोदरभ्रातृगाम्येव धनमित्याह याज्ञवल्क्यः—' अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् ।' इति । असंसृष्टीति शेषः । सवि.४३२-३ अन्तरङ्गन्यायेनासंसृष्टिनामेव धनग्राहित्वमाह याज्ञवल्क्यः - असंसृष्टयपि चादद्यात् इति । अपिशब्देन 'सोदरस्य तु सोदर' इत्यत्र सोदरोऽनुकृष्यत इति भारुचिः । लक्ष्मीधरस्तु — अपिशब्देन 'संसृष्टो नान्यमातृज' इत्यन्यमातृजपदसामर्थ्यात् सोदर एव समुच्चीयत इत्याह । तदयमर्थः - संसृष्टिनो धनं असंसृष्टसोदर एव गृह्णीयात् । अन्यमातृजस्तु संसृष्टोऽपि न गृह्णीयात् । असंसृष्टिनः सोदरस्य पाक्षिकापचयभाराभ्युपगमसाहसशालित्वाभावेऽपि पितृपिण्डदानाधिकारस्तस्यैवेति तदुक्तिः । अनेनैव न्यायेन एकोदराणामपि संसृष्टस्य मध्यमस्य मरणे कनिष्ठस्यासंसृष्टिनः तदौर्ध्वदेहिकाधिकारात् संसृष्टज्येष्ठस्य विद्यमानत्वेऽपि तस्य न मध्यमांश
1
तदेवं संसृष्टित्वे प्रमीतसंसृष्टित्वमेव संसृष्टिनोऽधिकारः संसृष्टिनस्तु संसृष्टीत्यनेन प्रतिपादितः । अत्रैव विशेषः सोदरस्य तु सोदरः, सोदराऽसोदरसंसर्गे संसृष्टी सोदरो गृह्णीयात् नतु मिन्नोदरसं सृष्टीत्यर्थः । स्मृसा.७७-८
[ बालरूपमते ] अन्योदर्यः सापत्न्यः धनं हरेत् संसृष्टी सन् हरेत् । अर्थादसंसृष्ट्यन्योदर्यो न हरेत् । तच्च हरन् सोदर्यसद्भावे मनुवचनानुसारेण तेन समं हरेत् । सोदराभावे सकलमेव । न तत्र सोदरभ्रातृपुत्रादेरंधिकार इत्यत्र तात्पर्यम् । असंसृष्टित्वे भ्रातृपुत्रस्याधिकारस्तदानीं तत्सुत इति वचनानुसारात् । नन्वेवमसंसृष्टस्य सापत्न्यस्यानधिकार एव किमित्यत्राह - 'असंसृष्टयपि वादद्यात् सोदर्यो नान्यमातृजः ।' संसृष्टश्चेदन्यमातृजो नास्ति । स्मृसा. १३२ [हलायुधमते ] जातस्येति विद्यमानस्येत्यर्थः । पूर्वोक्तमेव विस्फोरयति--अन्योदर्यस्त्विति । स्मृसा. १४५
(९) अन्ये तु पितापुत्रयोः संसर्गे पितुश्च भागानन्तरं पुत्रे जाते पितरि च प्रमीते संसृष्टी पुत्रः पितुरंशं तस्मै जातका दद्यादित्यर्थमाहुः । विचि. २४७ (१०) सोदरे त्वसंसृष्टिनि संसृष्टिन्य सोदरे च सति कतरस्तावद् गृह्णीयात्, एवं सोदरासोदरयोः संसृष्टयोः सद्भावे कतर इत्यत्र प्रथमत आह- अन्योदर्यस्त्विति । अन्योदर्यः पुनः संसृष्टी सन् गृह्णीयात् नान्योदर्यमात्रः किन्तु असंसृष्टट्यपि पूर्ववचनस्थसोदरपदानुषङ्गात् प्राप्तः सोदरश्च गृह्णीयात् । तेनैकत्र विषये पूर्ववचनोक्तसंसृष्टत्वसोदरत्वयोरेकशः संबन्धेन तुल्यत्वादुभयोर्विभज्य ग्रहणं, तदुभयसत्त्वे चासोदर्यस्यासंसृष्टिनोऽतुल्यरूप त्वान्नेति द्वितीये आह- संसृष्टो नान्यमातृज इति ।
* स्वमतं (पृ.७८) 'अन्योदयस्तु' इति लोकस्य मिताव्याख्याने गतम् । पारिजातमतं (पृ. १३९ - ४० ) मितागतम् । प्रकाशमतं (पृ.१४८) मितागतम् । धर्मकोशमतं 'यदा कश्चिदिति बृहस्पतिवचने द्रष्टव्यम् । बालरूपीयं 'संसृष्टिनस्तु ' इति श्लोकव्याख्यानं मितागतम् ।
x शेषं स्मृतिसार स्वमते गतम् ।
+ 'संसृष्टिनस्तु' इत्यस्य व्याख्यानं मितागतं स्मृचगतं च । 'अन्योदर्यस्तु' इत्यस्य व्याख्यानं मिवागतम् ।