Book Title: Shildutam
Author(s): Charitrasundargani, Tattvaprabhvijay
Publisher: Jinprabhsuri Jain Granthmala
Catalog link: https://jainqq.org/explore/004405/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमामि नित्यं गुरु रामचन्द्रम् / नमो नमः गुरु जिनप्रभसूरये बृंहद्तपागच्छीय विद्वान पूज्य वाचक श्री चारित्रसुंदरगणिवर विरचितं शीलदूतम् सम्पादकः प.पू. आचार्यदेव श्रीमद् विजयजिनप्रभसूरिशिष्यरत्न पू. मुनिराजश्री तत्वप्रभविजय गणिवर Page #2 -------------------------------------------------------------------------- ________________ - नमामि नित्यं गुरु रामचन्द्रम् नमो नमः गुरु जिनप्रभसूरये बृहद्तपागच्छीय विद्वान पूज्य वाचक श्री चारित्रसुंदरगणिवर विरचितं शीलदूतम् सम्पादकः 0 प. पू. आचार्यदेव श्रीमद् विजयजिनप्रभसूरिशिष्यरत्न पू. मुनिराजश्री तत्वप्रभविजयः Cs प्रकाशयित्री छ पू. आ. भ. श्री जिनप्रभसूरि जैन ग्रंथमाला अहमदाबाद C/o रसीकभाई शाह मो. 9904501221 कासातारा Page #3 -------------------------------------------------------------------------- ________________ ગ્રંથ : શીલદૂતમ્ (શ્રી સ્થૂલભદ્રચરિત્રમ્) કર્તા : શ્રી બૃહદ્ તપાગચ્છનાયક ભટ્ટારકાચાર્ય શ્રી રત્નસિંહસૂરિ શિષ્યોપાધ્યાય શ્રી ચારિત્રસુન્દર ગણિવર સંપાદક : પૂ. આ.ભ.શ્રી જિનપ્રભસૂરીશ્વજી મહારાજાના શિષ્યરત્ન યુવા પ્રવચનકાર પૂજયમુનિરાજશ્રી તત્વપ્રવિજયજી ગણિવર " પ્રકાશક : પૂ. આ. ભ. શ્રી જિનપ્રભસૂરિ ગ્રંથમાલા આવૃત્તિ : પ્રથમ નકલ : 1000 મૂલ્ય : 50-00 સંવત : 2068, પો. સુ. 13 : 0 પ્રાપ્તિસ્થાન) પૂ. આ. શ્રી જિનપ્રભસૂરિ ગ્રંથમાલા | C/o રસીકભાઈ એમ. શાહ એ-૮, ધવલગીરી ફ્લેટ, ૮મે માળે, જૈન દેરાસર પાસે, ખાનપુર, બહાઈ સેન્ટર, અમદાવાદ - 1. મો: 9904501221 Page #4 -------------------------------------------------------------------------- ________________ आर्य श्री स्थूलभद्रजी महाराज (1) जन्मस्थल . पाटलीपुत्र [वर्त्तमान-पटणा] नगर (2) पिता शकटाल [नवमें नन्दराजा के मन्त्री] (3) माता लाछलदे लक्ष्मीवती] (4) बन्धु श्रीयक (5) बहिनें यक्षा, यक्षदिन्ना, भूता, भूतदिन्ना, सेणा, वेणा और रेणा (6) ज्ञाति नागरब्राह्मण (7) गोत्र काश्यप (8) गृहस्थावा (9) व्रतधर . 24 वर्ष (10) युगप्रधान . . 45 वर्ष (11) ज्ञान . .. . . 14 पूर्व तक (12) आयुष्य . 99 वर्ष 5 मास और 5 दिन का (13) स्वर्गवास .. श्रमण भगवान महावीर पीछे 215 वर्षे 30 वर्ष Page #5 -------------------------------------------------------------------------- ________________ જ નિમિત્ત છે જિનશાસનભાસનભાક્ર-સૂરિચક્રચક્રવર્તી-જિનશાસનના અણનમ સેનાની, બાલદીક્ષાયુગપ્રવર્તદેવદ્રવ્યરક્ષક, મોક્ષમાર્ગસાર્થવાહ-સિદ્ધાંતરક્ષક, સુવિશાલગચ્છાધિપતિ સૂરિ “પ્રેમના પનોતા પટ્ટધર વીરપ્રભુની ૩૦મીપાટને દીપાવનાર આચાર્યદેવેશ શ્રીમદ્ વિજયરામચન્દ્રસૂરીશ્વરજી મહારાજા - સંયમ શતાબ્દી વર્ષ વિ. સં. 1969, પો. સુ. 13 વિ. સં. 2068, પો. સુ. 13 Page #6 -------------------------------------------------------------------------- ________________ * મૃત્યર્થે છે મમજીવન નૌકર્ણાધાપરમારાધ્યાદ * ગુરુમાતા શાંત-પ્રશાંત-ઉપશાંતમૂર્તિ-સુવિશુદ્ધસંયમી મધુરભાષી-મરુધર દેશોદ્ધાર ૪૫-૪૫-ઉપધાનતપના નિશ્રાદાતા પ. પૂ. આચાર્ય દેવેશશ્રીમદ્ વિજય જિનપ્રભસૂરીશ્વરજી મહારાજાના અસીમ ઉપારોની મૃતિમાં તેઓશ્રીના ક્રક્યુલોમાં સમર્પણ Page #7 -------------------------------------------------------------------------- _ Page #8 -------------------------------------------------------------------------- ________________ अर्हम् / / वर्तमानशासनाधिपति-श्रीमहावीरस्वामिने नमः || || अनन्तलब्धिनिधान-श्रीगौतमस्वामिने नमः / / / / दुष्करदुष्करकारक-श्रीस्थूलभद्रस्वामिने नमः || श्रीबृहत्तपोगच्छनायक-भट्टारकाचार्य श्रीरत्नसिंहसूरिशिष्योपाध्याय श्रीचारित्रसुन्दरगणिवर-विरचितं [समस्यामयं काव्यम् शीलदूतम् / - तदुपरिशासनसम्राट्-सूरिचक्रचक्रवर्ति-तपोगच्छाधिपति-ब्रह्मतेजोमूर्तिमहाप्रभावशालि-श्रीकदम्बगिरिप्रमुखानेक तीर्थोद्धारक-सरवतन्त्रस्वतन्त्र-स्व० प० पू० आ० श्रीमद् विजयनेमिसूरीश्वरस्य पट्टालङ्कार-साहित्यसम्राटव्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-स्व० प० पू० आ० श्रीमद् विजयलावण्यसूरीश्वरस्य पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकरदेशनादक्ष प० पू० आ० श्रीमद् विजयदक्षसूरीश्वरस्य पट्टधराचार्यश्रीविजयसुशीलसूरिणा विरचिता ‘सुशीला-वृत्तिः' / . अथ टीकाकृतो मङ्गलाचरणम् शिखरिणी-वृत्तम्] युगादीशं नत्वा ऋषभजिनराजं जगदिनं / सुतं नाभेराद्यं नरपतिमथाद्यञ्च यमिनम् / / तथा शान्तीशानं सकलसुरपूज्यं सुखकरं। ह्यभूच्चक्रीतीर्थङ्कर इह सहैवैकजनने / / 1 / / Page #9 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) [मन्दाक्रान्ता-वृत्तम्] स्तुत्वा देवं यदुकुलमणिं नेमिनाथं जिनेन्द्रं / शत्रुस्निग्धे कमठधरणेन्द्रे समं पारश्वनाथम् / भूयो भूयो दशनपरकं कौशिकं चण्डपूर्वं / क्षान्त्वा बोधप्रवणमतिकं वर्द्धमानं नमामि / / 2 / / शार्दूलविक्रीडित वृत्तम्] . स्मृत्वा श्रीजिनभारती गणधरं श्रीगौतममेत्यादिकं. तीर्थोद्धारधुरन्धरं गुरुवरं श्रीनेमिसूरीश्वरम् / प्रख्यातं प्रगुरुञ्च पण्डितवरं, लावण्यसूरीश्वरं, श्रेष्ठं शास्त्रविशारदं कविरविं श्रीदक्षसूरिं गुरुम् / / 3 / / वसन्ततिलका-वृत्तम्] श्रीस्थूलभद्रमुनिवर्यचरित्रयुक्तं, चारित्रसुन्दरगणिप्रवरेण दृब्धम्। साहित्यसर्वगुणबोधजलेन पूतम्, प्रख्यातमस्ति भुवने प्रियशीलदूतम् / / 4 / / तस्योपरि प्रियतमां सरलां सुशीला, टीकां करोमि विजयादि सुशीलसूरिः / श्रीशालिभद्रनिजशिष्यकृतार्थनातः, जाता प्रवृत्तिरिति मे सफलाऽस्तु लोके / / 5 / / महाकविकालिदाससरस्वतीप्रसादोद्गतमेघदूताभिधानखण्डकाव्यस्य विप्रलम्भशृङ्गाररसप्रधानस्य निखिलपद्यान्तिमचरणं समस्यारूपेणाश्रित्य तत् पूरकैर्विप्रलम्भद्योतकैरपि शान्तपर्यवशायिभि स्त्रिभिश्चरणैः स्वनिर्मितैः सङ्गमय्य विरचयिष्यमाणं शीलदूताभिधानं बुद्धिस्थं खण्डकाव्यं प्रारिप्समाणः श्रीबृहत् तपोगच्छनायकभट्टारकाचार्यश्रीरत्नसिंहसूरिशिष्योपाध्याय श्रीचारित्रसुन्दरगणिवरो निर्विघ्नपरिसमाप्तिशिष्यपरम्परा प्रसार कामनया शिष्टपरम्परापरिप्राप्तं वस्तु निर्देशरूपं मङ्गलमाचरन्नाह- . Page #10 -------------------------------------------------------------------------- ________________ ___ शीलदूतम् (स्थुलभद्र चरित्रम्) * मन्दाक्रान्ता-वृत्तम्] भुक्त्वा भोगान् सुभगतिलकः कोशया सार्धमिद्धान्, धन्यो मान्यो निखिलविदुषां भद्रया स्थूलभद्रः / चक्रे श्रुत्वा जनकनिधनं जातसंवेगरङ्गः, स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु / / 1 / / व्याख्या सुष्ठु शोभनः भगः रूपम् अणिमाद्यष्टविधमैश्वर्यं भाग्यं वा यस्य स सुभगः, सुभगानां तिलकं विशेषक इवेति सुभगतिलकः रूपवतां ऐश्वर्यवतां भाग्यवतां वा मध्ये प्राधान्येन विराजमान इत्यर्थः, धन्यः धनमर्हति, धनं लब्धा वा इत्यर्थे 'धनगणाल्लब्धरि [7.1.9]' इति यः, धनपात्रं, धनवान् भावी चेत्यर्थः, निखिला अशेषा विद्वांसः निखिलविद्वांसः तेषां मान्यः मान्यते पूज्यते इति “ऋवर्णव्यञ्जनाद् ध्यण् [5-1-17]' इति ध्यण, पूज्य इत्यर्थः, स्थूलभद्रः-पाटलीपुत्रपुरे.नन्दनृपः शकटालमन्त्री लक्ष्मीदेवी पत्नी तयोः पुत्रौ स्थूलभद्र-श्रीयकाभिधानौ सप्त च यक्षादि पुत्र्य स्तत्र ज्येष्ठपुत्रः स्थूलभद्रेति नाम्ना प्रसिद्धः भद्रया कल्याण्या कोशया तन्नाम्ना प्रख्यातया पाटलिपुत्रपुरवेश्यया, सार्धम् सह, इद्धान् दीप्तान् भोगान् भुज्यन्ते इति भोगाः, भुजेः कर्मणि घञ्, स्रक्चन्दनवनितादयो विषयाः तान् भुक्त्वा यथेच्छमुपयुज्य जनकनिधनं जनकस्य उत्पादकस्य शकटालमन्त्रिणः निधनंवररुचिविंप्रप्रपञ्चरुष्टराजापराधदण्डशङ्कया राज्ञोऽग्रत एव स्वपुत्रेण श्रीयकेण खड्गव्यापारेण मृत्यु, श्रुत्वा - निशम्य जातसंवेगरङ्गः जातः उत्पन्नः संवेगस्य संसारसुखत्यागत्वराया रङ्गः अग्रभूमिः प्रारम्भो वा यस्य तादृशः, स्निग्धच्छायातरुषु स्निग्धाः मनोहरा: छायाप्रधानाः तरवः छायातरवः येषु मनोहरघनच्छायावृक्षेषु रामगिर्याश्रमेषु रमन्ते योगिनो यत्र ते रामा स्तथाभूता गिरयः पर्वताः रामगिरयः तत्रस्थेषु आश्रमेषु मुनिनिवासस्थानेषु वसतिं निवासं चक्रे कृतवान् इति / Page #11 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) कविकालिदासस्य मेघदूते प्रथमपद्यस्य चतुर्थः चरण इहापि चतुर्थत्वेनोपात्तः केवलं रामगिर्याश्रमपदं तत्र चित्रकूटाभिधपर्वताऽर्थे प्रयुक्तम् इह च तदन्यथा (पूर्वोक्तरूपेण) व्याख्येयं भवतीति / अथ गुरुसमीपगमनमाह - चित्ते मत्वा विषयनिचयं सत्त्वरं गत्वरं वै, गच्छन्नेषोऽध्वनि घनजिनध्यानसंलीनचित्तः / शान्तं कान्तं रसमिव गिरौ श्रीगुरुं भद्रबाहुं, वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श / / 2 / / व्याख्या - पूर्वपद्ये जातसंवेगरङ्गः इति पदेन वैराग्योत्पत्तिरुक्ता / वैराग्योत्पत्त्या च तत्त्वविविदिषा जायते तत्त्वज्ञानार्थं च गुरुरेव शरणम् 'तद् विज्ञानार्थं स गुरुमेवाभिगच्छेत्' इति-चित्ते हृदये विषयनिचयं विसिन्वन्ति अवबध्नन्ति इति विषयाः स्रग्चन्दनवनितादयः सांसारिका भोगाः तेषां निचयं समूह, सत्त्वरं त्वरया सहितं यथा स्यात् तथा गत्वरं गमनशीलं 'गत्वः [5-2-78] इवि निपातनम् / मत्वा विज्ञाय, घनजिन ध्यानसंलीनचित्तः घनं निबिडं यत् जिनस्य जयति रागद्वेषमोहादीन् शत्रून् इति जिनः 'जीण्शीदीबुध्यविभीभ्यः कित् [उणा० 261' इति किति न प्रत्यये जिन इति तस्य अर्हतः ध्यानं स्मरणं तत्र संलीनं सम्यग् एकतान तया लीनं मग्नं चित्तम् अन्तःकरणं यस्य तादृशः एषः स्थूलभद्रः मुनिराजः, अध्वनि मार्गे गच्छन् व्रजन् गिरी पर्वतप्रदेशे कान्तं मनोहरं शान्तं तन्नाम्ना प्रसिद्धं रसम् रस्यते आस्वाद्यते इति रसः शम स्थायिभावकः संसारदोषदर्शनादिना विभावेनाभिव्यक्तः आत्मानन्दरूपः तं इव वप्रक्रीडापरिणतगजप्रेक्षणोयं वप्रक्रीडा उत्खातकेलिः [गजादिभिः तटार्श्वभूमिप्रदेशानां दन्तादिभिरुत्पाटनाय तदुत्थितधूलेरुपरि क्षेपाय च या क्रीडा क्रियते सा वप्रक्रीडेत्युच्यतेट तस्यां परिणतः तिर्यग्दन्तप्रहारी Page #12 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) [तिर्यग्दन्तप्रहारी तु गजः परिणतो मतः इति विश्वः] गजः करी तद्वत् प्रेक्षणीयं दर्शनीयं, यथा तादृशो गजः स्वाभाविकक्रीडायां निरतः किमपि सांसारिकमन्यत् न चिन्तयति तथैव सात्त्विकध्यानमग्नोऽसाविति भावः | श्रीगुरुं श्रिया शोभया सहितः गुरुः श्रीगुरुः तं, गृणाति धर्मम् इत्यर्थे 'कृ गृ ऋत उर्च [उणा० 734]' इति उ प्रत्यये ऋकारस्य उरादेशे च गुरुशब्दनिष्पत्तिः धर्मोपदेशकं [गुरुर्धर्मोपदेशकः इति हैमः] भद्रबाहुं एतन्नामकं श्रुतकेवली स्थविरं आर्यपदोप लक्षितं विद्यागुरुवरं मुनिप्रवरं ददर्श दृष्टवान् इति / / गुरोराभिमुख्यमाह - .. . शिक्षाकामं कृतनतिममुं ध्वस्तकामं निरीक्ष्याचख्यावेवं गुरुरुरुगिरा वत्स ! मोहं जयैतम् / संयोगेऽपि प्रभवति यतः प्राणिनामत्र दुःखं, कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूर संस्थे ? / / 3 / / व्याख्या: - आयान्तमेव श्रीस्थूलभद्रमुनिं दृष्ट्वा विशिष्टज्ञानयोगेन गुरुः तदीयं सर्वं वृत्तं ज्ञात्वा तं शिक्षयन् कथयामासेति कवेराशयः | ___तमेवाह - शिक्षाकामं कथमयं सांसारिको मोहो मे यास्यतीति तदुपदेशं शिक्षितुमिच्छन्तं कृतनतिं कृता विहिता नतिः शिरोनमनं येन तादृशम् ध्वस्तकामं कामेन स्मरेण ध्वस्तस्ववशमानीय मार्गात् च्यावित इति ध्वस्तकामः पूर्वं सम्प्रति तु ध्वस्तः कामो येनेति ध्वस्तकामः तं कामवासना परिभाविनम्, पूर्वत्रार्थे तृतीयातत्पुरुषसमासः राजदन्तादिवत् पूर्वप्रयोगार्हस्य परप्रयोगः, परत्रार्थे बहुव्रीहिः समासः, अमुं स्थूलभद्रं निरीक्ष्य आलोक्य एवं वक्ष्यमाणप्रकारेण उरुगिरा श्रेष्ठवाचा आचख्यौ कथयामास / वत्स ! वात्सल्यपात्र ? एतं ते मनसि स्थितं मया प्रत्यक्षतया दृश्यमानं मोहं वैचित्यं जय अधः कुरु, यतः कारणात् अत्र संसारे प्राणिनां मनुष्याणां संयोगे परस्पर सम्पर्के Page #13 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) (सति) अपि दुःखं परस्परप्रतिकूलवेदनीयं प्रभवति सम्पद्यते कण्ठाश्लेषप्रणयिनि कण्ठस्य प्रियजनशिरोधरस्य आश्लेषः आलिङ्गनं तस्य प्रणयः गाढं प्रेम अस्य अस्तीति कण्ठाश्लेषप्रणयी तस्मिन् (तादृशे) जने दूरसंस्थे प्रियजनाद् विप्रकृष्ट देशस्थिते सति किं पुनः किं वक्तव्यम्, तादृशावस्थायां तु दुःखमवश्यम्भावीति / अथ स गुरुसन्निकर्षादात्मनः कृतकृत्यतां दर्शयति -... धन्यं मन्ये मुनिपरिवृढात्मानमेनं किलाद्यानिन्द्यं सद्यः परमसुखदं यन्नतं वा पदाब्जम् / पीत्वा हृद्यां विशदहृदयो देशनां सोऽपि सूरेः, .. प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार / / 4 / / व्याख्याः - सूरेः-माढरगोत्रीयस्थविरं श्रीसम्भूतिविजयाभिधगुरोराचार्यस्य हृद्यां हृदयस्य प्रियां 'हृद्यपद्य० [7-1-11]' इति यः, 'हृदयस्य हृल्लास लेखाण्ये 3-2-94] इति हृदादेशः, देशनां देशयति प्रापयति निर्मलं ज्ञानमनया इत्यर्थे "णिवेत्त्यास श्रन्थघट्टवन्देरनः [5-3-111]' इति अन स्त्रियां देशना उपदेशवाक् तां पोत्वा सोत्कण्ठं श्रुत्वा हृदि संधार्य च, विशदहृदयः विशदं विमलं हृदयम् अन्तःकरणं यस्य सः, प्रीतः तृप्तः प्रींग्श तप्तिकान्त्योः इत्यकर्मकात प्रीणातेः कर्तरि क्तः, प्रीतिप्रमुखवचन प्रीतिः स्वतृप्तिरेव प्रमुखम् प्रधानं यत्र तादृश वचनं वाक्यं स्वागतम् सुष्ठु शोभनम् आगतम् आगमनं यथा स्यात् तथा, आङ् पूर्वकाद् गमे र्भावे क्लीबे क्तः क्रियाविशेषणमिदम् (एवं) व्याजहार उवाच / हे मुनिपरिवुढ! मन्यन्ते आत्मानं जानन्ति इति मुनयः ‘मनेरुदेतौचास्य वा [उणा० 612] इति मनेरिः, तेषां परिवृढः परिवृंहति परिवर्हति वा इत्यर्थे 'क्षुब्धविरिब्ध० [4-4-70]' इति निपातनात् साधुः, प्रभुः तत् सम्बोधनम् हे मुनिपरिवृढ ? अद्य अस्मिन् दिने एनं प्रत्यक्षस्थितम् आत्मानं माम् धन्यं धनलब्धारं Page #14 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) सौभाग्य युक्तं मन्ये अवगच्छामि किल निश्चितम्, यत् यस्मात् अनिन्द्यं निन्दाऽनह प्रशस्यम् सद्यः परमसुखदं तत्कालमेव परमानन्दाधायकम् वः युष्माकं पदाब्जम् पदं चरण एव अब्जम् वारिसमुद्भूतं कमलम् नतम् वन्दितम् (अस्ति)। आत्मनो दैन्यं प्रकटयति - कामान्धोऽहं तदिह बहुधा कर्म मोहादकाएं, जानात्यन्यो न हि जिनपते र्यद् विपाकं मुनीश ! / यावज्जैनी वचनरचनां वा न विन्दन्ति तावत्, कामार्त्ता हि प्रकृतिकृपणाश्चेतनाऽचेतनेषु / / 5 / / व्याख्या: - हे मुनीश ! मुनीनां तत्त्वबोधशीलानां यतीनाम् ईशः प्रभुः तत्सम्बोधनम्, कामान्धः कामेन विषयाभिलाषेण अन्धः दृष्टिविकलः कर्तव्याकर्तव्यदर्शनहीनः अहं स्थूलभद्रः, यद्विपाकं यस्य कर्मणः विपाकं परिणामं जिनपतेः जिनानाम् इन्द्रियविजयशीलानां पतिः प्रधानं तस्मात् अन्यः भिन्नः जनः न जानाति वेत्ति, तत् कर्म तादृशं कृत्यं मोहात् मनसो वैकृतात् बहुधा बहुभिः प्रकारैः अकार्षम् कृतवान् अस्मि / विषयेऽत्र पक्षान्तरमुपन्यस्यन् समर्थयति वा अथवा कामार्ताः विषयाभिलाषेण अतिपीडिता जनाः यावत् यत् कालपर्यन्तं जैनीम् जिनस्य भगवतोऽर्हतः इयं जैनी तां वचनरचनां उपदेशवाक् प्रवृत्ति न विन्दन्ति गुरुमुखात् न लभन्ते तावत् चेतनाचेतनेषु चेतयन्ते स्वज्ञानानुरूपं चेष्टन्ते इति चेतनाः जङ्गमाः, अचेतनाश्च तद्भिन्ना जडाः तेषु मध्ये प्रकृतिकृपणाः प्रकृत्या स्वभावत एव कृपणाः दीनाः भवन्ति इति नायं मदीय एव दोषः जिनोपदेशश्रवण हीनाः सर्वं एव मादृशा एवं कर्तव्याकर्तव्यज्ञानशून्याः सन्तो बहुविधानि अज्ञात-विपाकानि कर्माण्याचरन्त्येव / तथा च गुरुणा तथा जिनोपदेशदानेन कृतार्थनीयोऽस्मि यथा पुनरेधं विकर्मासक्तो न भवेयमित्याकूतम् / Page #15 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) गुरुं स्तुवन् प्रार्थयते - जाने युष्मान् जिनपतिसमान् ज्ञानदानप्रवीणान्, रीणोऽमुष्मादनणुभवतो भावविद्वेषिजेतृन् / याचे तस्माच्चरणशरणं वः शरण्या ! रणघ्नं, याञ्चा मोघा वरमधिगुणे नाऽऽधमे लब्धकामा / / 6 / / व्याख्या - अमुष्मात् विप्रकृष्टात् परस्मादिति यावत् भवतः संसारात् लोकाद् वा अनणु अत्यन्तं रीणः रीच् स्रवणे, इत्यस्मात् क्तः सूयत्यादित्वात् तस्य नः स्रुतः च्युत इत्यर्थः अहं युष्मान् भवतः जिनपतिसमान् जिनानां पतिः जिनपतिः तेन समान् सदृशान् ज्ञानदानप्रवीणान् ज्ञानस्य सम्यक्त्वस्य दाने वितरणे उपदेशे प्रवीणान् निपुणान्, भावविद्वेषिजेतॄन् भावः अर्हत्सु श्रद्धारूपेऽभिप्रायः तस्य विद्वेषिणः विरुद्धा रागादयः तेषां जेतृन् जयशीलान् जाने अवगच्छामि, तस्मात् पूर्वोक्तपरिचयात् कारणात् हे शरण्याः ? शरणे रक्षणे साधवः शरणाय हिताः इति वा शरण्या ! शरणं गृहरक्षित्रोः इति विश्वः, रणघ्नं संसारोरण इव तस्य नाशकम् वः युष्माकं चरणशरणम् चरणयोः पादयोः शरणम् आश्रयं याचे प्रार्थये; प्रार्थनाया औचित्यं समर्थयतिअधिगुणे स्वाधिकगुणवति पुंसि याच्या प्रार्थना मोघा निष्फला वरम् ईषत्प्रियम्, अधमे स्वतो हीने पुंसि या लब्धकामा प्राप्तसमीहितफलापि न (वरम्) ईषत्प्रियमपि न भवति / / अथास्य दीक्षालाभं गुर्वादेशाद् विहारं चाह - कृत्वा लोचं शिरसि सहसा पञ्चभिर्मुष्टिभिः स्वैर्लात्वा दीक्षां गुरुवचनतः सैष शिक्षामवेत्य / / गुर्वादेशादथ निजपुरीमागमत्तां यति र्या, बाह्योद्यानस्थितहरशिवश्चन्द्रिकाधौत हा / / 7 / / Page #16 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - .. स. पूर्वप्रकान्तः एषः श्रीस्थूलभद्राभिधो मुनिवरः गुरुवचनतः गुरोः स्थविरश्रीसम्भूतिविजयस्य वचनतः वाक्यात् गुरूपदेशादित्यर्थः; स्वैः स्वकीयैः पञ्चभिः पञ्च संख्याकैः मुष्टिभिः शिरसि शिरस्थितकेश विषये लोचं लुञ्चनं दीक्षापूर्वकालविधेयं कृत्वा सम्पाद्य, दीक्षां चारित्रं व्रतसंग्रहं 'दीक्षातु व्रतसंग्रहः इति हैमः' लात्वा आदाय शिक्षाम् कर्तव्यज्ञानं अवेत्य अधिगत्य, अथ तदनन्तरं यतिः यतते मोक्षाय, गच्छत्युपरमति सर्वसङ्गेभ्य इति वा यतिः मुमुक्षुः संयमी वा सः, पूर्वत्र पक्षे यतेः (यत धातोः) ‘पद पठ० [उणा० 607' इति इः, परत्र पक्षे यमः बाहुलकात् कर्तरि नाम्नि क्तिः, गुर्वादेशात् गुरोराज्ञया (चातुर्मास्याम्) तां पूर्वज्ञातां निजपुरीम् स्वनगरी पाटलीपुत्राभिधां आगमत् पुनरावृत्तः, या पुरी बाह्योद्यानस्थितहरशिरश्चन्द्रिका-धौतहा बाह्योद्याने पुराद् बहिः स्थिते उपवने, स्थितानि हरशिरश्चन्द्रिकावत् शिवललाटस्थितशशि क़ौमुदीवत् धौतानि उज्ज्वलानि हाणि धनिकगृहाणिहरंति मनांसि जनानाम् इति विग्रहे 'शिक्या स्याट्य [उणा० 364]' इति ये निपातनम्, 'हवृंतु धनिनां गृहम् इति हैमः' यस्यां तादृशी (अस्ति) / / . अथ श्रीस्थूलभद्रप्रव्रज्यानन्तरं कोशावृत्तान्तं संक्षेपेणाह - कोशा शस्यप्रकृतिरथ सा स्वप्रियं चाऽनुयान्ती, दध्यावेवं विविधवचनैरम्बया संनिषिद्धा / तिष्ठेत् का हा ! स्वगृह इह हि प्रोषिते प्राणनाथे ? न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः / / 8 / / व्याख्या - .' अथ श्रीस्थूलभद्रप्रव्रज्यानन्तरम्, शस्यप्रकृतिः शस्या प्रशंसनीया प्रकृतिः स्वभावमर्यादा यस्याः तादृशी कोशा एतन्नाम्ना प्रसिद्धा पुष्पपुरीवारनारी Page #17 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) 10 आसीत्, सा स्वप्रियम् स्वस्नेहास्पदम् श्रीस्थूलभद्रम् अनुयान्ती पश्चाद् गन्तुं प्रयस्यन्ती अम्बया मात्रा विविधवचनैः बहुविधदोषदर्शनवेश्याजननीतिविरोधप्रदर्शनादिपरै वचोभिः संनिषिद्धा निवारिता एवं वक्ष्यमाणप्रकारेण दध्यौ अनुशुशोच-प्राणनाथे ? प्रियतमे ! प्रोषिते प्रवासं गते सति इह संसारे स्वगृहे स्वीये आगारे का नारी तिष्ठेत् स्थितिं विदध्यात्, यः अन्यः मदतिरिक्तः अपि जनः लोकः अहम् इव मत् सदृशः पराधीनवृत्तिः परस्य मात्रादे गुरुजनस्य अधीना आयत्ता वृत्तिः आचारः यस्य तादृशः नस्यात् न भवेत् / स्वतन्त्रस्तु नैवं कुर्यादिति भावः / / सम्प्रति पुनरागच्छन्तं श्रीस्थूलभद्रमुनिवरं विलोक्य तद् व्यवहारमाहप्राप्तं द्वारि प्रियतममथो वीक्ष्य सोचे प्रमोदादेवोत्तुङ्ग भज निजगृहस्यैनमग्रयं गवाक्षम् / स्निग्धच्छायं घनमिव जनानन्दनं यत्र संस्थं, सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः / / 9 / / .. व्याख्या - अथो बहुकालप्रवासानन्तरं द्वारि गृहांग्रप्रदेशे प्राप्तं समागतं प्रियतमं अतिशयप्रियं (श्री स्थूलभद्र) वीक्ष्य विशेषेणावलोक्य प्रमोदात् हर्षात् सा कोशाभिधा वेश्या ऊचे वक्ष्यमाण प्रकारेणावदत् - हे देव ! अनेकविधक्रीडाकारिन् ? निजगृहस्य स्वावासभूतस्यास्य मम प्रासादस्य उत्तुङ्गं उच्चैरुन्नतं अग्र्यं अग्रतः स्थितं एनम् अङ्गुल्या निर्देश्यमानं गवाक्षम् वातायनस्थानं चित्रशालाख्यं भज निर्विशः यत्र गवाक्षे संस्थं सम्यक् वर्तमानं (स्थितं) स्निग्धच्छायं स्निह्यते स्म इति स्निग्धा स्पृहणीया छाया कान्तिः यस्य तादृशं जनानन्दनं जनान् सर्वलोकान् आनन्दयति सुखयतीति तं, नयनसुभगं नयनयोः नेत्रयोः कृते सुभगं प्रियम् भवन्तं त्वां घनमिव Page #18 -------------------------------------------------------------------------- ________________ 11 . शीलदूतम् (स्थुलभद्र चरित्रम्) मेघबुद्ध्ये व (मेघस्यापि प्रोक्तविशेषण त्रय विशिष्टत्वात्) रवे आकाशे (स्थिताः इति शेषः) बलाका बकाङ्गना सेविष्यन्ते सस्पृहमालोकयिष्यन्ति / बलाकाः मेघं दृष्ट्वा खे उड्डीयमाना गर्भं दधत इति मेघस्तत् प्रियः इति मेघसदृशं भवन्तं दृष्ट्वा तद् बुद्धयैव भवन्तमपि सेविष्यन्त इति तात्पर्यम्।। तव विरहेऽप्यहं कथं जीवन्ती तिष्ठामीत्याह - अद्य श्वो वा सखि ! तव वरः स्थूलभद्रः समेता, स्वस्थं तस्मात् कुरु निजमनो मुञ्च मुग्धे ! विषादम् / दधे प्राणानहमिति सखीभाषितैर्नाथ ! वाऽऽशा, सद्यः पाति प्रणयिहृदयं विप्रयोगे रुणद्धि / / 10 / / व्याख्या - हे सखि ! समानसुखदुःखे ! तव भवत्या वरः प्रियः स्थूलभद्रः अद्य अस्मिन्नेव दिवसे श्वः अग्रिमेऽव्यवहितदिने वा समेता समागन्ता तस्मात् (तावत्) [अतः तद् वियोगदुःस्थंढ निज मनः चेतः स्वस्थं स्वस्मिन् स्वीयप्रकृती तिष्ठति इति स्वस्थम् - अव्याकुलं कुरु विधेहि, हे मुग्धे ! सरलहृदये विषादम् खेदं मुञ्च परित्यज इति पूर्वोक्तरूपैः सखीभाषितैः समानवयस्कहितेच्छुजनवचनैः हे नाथ ! स्वामिन् अहं तव प्रिया प्राणान् जीवितम् दधे धृतवती / पक्षान्तरोत्थापनपूर्वकं प्राणधारणं समर्थयति - वा अथवा आशा पुनः सङ्गमसम्भावना विप्रयोगे प्रियजनविच्छेदे सद्यः पोति विच्छेदसमकालमेव पतनशीलं प्रणयिहृदयं प्रणयिनः प्रियजनविप्रयुक्तस्य स्निग्धजनस्य हृदयं जीवनचिह्नभूतमन्तःकरणं रुणद्धि पतनान्निवारयति / अथ स्वाभिप्रायानुसारं कोशावेश्या श्रीरथूलभद्रमुनिवरं भोगेषु प्रेरयति - Page #19 -------------------------------------------------------------------------- ________________ 12 शीलदूतम् (स्थुलभद्र चरित्रम्) स्वामिन्नङ्गीकुरु परिचितं स्वाधिकारं पुनस्तं, भोगान् भुक्ष्व प्रिय ! सह मया साधुवेषं विहाय / दोलाकेलिं किल कलयत: कौतुकात् काननान्तः, सम्पत्स्यन्ते नभसि भवतो राजहंसा: सहाया: / / 11 / / व्याख्या - __ हे स्वामिन् ! स्वम् अस्ति अस्येत्यर्थे 'स्वामिन्नीशे [7-2-49]' इति निपातनात् साधुः, नाथ ! परिचितं पूर्वपुरुषानुक्रमादागतत्वेन विज्ञातपूर्वम् तं प्रसिद्ध स्वाधिकार मन्त्रित्वनियोगं पुनः भूयः अङ्गीकुरु स्वीकुरु हे प्रिय! प्रीणातीति प्रियः, प्रीधातोः 'नाम्युपान्त्यप्रीकृगृज्ञः कः [5-4-54] इति के साधुः तत् सम्बोधनम् मनोज्ञ, साधुवेषं यतिस्वरूपं विहाय परित्यज्य मया तव प्रियया सह साकं भोगान् भुज्यन्ते इति भोगाः, भुजेः कर्मणि घञ्, स्रक्चन्दनादिविषयाः तान् भुक्ष्व उपयुज्यस्व, कौतुकात् उत्कण्ठातः काननान्तः उपवनमध्ये दोलाकेलिं दोलायां प्रेखोलायाम् (उपविश्य) केलिः क्रीडा दोलाकेलिः तां कलयतः विदधतः भवतः तव नभसि गगने श्रावणमासे च (श्रावणे दोलाकेलेरतिप्रसिद्धेः) राजहंसाः हंसानां राजानो राजहंसाः, षष्ठी समासे 'राजदन्तादिषु [3-1-149] इति पूर्वनिपातार्हस्य परप्रयोगात् राजहंसाः इति, 'राजहंसास्त्वमी चञ्चुचरणैरतिलोहितैः' इति श्रीहैमाभिधानचिन्तामणिकोशवचनात् अतिलोहितैश्चञ्चु चरणैर्लक्षिता हंसजातीयाः पक्षिणो राजहंसा इत्युच्यन्ते, ते सहायाः सह अयंते गच्छन्तीति सहाया अनुगामिनः सेवका वा / 'सहायोऽभिचरोऽनोश्च, जीवो-गामी-चर-प्लवाः | सेवकोऽथ सेवा भक्तिः, परिचर्या प्रसादना / / ' [इति श्रीहैमाभिधानचिन्तामणिकोशे मयंकाण्डे 3, श्लो० 496] सम्पत्स्यन्ते भविष्यन्ति / Page #20 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) पुनरपि बहुजनस्नेहप्रकटनेन साधुवेषत्यागाय यतते - पश्य स्वामिन् ! निजपरिजनं त्वद्वियोगार्तिदीनं, हीनं स्थाने जलविरहिते मीनवत्पीनदुःखम् / त्वत्संयोगे मुदितमनसो वीक्षिता यस्य शस्या, स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् / / 12 / / व्याख्या - __ हे स्वामिन् ! नाथ ! त्वद्वियोगार्तिदीनं तव वियोगः विरहः त्वद्वियोगः तस्मिन् सति या आर्तिः पीडा तया दीनम् दुःखितम् हीनं परित्यक्तं निजपरिजनम् स्वानुचरवर्गम् जलविरहिते पानीयशून्ये स्थाने प्रदेशे मीनवत् मत्स्यतुल्यं पीनदुःखम् पीनम् पृथुलं दुःखं कष्टं यस्य तादृशम् पश्य अवलोकय, त्वत्संयोगे पुनस्त्वया सह मेलने सति मुदितमनसः प्रलन्नचेतसः यस्य परिजनस्य निरविरहजं बहुकालवियोगसम्भवम् उष्णं दुःखोद्रेकात् तप्तम् बाष्पम् अन्तरूष्माणं चक्षुर्जलं च मुञ्चतः त्यजतः शस्या प्रशंसनीया स्नेहव्यक्तिः स्निह्यत्यनेनेति स्नेहः प्रेम, तस्य व्यक्तिः प्राकट्यं वीक्षिता अवलोकिता / तथा चायमवश्यं त्वयाऽपि स्निग्धदृष्ट्याऽवलोकनीयः परिजन इति भावः / यति भावत्यागेऽकीर्तिसम्भावनां निरस्यति - ' मा जानीष्व त्वमिति मतिमन् ! संयमं मुञ्चतो मे, नाशं यास्यत्यवनिविदिता कीर्तिविस्फूतिरेषा / सिद्धिं याता पुनरपि यथा सिन्धुपूरः प्रदानैः, क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपयुज्य / / 13 / / * व्याख्या - हे मतिमन् ! मतिः मननशक्तिः अस्ति अस्येति मतिमन् तत् सम्बोधनम्, Page #21 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) - 14 / त्वं स्थूलभद्रः संयमं विषयाभिलाषनिग्रहं मुञ्चतः परित्यजतः मे मम अवनिविदिता भृतलप्रसिद्धा एषा सर्वतः श्रूयमाणा कीर्तिविस्फूर्तिः कीर्त्यते जनैः पुनः पुनराख्यायते इति कीर्तिः शुभकर्मानुष्ठानजं यशः, तस्या विस्फुरणं विस्फूर्तिः सर्वतो व्याप्तिः नाशम् भ्रंशं यास्यति गमिष्यति इति मा न जानीष्व अवेहि, (यतः) प्रदानैः प्रकृष्टैर्बहुवित्तवितरणैः (सा कीर्तिविस्फूर्ति) पुनरपि भूयोऽपि सिद्धिं सम्पत्तिं याता प्राप्स्यति, यथा येन प्रकारेण सिन्धुपूरः समुद्रप्रवाहः (प्रदानैः मेघादिभ्यो जलदानैः) क्षीणः क्षीणः वारंवारं हानि गतोऽपि स्रोतसां नदीप्रवाहाणं परिलघु अतितमां गौरव (भार) हीनं पयः पानीयम् उपयुज्यं स्वपूरणाय विनियुज्य (पुनरपि सिद्धिं पूर्वावस्थासम्पत्तिं याति) यति भावकीर्तिनाशेऽपि दातृभावकी वर्धिष्यसे इति भावः / उक्तमेवार्थं पुनरपि द्रढयति, दानस्यापि मोक्षसाधनत्वकथनेन जग्मुर्मुक्तिं कति न भरताद्याः सनाऽऽराध्य दानं ? भुञ्जन भोगान् सुभग ? भव तद् दानधर्मोद्यतस्त्वम् / कीर्त्या मूर्तीस्त्वमपि सितयन स्वः श्रियां सिद्धिमता, दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् / / 14 / / व्याख्या - ___ दानं वित्तवितरणं सना सर्वदा आराध्य अनुष्ठाय भरताद्याः भरतः आदितीर्थङ्कर श्रीऋषभदेवभगवतः सांसारिक सुतः (आर्षभि भरतः इति हैमः) राजविशेषः आद्यः प्रथमो येषां ते, कति असङ्ख्याताः मुक्तिं मोक्षं न जग्मुः, काक्वा बहवो दानधर्मेणापि मुक्तिं गता एवेति भावः / तत् तस्मात् हे सुभग ! चक्षुष्य-सुन्दरमूर्ते ! (चक्षुष्यः सुभगः' इति हैमः) भोगान् भुज्यन्ते इति भोगाः कर्मणि भुजे घन्, स्रक्चन्दनवनितादयः, तान् भुञ्जन् उपयुञ्जानः त्वम् स्थूलभद्रः, दानधर्मोद्यतः दानं वित्तादिवितरणमेव धर्मः सुकृतम् तस्मिन् उद्यतः तत्परः भव एधि, (तेन) त्वमपि भवानपि (भरतादिवत्) Page #22 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) पथि मोक्षमार्गे (गच्छन्) दिङ्नागानां दिक्षु स्थिताः नागाः हस्तिनः दिङ्नागाः दिग्गजाः ते च / "ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः | पुष्पदन्तः सार्वभौम:, सुप्रतीकश्च दिग्गजाः / / ' इत्यभिधानचिन्तामणावुक्तम् / तेषां मूर्तीः शरीराणि कीर्त्या दानधर्मप्रभवयशसा सितयन् उज्ज्वलयन्, स्वश्रियां स्वर्गशोभाभूतानां कामिनीनाम् स्थूलहस्तावलेपान् स्थूलान् स्थूलबुद्धिभि रप्युपलक्ष्यान् हस्तयोः अपलेपान् क्षेपणादिप्रयोगनैपुण्य जनितगर्वान् परिहरन् विफलयन् सिद्धिं मुक्तिप्राप्तिम् एता गन्ता / स्वर्गसुखमपि अविगणय्य निर्वाणपदं यास्यसीति भावः | सम्प्रति कर्तव्यं दर्शयति - स्वामिन् ! सिंहासनमनुपमं त्वं प्रसद्याश्रयेदं, नानारत्नधुतिततिकृतस्फारचित्रं पवित्रम् / येन स्निग्धं वपुरुपचितां कान्तिमापत्स्यते ते, बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः / / 15 / / व्याख्या - * 'हे स्वामिन् ! मम सर्वस्वाधिपते ? त्वम् प्रसद्य प्रसादमूरीकृत्य, नानारत्नद्युतिततिकृतस्फारचित्रम् नानारत्नानां बहुविधमणीनां द्युतिततिभिः कान्तिसमूहैः कृतं विहितं स्फारम् अत्यन्तं चित्रम् कल्माषं, पवित्रं शुद्धम् अनुपमम् नास्ति उपभा सादृश्यं यस्य तादृशम्, इदं प्रत्यक्ष निर्दिश्यमानम् सिंहासनम् सिंहोपलक्षितमासनम् स्वर्णनिर्मितं नृपयोग्यमासनम् आश्रय जुषस्व येन आसनेन स्निग्धम् स्निह्यते स्म इति सकलजनप्रेमास्पदीभूतम्, ते तव वपुः शरीरम् गोपवेषस्य गोपालशरीरधारिणः विष्णोः श्रीकृष्णस्य (वपुः) Page #23 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम) स्फुरितरुचिना विकासिकान्तिना बर्हेण मयूरपिच्छेन इव यथा उपचितां समृद्धाम् कान्तिम् कमनीयताम् आपत्स्यते प्राप्स्यति / यथा बर्हनिमित्तेन चित्रेणापीडेन श्रीकृष्णस्य शोभासीत् तथैव बहुरत्नचित्रितेऽस्मिन् सिंहासने समासीनस्य तवापि स्यादिति भावः / एतावताऽप्यस्निह्यन्तं भूयोऽपि अभिमुखी करोति - . मन्ये जज्ञे कुलिशकठिनं तावकीनं हृदेत - द्यस्मादस्मानपि नहि दृशा स्निग्धया पश्यसि त्वम् / .. पश्येयं त्वां वदति सरसं सारिका देव ! मा मा, किञ्चित् पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण / / 16 / / व्याख्या - - तावकीनम् तव इदम् युष्मद् शब्दादिदमर्थे शेषे वायुष्मदस्मदो० [63-67] इतीनञि तवकादेशे आदि स्वरवृद्धौ च तावकीनमिति, एतत् अनुभूयमानं हृत् अन्तः करणम् कुलिशकठिनम् कुलिशवत् वज्रवत् कठिनं कठोरं जज्ञे जातम् (इति) मन्ये उत्प्रेक्षे, यस्मात् हेतोः त्वम् अस्मान् पूर्वं तव प्राणप्रियतया विख्यातान् तव प्रियदारान् अपि किमुतान्यं परिजनमित्यपिना व्यज्यते, स्निग्धया स्नेहार्द्रया दृशा दृष्ट्या नहि नैनं पश्यसि अवलोकयसि / हे देव ! सर्वविधक्रीडाभिज्ञ ! द्युतिमन् ! इति वा, पश्य अवलोकय इयं प्रत्यक्षदृश्यमाना सारिका शुकवधूः 'किञ्चित् पश्चात् स्वल्पकालानन्तरमेव लघुगतिः त्वरितगमनः सन् भूयः पुनः उत्तरेण एव उत्तरां दिशमाश्रित्य मा मा नैव नैव व्रज गच्छ' (इति) सरसं सस्नेहं वदति कथयति / अस्माकं त्वयि स्नेहस्य का कथा, मदीयेयं सारिकाऽपि त्वय्येवं स्निह्यतीति त्वयाऽपि सर्वोऽयं परिजनः स्निग्धया दृशाऽवश्यमवलोकनीय इति भावः / Page #24 -------------------------------------------------------------------------- ________________ 17 / शीलदूतम् (स्थुलभद्र चरित्रम्) आस्तां चेतनस्नेहकथाऽचेतनस्यापि सैव स्थितिरित्याह - आलापैस्त्वां मृगय मुदितः कोमलैः कोकिलायाः, क्रीडारामो भवदुपचितः स्वागतं पृच्छतीव / नो नीचोऽपि प्रयणनिभृते भाग्यलभ्ये चिराद्वा, प्राप्ते मित्रे भवति विमुखः किं पुनर्य स्तथोच्चैः ? / / 17 / / व्याख्या - 'मुदितः बहुकालानन्तरं भवदागमनं दृष्ट्वा जातहर्षः, भवदुपचितः भवता त्वया उपचितः वृद्धिं नीतः क्रीडा रामः क्रीडार्थं निर्मित आरामः उपवनम् कोमलैः मृदुलैः कोकिलायाः पिक्या आलापैः सस्वरवचनैः त्वां भवन्तं स्वागतम् सुखपूर्वकमागमनम् (अभून्नवेति ?) आङ् पूर्वकाद् गमे र्भावे क्लीवे क्तः, पृच्छति ज्ञातुमिच्छति इव इत्युत्प्रेक्षा / तां समर्थयति - वा अथवा भाग्यलम्ये भाग्येन दैवानुकूल्येन लभ्ये प्राप्तव्ये प्रणयनिभृते गाढप्रेम्णा निश्चले मित्रे सुहृदि हितकारके चिरात् बहुकालानन्तरं प्राप्ते आगते सति, नीचः प्रकृत्या स्वरूपेण वा हीनः अपि (जनः) विमुखः सत्कारपराङ्मुखो न भवति यः (क्रीडा रामः) तथा तेन विज्ञातेन प्रकारेण उच्चैः उन्नतः (सः) किम् पुनः विमुखो भवतीति कथं सम्भाव्यत इति भावः | एतावताप्य स्निह्यन्तं मातृभक्त्या बन्धुमाह - दने मासान्नव किल मया मध्यमध्ये सुधीमन् ?,. वृद्धिं नीतः सरसमधुराहारयोगाद् भवान् वा / गेहस्थोऽपि प्रिय ! गुरुगुणां मातरं मानयनां, सद्भावार्द्रः फलति न चिरेणोपकारो महत्सु / / 18 / / व्याख्या - हे सुधीमन् ? धीरस्ति अस्येति धीमान् शोभनः धीमान् सुधीमान् Page #25 -------------------------------------------------------------------------- ________________ - 18 शीलदूतम् (स्थुलभद्र चरित्रम्) तदामन्त्रम्, भवान् स्थूलभद्रः यया मात्रा नव मासान् मासनवकम् अभिव्याप्य 'कालाध्वनो ाप्तौ [2-2-42]' इति द्वितीया विभक्तिः मध्यमध्ये मध्यस्य शरीरमध्यभागस्य उदरस्य मध्ये अन्तः दघ्ने धृतः वा किञ्च सरसमधुराहारयोगात् रसेन आस्वादेन, अथ च आहारपरिणामजन्येन धातुविशेषेण सह वर्तत इति सरसः स चासौ मधुरश्चाहारः भोजनं तस्य योगात् उपयोगात् वृद्धिं शरीरसमृद्धिं नीतः प्रापितः, हे प्रिय ! प्रेमास्पदभूत ! गेहस्थः गृहे तिष्ठन् एनां पूर्वोद्दिष्टां गुरुगुणाम् गुरोः ज्ञान प्रदस्य गुणाः यस्यां ताम् मातरम् जननीम् मानयस्व सत्कुरुष्व, सद्भावार्द्रः सद्भावेन निष्कपटाशयेन आर्द्रः सस्नेहः उपकारः महत्सु श्रेष्ठजनेषु न चिरेण शीघ्रम् फलति प्रत्युपकाररूपेण परिणमते / इह स्थितेन त्वयाऽस्य गृहस्य शोभावृद्धिः स्यादिति प्ररोचयति त्वय्यायाते धरणिरमणीसारश्रृङ्गाररूपे, . प्रासादोऽयं प्रिय ! निजरुचा जेष्यति स्वर्गलोकम् / विष्वक्शुद्धस्फटिकरचितस्त्विन्द्रनीलाग्रभागो, मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः / / 19 / / व्याख्या - हे प्रिय ! प्रीतिदायक ! धरणिरमणीसारश्रृङ्गाररूपे धरति लोकान् इति धरणिः ‘ऋदृसृ० [उणा० 451] इत्यणिः, पृथ्वी, सैव रमणी, रमयति पतिम् इति ण्यन्तादनटि रमणी स्त्री, तस्याः सारश्रृङ्गाररूपे उत्तमालङ्कारतुल्ये त्वयि भवति आयाते स्वस्मिन् प्राप्ते सति विष्वक् सर्वतः शुद्धस्फटिकेन विमलस्फटिकोपलेन रचितः निर्मितः, इन्द्रनीलाग्रभागः इन्द्रनीलमणिनिर्मितः अग्रभागः शिखरभागो यस्य सः, मध्ये श्यामः कृष्णवर्णः शेषविस्तारपाण्डु शेषे मध्यातिरिक्ते विस्तारे परिणाहे पाण्डुः गौरवर्णः भुवः पृथिव्याः स्तनः कुच इव (प्रतीयमानः) अयम् प्रत्यक्षभूतः प्रासादः प्रसीदन्ति जनमनांसि अस्मिन् इत्यर्थे घञि उपसर्गस्य दीर्घ प्रासादः अट्टः भूपगृहाकारं गृहम्, तु Page #26 -------------------------------------------------------------------------- ________________ 19 / शीलदूतम् (स्थुलभद्र चरित्रम्) इति अन्य व्यवच्छेदार्थः स एवेत्यर्थः स एवेत्यर्थः निजरुचा स्वशोभया स्वर्गलोकं दिवं जेष्यति अभिभविष्यति / गृहसमीपस्थं विशेषं दर्शयन्ती प्ररोचयति - क्रीडाशैले कलय विपुले निर्झराली किलतां, यत्रावाभ्यां श्रमहतिकृते क्रीडितं नाथ ! पूर्वम् / यामालोक्याकलयति कलं चित्रमत्रत्यलोको, भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य / / 20 / / व्याख्या - - हे नाथ ! स्वामिन् !, यत्र क्रीडाशैले आवाभ्यां मया त्वया च श्रमहतिकृते श्रमस्य रतिक्रीडाजातशैथिल्यस्य हतेः नाशस्य कृते हेतोः पूर्वं त्वत् प्रव्रजनात् प्राक्समये क्रीडितम् विनोदः कृतः (तत्र) विपुले विस्तृते क्रीडाशैले क्रीडार्थमेव निर्मिते कृत्रिम पर्वते एतां प्रत्यक्षदृश्यमानां निर्झरालीम् कृत्रिम जलप्रपातततिम् कलय अवलोकय किल निश्चयेन, अत्रत्यलोक इहस्थजनसमूहः याम् निर्झरालीम् गजस्य करिणः अङ्गे शरीरे भक्तिच्छैदेः भक्तीनां रचना रेखाणां ('भक्तिनिषेवणे भागे रचनायाम् इति शब्दार्णवः) छेदैः विभागैः विरचिताम् निर्मिताम् भूतिं श्रृङ्गारम् ('भूतिर्मातङ्गश्रृङ्गारे जातौ भस्मनि सम्पदि इति विश्वः) इव आलोक्य दृष्ट्वा चित्रं आश्चर्यम् आकलयति प्राप्नोति / अथ धनेनापि प्रलोभयति - ... मा मुञ्चेदं धनमनिधनं नाथ ! सम्पूरिताशं, सर्वं चैनं निजपरिजनं त्वय्यतिस्नेहयुक्तम् / नीतिज्ञोऽपि प्रथितमहिमन् ! वेत्सि नैतत्कथं यत् ? . - रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय / / 21 / / Page #27 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - __ हे नाथ ! स्वामिन् ! अनिधनम् नास्ति निधनं विनाशः समाप्ति र्वा यस्य तादृशं कियताऽपि व्ययेन न क्षयणीयम्, सम्पूरिताशम् सम्पूरिताः सम्यक् सम्पादिताः आशाः अभिलाषाः येन तादृशम् इदं प्रत्यक्षवर्ति धनं वित्तम्, त्वयि भवति अतिस्नेहयुक्तम् अतिशयितेन स्नेहेन प्रेम्णा युक्तम्, सर्वम् अखिलम् एनम् पूर्वमपिचर्चितम् प्रत्यक्षतोऽभितो दृश्यमानम् निजपरिजनं स्वसेवकपरिवारम् च मा मुञ्च न परित्यज / उक्तमर्थं समर्थयितुमाह - हे प्रथितमहिमन् ! प्रथितो विख्यातो महिमा माहात्म्यं यस्य सः तदामन्त्रणम्, नीतिज्ञः सर्वविधलोकनयाभिज्ञः (सन्) अपि एतत् अग्रे कथ्यमानम् कथं कुतो हेतोः न वेत्सि न जानासि यत्, रिक्तः धनादिरहितः सर्वः जनः लघुः जनैरनायासेनोत्तोल्यः अनादरणीय इति यावत् भवति जायते, हि यतः पूर्णता वित्तादिभावत्वं गौरवाय अनुत्तोल्यतायै अनभिभवाय वा (भवति) तथा च धनहीनस्य कस्यापि गौरवं न भवतीति गौरव रक्षणाय धनत्यागो नोचित इति विशकलिताभिप्रायः / / न केवलं गृहे वास एवावश्यकोऽपि तु मन्त्रित्वाधिकार स्वीकारोऽपि पित्र्य इत्याह - व्यापार मा परिहर वर ! त्वं नृपश्रीशमं तं, प्राप्य क्लेशोपममिममहो ! संयमं मन्त्रिपुत्र ! / मुञ्चेच्चिन्तामणिमिह हि कः काचमादाय यस्मिन् ? सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् / / 22 / / व्याख्या - हे वर ! सर्वे वरणीय ! श्रेष्ठ ! मन्त्रिपुत्र ! मन्त्रिणः नन्दराजसचिवस्य शकटालस्य पुत्रः सुतः तदामन्त्रणम्, त्वम् भवान् इमम् प्रत्यक्षवर्त्तमानम् क्लेशोपमम् क्लिश्यते दूयते अस्मिन् इति क्लेशः कायमनः खेदः तेन Page #28 -------------------------------------------------------------------------- ________________ 21 शीलदूतम् (स्थुलभद्र चरित्रम्) सहोपमा सादृश्यं यस्य तादृशम् संयमम् इन्द्रियनिग्रहं प्राप्य स्वीकृत्य नृपश्रीसम राजलक्ष्मीसदृशं तं पूर्वप्राप्तं व्यापार मन्त्रिनियोगं मा नैव परिहर त्यज, यस्मिन् व्यापारे स्वीकृते जललवमुचः तोयबिन्दुसेचकाः सारङ्गा सारं सलीलं गच्छन्तीति सारोपपदाद् गमे र्डः मागमश्च, सरन्ति इत्यर्थे वा 'सृवृन्दृभ्यो णित् [उणा० 99]' इति णिदङ्गः गजाः (सारङ्ग श्चातके भृने कुरङ्गे च मतङ्गजे इति विश्वः) ते तव मार्गं गतागतपथं सूचयिष्यन्ति आवेदयिष्यन्ति, हि यस्मात् इह संसारे काचम् सीसकम् आदाय स्वीकृत्य चिन्तामणिम् रत्नविशेषं चिन्तितवस्तुमात्र-सकलवस्तुप्रदायकम् कः जनः मुञ्चेत् त्यजेत् / स्वर्गार्थ तपस्यतस्ते ततोऽप्यधिकं सुखमिहैव सुलभमित्याह - तीव्र यत्त्वं तपसि सुतपो देवलोकाशयेह, स्त्रीसम्भोगादपरमरिरे ! नास्ति तत्रापि सौख्यम् / गेहस्थस्तद्रचय सुचिरं स्वर्गसौख्याधिकानि, सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि / / 23 / / व्याख्या - त्वं भवान् देवलोकाशया देवलोकस्य स्वर्गस्य आशा प्राप्तीच्छा तया इह संसारे यत् तीव्र कठिनं सुतपः उत्तमं तपः तपसि आचरसि, अरिरे ! आश्चर्यम् (आश्चर्यद्योतकस्य लौकिकस्यैवमाकारस्य शब्दस्यानुकरणमेतत्) तत्रापि देवलोकेऽपि स्त्रीसम्भोगाद् स्त्रिया स्त्रीभि ; सह विलासाद् अपरम् नास्ति परम् उत्कृष्टं यस्मात् तत् अतिशयितम् सौख्यम् सुखमेव सौख्यम् भेषजादित्वाद् घ्यण, नास्ति न विद्यते, तत् तस्मात् गेहस्थः गृह एव तिष्ठन् स्वर्गसौख्याधिकानि स्वर्गस्य देवलोकस्य सौख्येभ्यः सुखभोगेभ्योऽपि अधिकानि उत्कृष्टानि, सोत्कण्ठानि उत्कण्ठया औत्सुक्येन सहितानि प्रियसहचरीसम्भ्रमालिङ्गतानि प्रियाणां वल्लभानां सहचरीणां Page #29 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) . 22 सहतिष्ठन्तीनां स्त्रीणां सम्भ्रमेण कामपीडाजन्यत्वरया आलिङ्गतानि . स्वयंग्रहाश्लेषान् रचय विधेहि / ननु लौकिकं सौख्यमल्पकालिकमिति चेदत्राह - नीत्वा नीत्या कतिपयदिनं यौवनं गेहवासे, भुक्त्वा भोगानवनिवलये नाथ ! तत्वा स्वकीर्तिम् / वार्द्धक्येऽथ प्रिय ! निजजनैः साश्रुदृग्भिव्रताय, . प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् / / 24 / / व्याख्या - ___ हे नाथ ! स्वामिन् ! नीत्या नयेन कतिपयदिनम् कतिपयानि परिगणितानि दिनानि दिवसाः यस्मिन् तादृशं यौवनं तारुण्यं गेहवासे गृहस्थितौ नीत्वा अतिवाह्य, भोगान् स्रक्चन्दनवनिताद्युपयोगान् भुक्त्वा अनुभूय, अवनिवलये भूमितले स्वकीर्तिम् स्वीयं यशः तत्वा विस्तार्य; अथ तदनन्तरम् हे प्रिय! वल्लभ ! वार्द्धक्ये वृद्धस्य भावः वार्द्धकम् चोरादित्वादकञ्, तदेव वार्द्धक्यम् तस्मिन् स्थाविरे भावे सम्पन्ने सति साश्रुदृग्भिः अश्रुभिर्नेत्रजलैः सहिता दृशो नेत्राणि येषां तादृशैः निजजनैः स्वीयबन्धुभिः प्रत्युद्यातः कृतानुगमनः भवान् त्वम् व्रताय संयमाय आशु शीघ्रं गन्तुम् व्रजितुम् कथमपि केनापि प्रकारेण (न तु सुखेन) व्यवस्येत् उद्युञ्जीत / पुनरपि बान्धवत्यागस्यानौचित्यप्रदर्शनद्वारा गृहत्यागानौचित्यं प्रकटयति - . ताते याते त्रिदशभवनं युष्मदाशानिबद्धा, ये जीवन्ति प्रिय ! परिहरंस्तान्न किं लज्जसे त्वम् ? / आयाभावात् त्वयि सति गते बान्धवास्तेऽस्तवित्ता:, . सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः / / 25 / / . Page #30 -------------------------------------------------------------------------- ________________ 23 . शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - . - हे प्रिय ! प्रेमास्पदभूत ! ताते पितरि शकटाले त्रिदशभवनम् तिस्रो दशाः (बाल्य-कौमार-यौवनानि) वयोऽवस्था येषां ते त्रिदशाः त्रिंशद्वर्षा मनुष्ययुवानः, तादृशा इव सदा ये विद्यन्ते ते, देवाः तेषां भवनम् गृहं स्वर्गमित्यर्थः, याते गते (सति) ये बान्धवाः युष्मदाशानिबद्धाः तव भवतः आशया आश्रयेच्छया निबद्धाः कृत जीवनबन्धनाः (सन्तः) जीवन्ति प्राणान् धारयन्ति, तान् बान्धवान् परिहरन् परित्यजन् त्वं भवान् स्थूलभद्रः न लज्जसे न त्रपसे किम् इति प्रश्ने, अवश्यमेव लज्जसे इत्यर्थः त्वयि भवति गते प्रव्रजिते सति अस्तवित्ताः क्षीणधनाः, दशार्णाः दशानाम् दशसङ्ख्ययाऽनुमितानामुत्तमर्णानाम् ऋणं देयद्रव्यमस्ति येषां तादृशाः सन्तः ते बान्धवाः कतिपयस्थायिहंसाः कतिपयदिनं परिगणितवासरान् यावत् स्थायिनः स्थितिशीला हंसाः प्राणा येषां तादृशा आसन्नमृत्यव इत्यर्थः, सम्पत्स्यन्ते भविष्यन्ति / अथ दृष्टान्तप्रदर्शनेन व्रतत्यागपूर्वकं भोगासक्तौ प्रेरयति - भुङ्गे भोगान् किमिह नभवान् नन्दिषेणोऽपि तस्थौ ? वेश्याऽऽवासे चिरविरचितं प्रोज्झ्य चारित्रमुच्चैः / मुह्येत् को नो शुचि सुललितं वीक्ष्य वा वारनाbः, सभ्रूभङ्गं मुखमिव पयो वेत्रवत्या श्चलोमि ? / / 26 / / व्याख्या - भवान् भातीत्यर्थे भा धातोः डवतुना प्रत्ययेन निष्पन्नो भवच्छब्दः युष्मदर्थे प्रयुक्तः, इह संसारे मदीयाऽऽवासे वा भोगान् भुज्यन्ते इति भोगाः 'भुजेः कर्मणि घञ्' स्रक्चन्दनवनितादयो विषयाः तान् किं कुतो हेतोः न भुङ्क्ते उपभुङ्क्ते ? ननु गृहीत चारित्रस्य मम कथं भोगोपभोगौचित्यमित्याङ्कायां दृष्टान्तेन तदौचित्यं साधयतिनन्दिषेणः अपि Page #31 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) ... 24 इत्यादिना / नन्दिषेण राजगृहनगर्या राज्ञः श्रेणिकस्य पुत्रः अपि चिरविरचितम् अनेकजन्मार्जितम् उच्चैः उत्तमम् चारित्रम् चर्यते अनुष्ठीयते इति चरित्रम्, चरतेः 'लूघूसूखनिचरसहार्ते [5-2-87] इति इत्रः, चरित्रमेव चारित्रम् प्रज्ञादित्वात् अण्, -शीलम्, प्रोज्झ्य परित्यज्य वेश्याऽऽवासे वेश्यायाः गणिकाया आवासे गृहे (तया सह रमणार्थम्) न तस्थौ स्थितः किम् ? इति काकु प्रश्ने, अपि तु स्थित एवेति भावः / अर्थान्तरन्यासालङ्कारेणैतत् समर्थयति - वा अथवा वेत्रवत्या एतन्नामकनद्याः चलोर्मि चलाः चञ्चला ऊर्मयः तरङ्गा यत्र तथाभूतम् शुचि स्वच्छम् पवित्रं वा सुललितं बहुसुन्दरम् पयः जलम् इव यथा, वारनार्याः बेश्यायाः सभ्रूभङ्गम् भ्रू भङ्गः कटाक्षविक्षेपैः सहितम् मुखम् वदनं वीक्ष्य अवलोक्य कः जनः न मुह्येत् चेतो वैकृतं प्राप्नुयात् इति काकु प्रश्नेन सर्व एव जनः तादृशं गणिकामुखं वीक्ष्य मुह्ये देवेति व्यज्यते / अथोद्दीपनविभावं भोगयोग्यस्थानादि वर्णयति - क्रीडाशैलो वर ! गुरुरयं राजते ते पुरस्ताच्चक्रे केलिः किल सह मया यत्र चित्रा त्वया प्राक् / स्निग्धच्छायै विमलसलिलैः सत्फलैर्यो जनाना मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि / / 27 / / व्याख्या - हे वर ! प्रियते प्रियत्वेन स्वीक्रियते इति वरः तदामन्त्रणम्, गुरुः विशालः अयं अग्रे दृश्यमानः क्रीडाशैलः क्रीडार्थं निर्मितः कृत्रिम पर्वतः ते भवतः पुरस्तात् समक्षं राजते शोभते / अस्य पूर्वोपभुक्तत्वेन परिचयं ददाति - यत्र पर्वते प्राक् यतिभावस्वीकारात् पूर्वं अर्थात् श्रीसम्भूतिविजयगुरुपार्श्वे दीक्षा ग्रहण पूर्वमित्यर्थः त्वया स्थूलभद्रेण मया - कोशया प्रिययासह सार्धं चित्रा अद्भुता केलिः रतिक्रीडा चक्रे कृता / यः क्रीडाशैलः Page #32 -------------------------------------------------------------------------- ________________ 25 . शीलदूतम् (स्थुलभद्र चरित्रम्) स्निग्धच्छायैः स्निग्धा स्पृहणीया च्छाया अनातप प्रदेशो यत्र तादृशैः, विमलजलैः विमलानि अतिस्वच्छानि जलानि येषु तैः सत्फलैः सद्भिः स्वादिष्टतरैः फलैश्च (युक्तैः) शिलावेश्मभिः प्रस्तरागारैः जनानाम् एतत् प्रदेशवर्तिलोकानाम्, उद्दामानि उद्गतं निः सृतं दामप्रसरणनिवारकबन्धनरज्जुः येभ्यः तादृशानि-अप्रतिबद्धानि यौवनानि तारुण्यानि प्रथयति भोगेच्छाभि वृद्ध्या प्रख्यापयति / पूर्वत्र पद्ये जनानामिति क्रीडाशैलस्यास्य सर्वसाधारणत्वमुक्तमिति नेदृशे स्थाने प्रतिष्ठित पुरुषस्य विहारो युज्यते इति शङ्का सम्भवनाया निराशायात्र त्वदीयं स्वतन्त्रमेवोद्यानमेकान्तस्थानमस्तीति कथयति : अस्मिन् सान्द्रद्रुमचयचिते पर्वते वर्त्तते ते, क्रीडोद्यानं सुरवनसमं नाथ ! सर्वर्तुकाख्यम् / स्वेदं शीतो हरति सुरभिः संमतो यत्र वायुश्छायाऽऽदानात् क्षणपरिचितः पुष्पलावीमुखानाम् / / 28 / / व्याख्या - सान्द्रद्रुमचयचिते सान्द्रेण निबिडेन द्रुमाणां वृक्षाणां च येन समूहेन चिते व्याप्ते (अनेनास्य प्रच्छन्नत्वं ख्याप्यते) अस्मिन्, पूर्वनिर्दिष्टे पर्वते क्रीडाशैले, हे नाथ ! स्वामिन् ! ते भवतः सर्वर्तु काख्यम् सर्वे वसन्तादयः षडपि ऋतवः यत्र (एककालावच्छेदेनेति शेषः) तत् 'सर्वर्तुकम्' इति आख्या नाम यस्य तत्, सुरवनसमम् देवोद्यानन्दनाख्य वनसदृशम् (तत्रापि सर्वेषामृतूनां सर्वदा सहावस्थितेः प्रसिद्धेः, तत्साम्येन पूर्वोक्तार्थे दाढर्यं द्योतितम्) क्रीडोद्यानम् लीलारामः वर्त्तते विद्यते, (इति स्मरणीयमिति भावः) / Page #33 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) ... यत्र क्रीडोद्याने शीतः शीतलस्स्पर्शवान् सुरभिः सुगन्धः संमतः अनुकूलः छाया-दानात् छाययाः कान्त्या दानात् वितरणात् क्षणपरिचितः किञ्चित् कालार्थं जातपरिचयः वायुः पवनः पुष्पलावीमुखानाम् पुष्पाणि लुनन्ति त्रोटयन्तीति पुष्पलाव्यो मालाकारपन्यः तासां मुखानाम् आननानां (सम्बधिनं) स्वेदं धर्मजलं हरति अपनयति / पुनरपि क्रीडाशैलस्थे क्रीडोद्याने रमणाय प्रेरयति - .. स्वामिन्नस्मिन् स्मरगृहसमे कानने तावकीने; कामक्रीडां विदधति समं निर्जराः सुन्दरीभिः / स्नेहस्निग्धस्त्वमिह रतिदैर्वीक्षितोऽपि प्रियाणां, लोलापागैर्यदि न रमसे लोचनै वञ्चितोऽसि / / 29 / / व्याख्या - ...हे स्वामिन् ! हे नाथ ! स्मरगृहसमे स्मरस्य कामदेवस्य गृहेण भवनेन समे तुल्ये तावकीने तव इदं तावकीनम् तस्मिन् अस्मिन् प्रत्यक्ष दृष्टे कानने क्रीडोद्याने निर्जराः देवाः (अपि) सुन्दरीभिः स्वप्रियाभिः समं सह कामक्रीडां कन्दर्पसम्बन्धिविहारं विदधति कुर्वन्ति / देवैरपि कामक्रीडार्थमिदमुपयुज्यत इत्यहोऽस्य रमणीयतेति भावः / इह उद्याने त्वम् भवान् स्नेहस्निग्धैः प्रीति भावा!ः रतिदैः रतिं श्रृङ्गाररसस्थायिभावं ददति उद्बोधयन्ति इति रतिदाः तथाभूतैः लोलापागैः लोलाश्चञ्चला अपाङ्गा दृक्कोणा येषु तादृशैः प्रियाणां स्निग्धानां स्त्रीणां लोचनैः नेत्रैः वीक्षितः अवलोकित अपि यदि चेत् न रमसे रतिक्रीडायां प्रवर्तसे (तर्हि) वञ्चितः फलशून्य असि भवसि / प्रियाणां स्निग्धा दृष्टि र्दुलभा तां प्राप्यापि यदि न सार्थयसि तर्हि तव पुंस्त्वमेव निष्फलमिति भावः | Page #34 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) न केवलं प्रिंया एव त्वां प्रवर्तयन्ति, अपि तु जडा वृक्षा वल्यपि त्वां स्वोपभोगाय प्रेरयतित्याह - लोलच्छाखाशयविलसितैस्त्वामिवाकारयन्ती, भृङ्गालापैरिव तव तपः साम्प्रतं वारयन्ती / वृक्षालीयं कुसुमपुलकं दर्शयन्तीव पश्य, . स्त्रीणामाद्यं प्रणयि वचनं विभ्रमो हि प्रियेषु / / 30 / / / व्याख्या - - वृक्षाली वृक्षाणां तरूणाम्, आली पङ्क्तिः आलीवेत्युप मिति गर्भसमासः, लीलच्छाखाशयविलसितैः लोलन्त्यश्चञ्चलाः शाखा एव शया कराः तेषां विलसि तैः विभ्रमैः त्वाम् भवन्तं आकारयन्ती आह्ह्वयन्ती इव, भृङ्गालापैः भृङ्गाणां भ्रमराणाम् आलापैः शब्दैः साम्प्रतम् अस्मिन् समये तव भवतः तपः तपश्चर्यां वारयन्ती प्रतिषेधयन्ती इव, कुसुमपुलकं कुसुमानि पुष्पाण्येव पुलकं सात्विकविकारोत्पन्नरोमोद्गमं दर्शयन्ती त्वाम्प्रतिप्रकटयन्ती इव (स्थिता इति त्वं) पश्य अवलोकय / (किमनेनावलोकितेनेति चेदत्राह) हि यतः स्त्रीणां वनितानां विभ्रमः विलासः प्रियेषु इष्टेषु जनेषु विषये आद्यं प्रथमं प्रणयवचनं प्रेमालापः भवतीति शेषः / एवं बाह्यालापं विधाय साम्प्रतं स्वाभिप्रायं प्रकाशयति - हीनं दीनं सुभग ! विरहात् ते धुताऽऽहारनीरं, पश्येदं मे वपुरुपचितिं याति नान्यैः प्रयोगैः / जाने नाहं बहु निगदितुं त्वद्वियोगार्तिजातं, कार्यं येन त्यजति विधिना सत्वयैवोपपाद्यः / / 31 / / Page #35 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - __ 'हे सुभग ! सौभाग्यशालिन् सुन्दर इति वा, ते तव विरहात् वियोगात् हीनं क्षीनं, दीनं परितप्तं, धुताऽऽहारनीरं धुते परित्यक्ते आहारनीरे भोजनजले येन तादृशम् इदं प्रत्यक्षदृश्यमानं मे मम (कौशायाः) वपुः शरीरम् अन्यैः त्वत्संयोगातिरिक्तैः प्रयोगैः उपायैः उपचितिं परिपुष्टिं न याति प्राप्नोति (इति) पश्य प्रत्यक्षमवलोकय / अहं त्वंद्वियोगाविकला काचिदबला बहु विस्तृतं निगदितुं कथयितुं न जाने अवगच्छामि, (केवलमेतावदेव प्रार्थयामि यत् इदं मे वपुः / त्वद्वियोर्तिजातं तव भवतः वियोगेन विरहेण या आतिः पीडा तया जातम् उत्पन्नं कार्यं दौर्बल्यम् येन पूर्वोक्त रीत्या स्पष्टेन विधिना उपायेन (तव संयोगरूपेण) त्यजति परिहरति स विधिः त्वया भवता एव उपपाद्यः सम्पादनीयः / अथस्य पूर्वाकृतौदार्यादिप्रकटनपूर्वकं प्रवर्तनावाक्यमाह - . गेहं देहं श्रिय इव भवत् कारितं भर्त्तरेतद्, भाग्यैर्लभ्यं नय सफलतां स्वोपभोगेन नाथ ? / स्वल्पीभूते स्वकृतसुकृते नाकिनां भूगतानां, ' शेषैः पुण्यै र्हतमिव दिवः कान्तिमत् खण्डमेकम् / / 32 / / व्याख्या - 'हे भर्त्तः ? बिभर्ति पोषयति इति भर्ती तदामन्त्रणम्, धनादिनापरिपोषक? श्रियः लक्ष्म्याः देहं शरीरम् इव (सुन्दरमिति भावः) भवत्कारितम् त्वयैव निर्मापितम् एतद् प्रत्यक्षम् गेहम् भवनं भाग्यैः सुकृतादृष्टैः लभ्यम् प्राप्यम् (किञ्च) स्वकृतसुकृते स्वानुष्ठितपुण्ये स्वल्पीभूते तनुतां प्राप्ते भूगतानां मर्त्यलोकमायातानां नाकिना न अकं दुःखं यत्र स नाकः स्वर्गम्, स निवासोऽस्त्येषामिति नाकिनो देवाः तेषाम्, शेषैः भुक्तावृशिष्टैः पुण्यैः सुकृतेः हृतं आनीतम् कान्ति मत् शाभायुक्तम् दिवः स्वर्गस्य एकम् खण्डम् Page #36 -------------------------------------------------------------------------- ________________ 29 . शीलदूतम् (स्थुलभद्र चरित्रम्) अवयव इव (एतद् गेहं) हे नाथ ! स्वामिन् ! स्वोपभोगेन स्वस्य आत्मन उपभोगेन उपयोगेन सफलतां सार्थक्यं नय प्रापय / त्यक्त गृहस्य परित्यक्तमन्त्रिव्यापारस्य चास्य धनं दुर्लभम्, धनेन रहितस्य चास्य सेवनेन ममापि लाभो न स्यादिति धनोपार्जनाय व्याजान्तरेण प्रेरयति - अङ्गीकृत्य प्रिय ! गुरुतरां मन्त्रिमुद्रां समुद्रां, दानैरस्यां पुरि हर चिरं लोकदारिद्र्यमुद्राम् / यत्रावन्त्यामिव सुरसरिद्धन्ति तापं च शीतः, सिप्रा वात: प्रियतम इव प्रार्थनाचाटुकारः / / 33 / / व्याख्या - 'हे प्रिय ! अभीष्ट ? गुरुतरां बहुतरगौरवयुक्तां समुद्रां मुद्रा तत्तत्पदस्थजनप्रत्ययकारिणी अकिताक्षरा धात्वादिनिर्मिता ‘मोहर' इति नाम्ना प्रसिद्धा तया सहितां मन्त्रिमुद्रां मन्त्रित्वचिन्हम् अङ्गीकृत्य स्वीकृत्य नन्दराज मन्त्रिपदमधिष्ठायेत्यर्थः, अस्यां पुरि पाटलिपुत्रनगर्यां दानैः अन्नवस्त्रहिरण्यादीनां वितरणैः लोकदारिद्र्यमुद्रां लोकानां जनानां दारिद्र्यस्य मुद्राम् आकारस्य विशेषं हर अपनयः यत्र यस्यां पुरि (पाटलिपुत्रे) शिप्रा विशालानगरीपर्यन्तवाहिनी नदी सा इव सुरसरित् देवनदी गङ्गा, प्रार्थना * चाटुकारः प्रार्थनायां सुरतयाच्जायां चाटुं प्रियवचनप्रयोगं करोतीति तादृशः प्रियतमः प्राणवल्लभ इव शीतः शीतलस्पर्शवान् वातः वायुः च तापं रत्यादिजातखेदं हरति नाशयति / प्ररोचनार्थं पुनरपि पाटलिपुत्रनगरमेव वर्णयति - पश्य स्वामिन् ! सुविपुलमिदं पाटलीपुत्रद्रङ्ग, गङ्गोत्सङ्गे नृपतितिलक: कोणिकोऽस्थापयद् यत् / Page #37 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) यस्याऽग्रेऽहो ! विविधमणिभिः पूरितस्य क्षमायां, संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः / / 34 / / व्याख्या - हे स्वामिन् ? नाथ ! गङ्गोत्सङ्गे गङ्गायाः सुरनद्या उत्सङ्गे क्रोडे-समीपे सुविपुलम् अतिविस्तृतम् इदं प्रत्यक्षम् पाटलीपुत्रद्रङ्गं पाटलीपुत्रं नाम नगरम् ('नगरी पू: पुरी द्रङ्गः, पत्तनं पुटभेदनम्' इति अभिधान चिन्तामणो तिर्यक्काण्डे 4 / 991, पश्य अवलोकय, यत् नगरम् नृपतितिलक: नृपतिषु राजसु तिलक इव, राजश्रेष्ठ इत्यर्थः कोणिकः तन्नामा नृपतिः अस्थापयत् निर्मापयामास | विविधमणिभिः नानाप्रकाररत्नैः पूरितस्य भारितस्य यस्य पाटलिपुत्रनगरस्य अग्रे समक्षम्, सलिलनिधयः वारिधयः तोयमात्रावशेषाः तोयमानं केवलं जलमेव अवशेषः शिष्टं येषु तादृशाः, रत्नानि सर्वाणि पाटलिपुत्रे गतानि समुद्रेषु केवलं तोयमेवावशिष्यते इत्येवं रुपेणेत्यर्थः संलक्ष्यन्ते प्रतीयन्ते / बहुरत्नपूर्णमिदं नगरमिति भावः | पाटलिपुत्रनगरस्य पूर्ववृत्तान्तं पुरीवर्णनक्रमेण कथयति - आद्यं नन्दं नृपतिमवधीदत्र वैरोचनः प्रा - गत्रारामः सततफलदोऽत्राभवत् तस्य राज्ञः / अत्रोदायिप्रभुरपि हतः पापिना तेन दम्भादित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः / / 35 / / व्याख्या - यत्र पाटलीपुत्रे अभिज्ञः पुरातनेतिहासवेत्ता जनः लोकः आगन्तून् आगच्छति इत्यागन्तुः आङ् पूर्वाकाद् ‘गमेः कृसिकम्य [उणा० 773] तुन् प्रत्यये सति सिध्यति, अतिथिपर्याय श्चायमित्यतिथीनित्यर्थ, बन्धून् सम्बन्धिनः 'अत्र नगरे प्रदेशे वा प्राक् पूर्वं वैरोचनः विरोचनस्य पुत्रः आद्यं प्रथमं नन्दं Page #38 -------------------------------------------------------------------------- ________________ नतापादरा 31 . शीलदूतम् (स्थुलभद्र चरित्रम्) एतन्नामकं नृपतिं राजानम् अवधोत् जघान, अत्र प्रदेशविशेषे तस्य नन्दस्य राज्ञः नृपस्य सततफलदः सततं सर्वेषु कालेषु फलानि ददाति इति तादृशः आरामः वृक्षवाटिका अभूत् आसीत्, अत्र प्रदेश विशेषे तेन प्रसिद्धेन उदायिनृपोत्सादितराजपुत्रेण पापिना दुष्कृताचारिणा दम्भात् मुनिवेषधारणकपटात् उदायिप्रभुः प्रसिद्धः पाटलिपुत्रसंस्थापको राजाविशेषः हतः मारितः इति उक्तप्रकारवचनैः रमयति रञ्जयति / अथास्य प्ररोचनार्थं शरीरपरिपुष्ट्यै प्रेरयति - खिन्नोऽसि त्वं चिरविचरणाद् दृश्यतेऽनीदृशस्ते, देहस्तन्नो निजपरिजनेनाऽमुना जल्पसि त्वम् / हर्येष्वेषु प्रिय ! निवसनात् सज्जयास्मिंस्तनुं स्वां, नीत्वा खेदं ललितवनितापादरागाङ्कितेषु / / 36 / / व्याख्या - .. त्वं स्थूलभद्रः चिरविचरणात् बहुकालविहारात् खिन्नः क्षीणः असि, ते तव देहः शरीरम् अनीदृशः पूर्व सादृश्यरहितः दृश्यते अवलोक्यने, तत् तस्मात् त्वम् अमुना साक्षात् स्थितेन निजपरिजनेन अस्मत्प्रभृति सेवकवर्गेण सह नो नैव जल्पसि आलपसि / हे प्रिय ! स्नेहास्पद ! ललितवनितापादरङ्गाङ्कितेषु ललितानां सुन्दरीणां वनितानां स्त्रीणां पादरागैः .चरणालक्तकरसैः अङ्कितेषु चिह्नितेषु एषु पुरतः स्थितेषु हर्येषु प्रासादेषु निवसनात् स्थिति करणात् खेदं चिरविचरणपरिश्रमं नीत्वा दूरीकृत्य अस्मिन् समये स्वां निजां तनुं शरीरं सज्जय भोगयोग्यतामापादय | स्थाने खेदापनयनयोग्यता प्रदर्श्यते - द्रङ्गोत्सङ्गे सगरतनयाऽऽनीतवाहां वहन्ती, गङ्गामेतां सुभग ! मृगयालोलकल्लोलमालाम् / तेषु एषु परास्त्रीणां , तकरणात समये स्व Page #39 -------------------------------------------------------------------------- ________________ _ 32 शीलदूतम् (स्थुलभद्र चरित्रम्) धर्मस्वेदं हरति कुरुते या रतिं श्राग् नराणां, तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः / / 37 / / व्याख्या - हे सुभग ! सुरूप ! सौभाग्यशालिन्, सगरतनयाऽऽनीतवाहां सगरचक्रवर्तिन स्तनयैः पुत्रैः आनीतः हिमालयात् सागरं प्रति नीतः वाहः वहनं वाहः, प्रवाहः यस्याः ताम्, आलोलकल्लोलमालाम् आ समन्तात् लोला चञ्चला कल्लोलानां तरङ्गाणां माला पङ्क्तिः यस्याःताम्, वहन्तोम् प्रसरन्तीम् एतां प्रत्यक्षदृश्यमानां गङ्गाम् भागीरथीं मगय अवलोकय / या गङ्गा तोयक्रीडानिरतयुवतिस्नानतिक्तैः तोयक्रीडायां जलविहारे निरतानां लग्नानां युवतीनां तरुणीनां स्नानेन अवगाहनेन तिक्तैः सुरभितैः मरुद्भिः वायुभिः नराणाम् मनुष्याणाम् धर्मस्वेद ऊष्मजातजलं हरति अपनयति, श्राक् झटिति रतिम् स्त्रीपुंसयोरनुरागं च कुरुते जनयति / कटुतिक्तकषायास्तु सौरभेऽपि प्रकीर्तिताः' इति हलायुधकाशानुसारमिह तिक्तशब्दः सुरभितार्थतया व्याख्यातः / स्नात्यनेनेति स्नानमिति करणेऽनेत स्नानपदं स्नानीय चन्दनादिचूर्णपरमपि 'स्नानीयेऽभिषवे स्नानम्' इति यादवकोशात् / तथा च स्त्रीणां स्नानीयद्रव्येण तत्रत्य वातस्य सौरभयुक्तत्वं युक्तमेव / पुनरप्यत्रवासाय प्रेरयति - . वासं कुर्वन्नवनिविदिते नित्यरङ्गेऽत्र द्रङ्गे, गाङ्गनीरैरनिशममृतस्वादमावेत्स्यसि त्वम् / गङ्गाघोषैः श्रुतिसुखकरैरन्वहं चाब्दजानामामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् / / 38 / / / व्याख्या - अवनिविदिते पृथिव्यां ख्याते नित्यरङ्गे नित्यं प्रतिदिनम् रङ्गः Page #40 -------------------------------------------------------------------------- ________________ 33 . शीलदूतम् (स्थुलभद्र चरित्रम्) नाट्योत्सवः यत्र तादृशे [यद्यपि 'नाट्यस्थानं तु रङ्गः स्यात्' [अभिधान० 2. 196] इत्युक्ततया रङ्ग इत्यस्य नाट्यशाला इत्यर्थः करणीयः तथापि अत्र नित्य विशेषणेन रङ्ग पदस्य तत्रत्य क्रियायामेव प्रयोग इति विज्ञायैवं व्याख्यातम्] अत्र प्रकृते द्रङ्गे नगरे पाटलिपुत्रे, वासं स्थिति कुर्वन् विदधत् त्वं भवान् गाङ्गैः गङ्गासम्बन्धिभिः नीरैः जलैः अनिशम् सततम्.अमृतस्वादम् अमृतस्य पीयूषस्य स्वादम् रसम् आवेत्स्यसि ज्ञास्यसि, श्रुतिसुखकरैः कर्णानन्दावहैः गङ्गाघोषैः भागीरथीप्रवाहशब्दैः अन्वहम् अलि-अलि इति अन्वहम् वीप्सायामव्ययीभावः प्रतिदिनम् अब्दजानाम् अपोददति इति अब्दा मेघाः तेभ्यो जातानाम्, आमन्द्राणाम् ईषद् गम्भीराणाम् गर्जितानाम् गर्जनशब्दानाम्, अविकलं सम्पूर्णम् फलम् उपयोगं लप्स्यसे प्राप्स्यसि / यादृश आह्लादो मेघगर्जने भवति तादृशो गङ्गाप्रवाहघोषैरेव तव स्यादिति भावः / न केवलमत्र स्थितिरेव कार्या स्वकीय व्यापारोऽपि करणीय एवेत्याह - नो मुञ्चन्ति प्रिय ! निजकुलाचारभारं महान्तो, व्यापारं तत् कुरु गुरुममुं पूर्वजाचाररूपम् ! . स्नेहाद्यस्मिन् सति हि समुदः पौरनार्योऽतिवर्या नामोक्ष्यन्ते त्वयि मधुकर श्रेणिदीर्घान् कटाक्षान् / / 39 / / व्याख्या - __ हे प्रिय ! महान्तः मह्यन्ते लोकैः पूज्यन्ते इति महान्तः ('द्रुहि बृह० [उणा० 884] इति कर्तृ प्रत्ययेन महत् शब्दो व्युत्पादितः) निजकुलाचारभारं . निजकुलस्य स्ववं शस्य आचारः व्यापारः स एव भारः वहनीयः तं नो नैव मुञ्चन्ति परित्यजन्ति तत् तस्माद्धेतोः पूर्वजाचाररूपम् पूर्वजस्य पित्रादेः आचाररूपम् कर्तव्यरूपं अमुं पूर्वनिर्दिष्टं मन्त्रिपदस्वीकाररूपं व्यापार कार्य Page #41 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) - 34 कुरु विहि / हि यतः यस्मिन् व्यापारे सति विद्यमाने समुदः सानन्दाः पौरनार्यः नागरवनिताः त्वयि भवति स्नेहात् प्रेम्णः कारणात् अतिवर्यान् अत्यादरपूर्णान् मधुकरश्रेणिदीर्घान् मधुकरश्रेणिवत् (अतिकृष्णवर्णत्वादायतत्वाच्च) भ्रमरपङ्क्तिवत् दोर्धान् आयतान् कटाक्षान् अपाङ्गान् आमोक्ष्यन्ते पातयिष्यन्ति / अथास्य सुखमाशास्ते - पायं पायं शुचि सुललितं बन्धुवाक्यं पयो वा, स्वादं स्वादं सरसमधुराहारमेयाः प्रमोदम् / स्वामिन् ! नित्यं शिव इव मया सस्पृहं वीक्ष्यमाणः, . शान्तोद्वेगः स्तिमितनयनं दृष्टभक्ति भवान्या / / 40 / / व्याख्या - हे स्वामिन् ! शुचि पवित्रमुज्ज्वलं वा सुललितम् सुन्दरं बन्धुवाक्यं सम्बन्धिजनवचनं वा अथवा पयः दुग्धं पायं-पायं श्रुत्वा-श्रुत्वा, पीत्वापीत्वा वा सरसमधुराहारम् सरसं सस्वादं मधुरं मिष्टं च आहारभोज्यवस्तु स्वाद-स्वादं रसयित्वा-रसयित्वा, भवान्या पार्वत्या शिवः शङ्कर इव यथा, मया कोशया सस्पृहं साभिलाषं स्तिमितनयनं स्तिमिते निश्चले नयने नेत्रे यत्र तादृशं च यथा स्यात् तथा नित्यं प्रतिदिनं वीक्ष्यमाणं अवलोक्यमानः, दृष्टभक्तिः दृष्टा प्रत्यक्षी कृता भक्तिः मम अनुरागो येन तथाभूतः शान्तोद्वेगः शान्तः अपगत उद्वेगः वैराग्यं यस्य तथाभूतः सन् प्रमोदम् सुखम् एयाः प्राप्नुयाः / त्वया दीक्षा त्याज्येत्याह - कार्या शधद् भृतिरिह मया कः पुरेत्युक्तिपूर्वं, पाणी प्रादात् प्रिय ! किल भवान् यत् पयो मत् सखीनाम् / Page #42 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) गृह्णन् दीक्षां निजपरिजनं त्वं विमुञ्चन् क्षणात् तत्, .तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्लवास्ताः / / 41 / / व्याख्या: - 'हे प्रिय ! पुरा 'इह मया वः भृतिः शश्वत् कार्या' इति उक्तिपूर्व भवान् मत्सखीनां पाणौ यत् पयः प्रादात्, दीक्षां गृह्णन्, निजपरिजनम् विमुञ्चन् त्वम् तत् क्षणात् तोयोत्सर्गस्तनितमुखरः मा स्म भूः, ताः विक्लवाः' इत्यन्वय / मन्त्रिव्यापारस्यानेकछलछिद्रान्वितत्वेन तदस्वीकारे वाणिज्यमेव विधेहीत्याह - . व्यापारस्ते यदि न हृदये संमतो ज्ञाततत्त्चे, वाणिज्येनार्जय धनचयं त्यागभोगक्षमं तत् / अङ्के क्षिप्तानव तव पुराऽऽनेन पित्रा स्वबन्धून्, मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः / / 42 / / व्याख्या - चेत् ज्ञाततत्त्वे ज्ञातं परिचितं तत्त्वं सांसारिकमिथ्यात्वरहस्यं येन तादृशो ते तव हृदये अन्तःकरणे व्यापारः मन्त्रित्वेन व्यापृतिः न संमतः इष्टः, तत् तदा वाणिज्येन क्रयविक्रयकरणेन त्यागभोगक्षमं त्यागाय दानाय भोगायं स्व सुखाय च क्षमं योग्यं धनचयं सम्पत्तिजातम् अर्जय स्वाधीनी कुरु अनेन धनचयेन, पुरा पूर्वसमये पित्रा जनकेन तव भवतः अङ्के आश्रये क्षिप्तान् समर्पितान् स्वबन्धून् निजज्ञातीन् अव रक्षय / अर्थान्तर न्यासालङ्कारेणैतत् समर्थयति-सुहृदाम् शुद्धहृदयानां जनानाम्मित्राणां वा कृते अभ्युपेतार्थकृत्या अभ्युपेता अङ्गीकृता अर्थस्य प्रयोजनस्य कृत्या क्रिया यैः तादृशाः जनाः न खलु नैव मन्दायन्ते विलम्बन्ते विरमन्ति Page #43 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) वा / अथ नन्दराजानुरोधनापि त्वया मन्त्रिपदं स्वीकार्यमित्याह पूर्वैः पूर्वे मम खलु समे मानिता ह्यस्य पूर्वं, तन्मान्योऽसौ सचिवतनयो मे जिघृक्षुस्तपस्याभ् / मत्वा नन्दो नृप इति चिरं त्वाऽनुनेतुं प्रमोदात्, प्रत्यावत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः / / 43 / / व्याख्या - हि यतः पूर्वम् पूर्वस्मिन् समये मम नन्दस्य पूर्वैः पूर्व पुरुषैः अस्य स्थूलभद्रस्य समे सर्वे पूर्वे पूर्वपुरुषाः पित्रादयः मानिताः पूजिताः तत् तस्मात् असौ सम्प्रति विप्रकृष्टः सचिवतनयः मन्त्रिपुत्रः स्थूलभद्रः तपस्याम् तपः जिघृक्षुः स्वीकर्तुमिच्छुः मान्यः अनुनेयः इति पूर्वक्तं मत्वा विचार्य नन्दः एतन्नामा नृपः पाटलिपुत्राधीश्वरः प्रमोदात् त्वामिहागतं श्रुत्वा हर्षात् त्वा त्वाम् अनुनेतुं अनुकूलयितुं प्रत्यावृत्तः पुनरपि प्रवृत्तः, त्वयि भवति कररुधि अनुनयार्थं प्रवर्तितं करं हस्तं रुणद्धि वारयति इति तादृशे जाते सति अनल्पाभ्यसूयः अनल्पा समधिकां अभ्यसूया ईर्ष्या यस्य तादृशः स्यात् भवेत् / न केवलं वयमेवैवं कथयामः मान्या गङ्गापि ते दीक्षां वारयतीत्याह - दीक्षामेषा तव सुरनदी वारयत्यूमिरावैः, पश्य स्वामिन् ! बहुपरिचिता प्रेयसीवेयमुच्चैः / अस्याः शस्याशयरयकृतान्यर्हसि त्वं न विद्वन् !, मोघीकर्तुं चटुलशफरोद्वर्त्तनप्रेक्षितानि / / 44 / / . Page #44 -------------------------------------------------------------------------- ________________ 37 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - हे स्वामिन् ! एषा प्रत्यक्षदृश्यमाना सुरनदी गङ्गा बहुपरिचिता अतिशयानुभूता इयं मद्रूपा प्रेयसी प्रियतमा इव तव भवतः दीक्षाम् प्रव्रज्यां उच्चैः दीर्धेः ऊर्मिरावैः प्रवाहकोलाहलैः वारयति प्रतिषेधति (इति) पश्य अवलोकय / हे शस्याशय ! शस्यः प्रशस्यः आशयोऽभिप्रायो यस्य तथाभूत ! विद्वन् ! कर्तव्याकर्तव्यविवेकपटो ! त्वम् भवान् अस्याः गङ्गाया रयकृतानि वेगसमुद्भूतानि, चटुलशफरोद्वर्तनप्रेक्षितानि चटुलानां चञ्चलानां शफराणां मत्स्यविशेषाणाम् उद्वर्तनानि उल्लुण्ठनानि एव प्रेक्षितानि अवलोकनानि मोघीकर्तुं विफलीकर्तुं न अर्हसि न युज्यसे | पूर्वमपि दीक्षां विहाय भोगानुभवः कृतो दृश्यत इत्युदाहरति - कान्तावाचा चिरकृतमहो ! प्रोझ्य चारित्ररत्नं, . भेजे भोगान् सुभग ! वितताना पूर्वः कुमारः / / सोऽस्थाद् गेहे प्रिय ! जिनमितान् वत्सरान् स्नेहतो वा, . ज्ञातास्वादो विपुलजघनां को विहातुं समर्थः ? / / 45 / / व्याख्या - हे सुभग ! सुन्दर ! आर्द्रपूर्वः आर्द्रशब्दः पूर्वं यस्य सः कुमारः आर्द्रकुमार नामा प्रसिद्धो राजपुत्रः कान्तावाचा कान्तायाः प्रियाया वाचा कथनेन चिरकृतम् बहुकालानुष्ठितं चारित्ररत्नम् चारित्ररूप मणिं प्रोज्झ्य परित्यज्य विततान् बहुविस्तृतान् भोगान् स्रक्चन्दनवनितादिविषयान् भेजे उपयुयुजे इति अहो ! आश्चर्यम् / हे प्रिय ! सः आर्द्रकुमारः जिनमितान् जिनसङ्ख्यकान् चतुर्विंशतिं वत्सरान् वर्षाणि यावत् स्नेहतः कान्तादीनां प्रेमतः गेहे गृहस्थाश्रमे अस्थात् स्थितः, (अर्थान्तरालङ्कागेपन्यासेनैतत् समर्थयति) वा अथवा ज्ञातास्वादः अनुभूतरसः कः जनः विपुलजघनां विपुलं विस्तृतं जघनं कटिपश्चाद्भागो यस्याः तादृशीं (नारी) विहातुं Page #45 -------------------------------------------------------------------------- ________________ 38 शीलदूतम् (स्थुलभद्र चरित्रम्) परित्यक्तुं समर्थः क्षमः स्यात् / सम्प्रति स्वाभिप्रायं निगमयति - सूद तत्प्रिय ! मम वचो मानयित्वा गृहे स्वे, तारुण्यं त्वं नय विनयतः प्रार्थ्यमानः प्रियाभिः / वर्षाकाले तव विहरतः शर्मकर्ता वनान्तः, शीतो वायुः परिणमयिता काननोदुम्बराणाम् / / 46 / / व्याख्या - हे प्रिय ! तत् तस्मात् पूर्वोक्तकारणसमुदयात् सूदर्कं शोभनः उदर्कः उत्तरकालफलं यत्र (आयति स्तूत्तरः कालः, उदर्क स्तद्भवं फलम्' इति अभिधान० 2.76) तादृशं मम कोशाया घचः वचनं मानयित्वा स्वीकृत्य, विनयतः प्रश्रयेण प्रयाभिः कान्ताभिः प्रार्थ्यमानः याच्यमानः भोगार्थं प्रवर्त्यमानः त्वं स्थूलभद्रः स्वे निजे गेहे गृहे तारुण्यं यौवनावस्थां नय अतिवाहय / वर्षाकाले प्रावृषि वनान्तः काननमध्ये विहरतः स्वैर विहारं कुर्वतः तव भवतः काननोदुम्बराणाम् वनान्तःस्थोदुम्बरफलानां परिणमयिता परिपाचयिता शीतः शीतलः वायु वातः शर्म सुखं कर्ता विधाता / पुनर्मन्त्रिपदस्वीकारायैव प्रेरयति - अङ्गीकृत्य प्रियतम ! महामात्यमुद्रां सुभद्रां, सान्द्रानन्दं कुरु निजपति नन्दनामानमेनम् / भूर्याद् भूयस्तव जनकवत् शत्रुतृण्यावलीना मत्यादित्यं हुतवह ! मुखे संभृतं तद्धि तेजः / / 47 / / व्याख्या - हे प्रियतम ! प्रियेषु मध्येऽत्यन्तं प्रिय ! सुभद्रां सुमङ्गलमयीम् Page #46 -------------------------------------------------------------------------- ________________ 39 / शीलदूतम् (स्थुलभद्र चरित्रम्) महामात्यमुद्राम् महामात्यस्य प्रधानमन्त्रिणः मुद्रां चिह्नस्वरूपां मुद्रिकाम् अङ्गीकृत्य स्वीकृत्य नन्दनामानम् नन्दाख्यम् एनम् पूर्वचर्चितं निजपतिम स्वस्याधीश्वरं सान्द्रानन्दं सान्द्रः गाढः आनन्दः प्रमोदो यस्य तादृशं कुरु विधेहि / हे शत्रुतृण्यावलीनां हुतवह ! तृणानां समूहः, तृण्या शत्रवः तृण्या इवेति शत्रुतृण्या तासाम् आवलिः समूहः, तासां कृते हुतवहः वह्निः इव तदामन्त्रणम्, तव भवतः मुखे आनने जनकवत् तव पितृवत् अत्यादित्यम् आदित्यमतिक्रान्तम् इति तादृशम् संभृतम् पुजीभूतम् तत् प्रसिद्धं तेजः प्रतापः भूयः पुनरपि भूर्यात् धृतं भूयात् / धारणार्थकस्य भुंग्क सप्तम्यां रूपम् भूर्यादिति / अथ पूर्वं भोजनाय प्रार्थयते - क्षामं कामं तव वपुरभूत् तत्र तीनै स्तपोभिभक्त्या क्लृप्तं प्रियतम ! मया भोजनं तत् कुरु प्राक् / दक्षा नाट्ये जितसुरवधूनर्तकीमर्दलानां, पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः / / 48 / / व्याख्या - हे प्रियतम ! तत्र गुरुसमीपे तीव्रः अतिकठोरैः तपोभिः कायक्लेशादिनियमैः तव भवतः वपुः शरीरम् कामम् अत्यन्तम् क्षामम् कृशम् अभूत्, तत् तस्मात् * प्राक् पूर्वं मया तव प्रियया कोशया भक्त्या श्रद्धया क्लृप्तं सम्पादितम् भोजनम् अशनम् कुरु विधेहि; पश्चात् भोजनान्तरम् मर्दलानाम् मृदङ्गानाम् अद्रिग्रहणगुरुभिः अद्रेः क्रीडापर्वतगुहायाः ग्रहणेन स्वान्तः पूरणेन गुरुभिः वृद्धिं गतैः गर्जितैः शब्दैः, नाट्ये नट-क्रियायाम् दक्षाः पट्वीः जितसुरवधूः जिताः रूपादिभिरधः कृताः सुरवध्वः देववनिताः याभिः ताः नर्तकीः नर्तनशिल्पिकाः नर्तयेथाः नर्तनाय प्रेरयेथाः | Page #47 -------------------------------------------------------------------------- ________________ . 40 शीलदूतम् (स्थुलभद्र चरित्रम्) पुण्यार्थमेव तपोऽभीष्टं तच्च पुण्यमन्यथापि सम्पाद्य मित्याह - पुण्याय त्वं स्पृहयसितरां तत् परं नोपकारात्, स स्यात् प्रायः प्रियवर ! सरस्कूपवापीविधानः ? / कुर्याः श्रेयः प्रतिदिनमिदं तद् गृहस्थोऽपि लुम्पन्, स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् / / 49 / / .. व्याख्या - त्वं भवान् पुण्याय श्रेयः साधनाय स्पृहयसितराम् अत्यन्तं स्पृहां करोषि, उपकारात् परोपकरणात् परं उत्कृष्टं तत् पुण्यं न नास्ति, हे प्रियवर ! स परोपकारः प्रायः बाहुल्येन सर-कूपवापीविधानैः सरसां कूपानां वापीनां च सम्पादनैः स्यात्, तत् तस्मात् गृहस्थः स्वगृहे स्थितः, गार्ड्स स्थ्यमनुतिष्ठन् अपि इदं परोपकाररूपं श्रेयः पुण्यं कल्याणं वा प्रतिदिनम् दिने दिने कुर्याः विधेयाः, (किम्भूतः सन्) स्रोतोमूर्त्या चर्मण्वतीनदीप्रवाहरूपेण भुवि पृथिव्याम् परिणताम् फलिताम् रन्तिदेवस्य एतन्नाम्नः पौराणिकस्य राज्ञः कीर्तिम् ख्यातिं लुम्पन् विलोपयन् / अस्य पित्रा कृतां कीर्ति श्रावयति - यं तातस्ते पुरहितकृतेऽकारयच्छिल्पिसारैः, प्राकारं तं स्फटिकघटितं नाथ ! पश्याभ्रलग्नम् / यं वीक्षन्ते दिवि दिविषदो नीलवेषायुतं श्रा गेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् / / 50 / / व्याख्या - ते तव तातः जनक शकटालो मन्त्री यं प्राकारम् शिल्पिसारैः शिल्पिनां गृहादिनिर्माणकुशलानां सारैः मुख्यैः पुरहितकृते नगररक्षार्थम् अकारयत् निरमापयत्, हे नाथ ! स्फटिकघटितम् स्फटिकेन तन्नामकमणिना घटितं Page #48 -------------------------------------------------------------------------- ________________ 41 . शीलदूतम् (स्थुलभद्र चरित्रम्) चितम् अभ्रलग्नम् मेघपर्यन्तोन्नतम् तम् उक्त रूपम् प्राकारम् प्राचीरं पश्य अवलोकय; नीलवेषायुतम् नीलया वेषया पण्यवीथ्या युतं सहितं यं प्राकारं दिविषदः दिवि स्वर्गे सीदन्ति निवसन्तीति ते देवाः दिवि आकाशे (स्थिताः सन्तः), स्थूलमध्येन्द्रनीलम् स्थूलः मध्यस्थितः इन्द्रनीलः तन्नामको नीलवर्णो मणिः यस्य तादृशम् भुवः पृथिव्याः एकम् मुक्तागुणम् मौक्तिकनिर्मितां मालाम् इव यथा श्राक् झटिति वीक्षन्ते अवलोकयन्ति / सम्प्रति तव तपो योग्याऽवस्था नेत्याह - कामो वामं रचयतितरां यौवने नाथ ! चित्तं, योगाभ्यासोद्यतमतिभृतां योगिनामप्यवश्यम् / अङ्गीकुर्या वयसि चरमे धर्मभेदानतः स्वं, पात्री कुर्वन् दशपुरवधूनेत्रकौतूहलानाम् / / 51 / / .. व्याख्या - . . हे नाथ ! स्वामिन् ! कामः कन्दर्पः योगाभ्यासोद्यतमतिभृतां योगाभ्यासाय समाधिसेवनाय उद्यतां तत्परां मतिं बिभ्रति इति योगाभ्यासोद्यतमतिभृतः तादृशानाम् योगिनाम् चित्तवृत्तिनिरोधकृताम् अपि चित्तम् अन्तःकरणम् यौवने तारुण्ये वामं योगाभ्यासप्रतिकूलं रचयतितराम् अत्यन्तं विदधाति, अतः अस्मात् कारणात् चरमे चतुर्थे वयसि वृद्धावस्थायाम् स्वम् आत्मानम् दशपुर-वधूनेत्रकौतूहलानाम् दशानां बह्वीनां पुरवधूनाम् पौरवनितानां नेत्राणां कौतूहलानाम् कौतुकानां पात्रीकुर्वन् विषयतां प्रापयन्, अन्यत्र दशपुरवधूनां जनपदविशेषवासिवनितानाम् इति व्याख्या धर्मभेदान् सुकृतविशेषान् अङ्गीकुर्याः आचरेः / / पुनर्मन्त्रित्वस्वीकारायैव प्ररोचयति - औदासीन्यं परिहर ततः साम्प्रतं कातराहे, निश्चिन्तं तं कुरु निजपति वैरिवारं विजित्य / ... Page #49 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) युद्धे किं न स्मरसि घनवद् वैरिणां ते पिता य द्वारापातै स्त्वमिव कमलान्यभ्यवर्षद् मुखानि ? / / 52 / / व्याख्या: - ततः तस्माद् हेतोः कातराहं कातरेषु भीरुषु अर्हति औचित्यं भजते इति तादृशम् औदासीन्यम् उदासीनो मध्यस्थः तस्य भावः औदासीन्यम्, उपेक्षां साम्प्रतम् अस्मिन् समये परिहर परित्यज्य, वैरिवारं वैरिणां शत्रूणां वारं समूहं (सङ्घाते प्रकरौधवारनिकर व्यूहाः० अभि० 6-47) विजित्य अभिभूय तं पूर्वोक्तं निजपतिं स्वस्वामिनं नन्दं निश्चिन्तम् शत्रुसमुद्भूत चिन्तारहितं कुरु विधेहि / त्वं भवान् किं न स्मरसि कुतो न चेतयसे यत् ते तव पिता जनकः युद्धे संग्रामे कमलानि पद्मानि इव यथा वैरिणां शत्रूणां मुखानि आननानि धारापातैः खड्गादिधारा प्रहारैः घनवत् मेघवत् अभ्यवर्षत् असिञ्चत् / तपोलभ्यानि सुकृतानि गार्हरर्थेऽपि सुभलानि बन्धुपालन यशश्च तत्राधिकमित्याह - सीदन्तं किं सदयहृदयोपेक्षसे बन्धुवर्ग, वाञ्छन् शुद्धिं त्वमिह विविधैर्दुस्तपै स्तै स्तपोभिः ? / दत्तैः पात्रे सततममले गेहिधर्म स्ववित्तैरन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः / / 53 / / व्याख्या - हे सदयहृदय ! दयया परदुःखापहरणेच्छया सहितं सदयम् तादृशं हृदयम् अन्तःकरणं यस्य तदामन्त्रणम्, विविधै, बहुप्रकारैः दुस्तपै दुःखेन तप्तुं योग्यैः तपोभिः मनोवाक् कायसंयमैः सिद्धिम् अणिमाद्यैश्वर्यप्राप्तिम् वाञ्छन् कामयमानः त्वम् स्थूलभद्रः इह लोके सीदन्तं त्वद् वियोगेन त्वत् प्रदत्तसंरक्षणालाभेन वा कष्टमनुभवन्तम् बन्धुवर्गम् बान्धवसमूहम् किम Page #50 -------------------------------------------------------------------------- ________________ 43 . शीलदूतम् (स्थुलभद्र चरित्रम्) कुतो हेतोः उपेक्षसे अवधीरयसि ? गेहिधर्मे गेहमस्य विद्यते इति गेही गृहस्थः तस्य धर्मे कर्तव्ये बन्धुरक्षादिरूपे (स्थितः) अमले निष्कलंके पात्रे दानोद्देश्ये सततं प्रतिदिनं दत्तैः वितीर्णैः स्ववित्तैः स्वोपार्जितद्रव्यैः अन्तः आत्मनि शुद्धः निर्मलः अपि त्वम वर्णमात्रेण शरीररूपमात्रेण कृष्णः मलिनः भविता स्थाता / स्वकीयं पूर्वभोगानुभवं स्मारयन्ती गङ्गोक्तिव्याजेन स्वाभिप्रायमाह रन्त्वाऽऽवाभ्यां चिरमुपवने जातगात्रश्रमाभ्यां, सस्ने यत्र प्रिय ! कलजला स्वधुंनी भाति सेयम् / मुक्त्वा मां.किं भ्रमसि भुवि येतीव फेनैर्हसन्ती, शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता / / 54 / / व्याख्या - . हे प्रिय ! चिरम् बहुकालपर्यन्तम् उपवने क्रीडोद्याने रन्त्वा सुरतादिक्रीडामनुभूय जातगात्रश्रमाभ्याम् जातः उत्पन्नः गात्राणां श्रमः शैथिल्यं ययो स्तथाभूताभ्याम् आवाभ्याम् मया त्वया च यत्र यस्यां गङ्गायां सस्ने स्नानं विहितं, कलजला कलम् अव्यक्तमधुरशब्दयुक्तं जलं तोयं यस्याः तादृशी सा इयम् प्रत्यक्षदृश्यमाना स्वर्धनी देवनदी गङ्गा भाति शोभते / या गङ्गा ‘मां गङ्गां मुक्त्वा विहाय भुवि पृथिव्याम् इतस्ततः किं भ्रमसि कुतश्चरसि' इति एवम् (सूचनाय) फेनैः प्रसिद्धैः श्वेतद्रव्यैः (कृत्वा) हसन्ती उपहासं प्रकटयन्ती इव इन्दुलग्नोर्मिहस्ता इन्दुलग्नाः चन्द्रपर्यन्तं प्रसृताः ऊर्मयः तरङ्गा एव हस्तौ करौ यस्याः तादृशी सती शम्भोः शिवस्य केशग्रहणम् कचाकर्षणम् अकरोत् पूर्वं कृतवती। गङ्गाविहारार्थं प्ररोचयति - अस्यां शस्याशय ! यदि भवान् नीरकेलिं प्रकुर्याद, युक्तस्ताभिः प्रिय ! सह मया मद्वयस्याभिराभिः / . Page #51 -------------------------------------------------------------------------- ________________ 44 शीलदूतम् (स्थुलभद्र चरित्रम्) * धौतैरासां मृगमदभरैः कज्जलैर्वा तदेषा, स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा / / 55 / / व्याख्या - हे शस्याशय ! शस्यः प्रशंसनीय आशयः हृदयाभिप्रायो यस्य तदामन्त्रणम् भवान् स्थूलभद्रः ताभिः पूर्वानुभूताभिः आभिः सम्प्रत्यपि तव समक्षं स्थिताभिः मद्वयस्याभिः मम सहचरीभिः सह मिलितय मया कोशया युक्तः मिलितः सन् यदि चेत् अस्यां गङ्गायाम् नीरकेलिं जलविहारं प्रकुर्यात् विदध्यात् तद् तर्हि एषा गङ्गा आसाम् मत्सहितानां मम सहचरीणाम् धौतैः क्षालितैः मृगमदभरैः स्तनादिस्थितैः कस्तूरिकासमूहैः कज्जलैः नेत्रस्थितैरञ्जनैः वा (युक्ता) अस्थानोपगतयमुनासङ्गमा इव अस्थाने प्रयागातिरिक्ते देशे उपगतः प्राप्तः यमुनया कालिन्दया सह सङ्गमः सन्निधानं यया सा इव अभिरामा मनोहरा स्यात् भवेत् / जलक्रीडाकालिकं विशेषमाह - क्रीडां तत्र त्वयि रचयति प्रीतचित्ते नितान्तं, स्वर्णोच्छृङ्गीनिहितसलिलक्षेपणाद्यैर्विनोदैः / रोधः क्षुण्णं तव हयखुरैर्लप्स्यते नाथ ! तस्याः, शोभा शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् / / 56 / / व्याख्या - तत्र गङ्गायाम् नितान्तम् अत्यन्तम् प्रीतचित्ते प्रसन्न मनसि त्वयि भवति स्वर्णोच्छृङ्गीनिहितसलिलक्षेपाणाद्यैः स्वर्णस्य कनकनिर्मिता या उच्छृङ्गी श्रृङ्गाकारातोयक्षेपणी तस्यां निहितस्य स्थापितस्य सलिलस्य जलस्य क्षेपणं स्त्रीणामुपरि प्रक्षेपणम् आद्यं प्रथमं यत्र तादृशैः विनोदैः मनोरज्जनैः क्रीडां जलकेलिं रचयति विदधति (सति) हे नाथ ! तव भवतः हयखुरैः अश्वपादाङ्गः क्षुण्णं मर्दितं तस्याः गङ्गायाः रोधः तटम् Page #52 -------------------------------------------------------------------------- ________________ 45 शीलदूतम् (स्थुलभद्र चरित्रम्) शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् शुभ्रेण श्वेतेन त्रिनयनस्य शिवस्य वृषेण - वृषभेण उत्खातेन उत्पाटितेन पङ्केन कर्दमेन उपमेयाम् उपमातुं योग्याम् शोभाम् कान्तिं लप्स्यते प्राप्स्यति / / | युक्त्यन्तरेण पुनरपि गृहस्थितये प्रेरयति - . धर्मेष्वाद्यामिह खलु दयामादिदेवो जगाद, प्रोज्झनेतां निजपरिजने वेत्सि धर्मं न सम्यक् / सीदन्तं तन्निजजनममुं पालय स्वार्जितैः स्वै रापन्नार्तिप्रशमनफला: संपदो पुत्तमानाम् / / 57 / / व्याख्या - इह संसारे आदिदेवः (अस्यामवसर्पिण्यां) प्रथमतीर्थंकरः श्रीऋषभदेवः धर्मेषु सर्वेषु सुकृतेषु आद्यां प्रथमां प्रधानो वा दयां भूतकरुणां जगाद प्रोवाच / निजपरिजने स्वानुजीविवर्गे एतां दया प्रोज्झन् त्यजन् (त्वम्) धर्मं सुकृतम् सम्यक् समीचीनरूपेण न वेत्सि नैव जानासि / तत् तस्मात् कारणात् सीदन्तम् दुःस्थितं निजजनं स्वानुजीविजनं स्वार्जितैः निजोत्पादितैः .. स्वैः वित्तैः पालय रक्षय, हियतः उत्तमानां महतां जनानां सम्पदः धनानि आपन्नार्तिप्रशमनफलाः आपन्नानां आपत्पतितानां आतेः पीडायाः प्रशमनं नाशनमेव फलं यासां तथा भूतः भवन्तीति शेषः / / न केवलं निजपरिजनरक्षार्थमेव, अपि तु स्वपितृसुहृदामपि हिताय मन्त्रित्वं स्वीकरणीयमेव भवतेत्याह - आसाद्येदं निजपितृपदं पालपियष्यत्यसौ नो, नूनं चित्ते सचिवसुहृदो ये विचार्येति तस्थुः / प्राप्ते दीक्षां भवति बत ! तानाक्रमिष्यन्त्यमित्राः, . के वा न स्युः परिभवपदं निष्फलारम्भयत्ना: ? / / 58 / / Page #53 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - ये अनाख्येयनामानः सचिवसुहृदः सचिवस्य मन्त्रिणः (तव पितुः) सुहृदः मित्राणि - हितचिन्तकाः असौ स्थूलभद्रः इदं सम्प्रति तस्य पित्रा अधिष्ठीयमानं निजपितृपदं निजस्य पितुः शकटालमन्त्रिणः पदम् स्थानम् आसाद्य प्राप्य नः अस्मान् नूनं निश्चितं पालयिष्यति रक्षिष्यति इति एवं चित्ते स्वहृदये विचार्य निश्चित्य तस्थुः तव पितुः हितचिन्तने एव. स्थिता बभुवः, भवति त्वयि दीक्षां चारित्रं प्राप्ते याते सति तान् सचिवसुहृदः अमित्राः शत्रवः (तव पितृवैरिणः) आक्रमिष्यन्ति अभिभविष्यन्ति बत ! इति खेद, एतच्चार्थान्तरन्यासालकारेण समर्थयति - वा अथवा निष्फलारम्भयत्नाः निष्फलः परिणामे विपरीतः आरम्भस्य क्रियायाः यत्नः येषां तादृशाः के . जनाः परिभवपदं परिभवस्य परकृतानिष्टस्य पदं स्थानं न स्युः न भवेयुः, अपि तु भवेयुरेवेति काकुः / मुक्तये व्रतमेव न कारणं, व्रतिनोऽपि पतन्ति गृहस्था अपि . मुच्यन्ते इत्याह - मा जानीष्व त्वमिति मतिमन् ! यद् व्रतेनैव मुक्तिलेभे श्वभ्रं व्रतमपि चिरं कण्डरीकः प्रपाल्य / गार्हस्थ्येऽपि प्रिय ! भरतवद्वीतरागादिदोषाः, संकल्पन्ते स्थिरगुणपदप्राप्तये श्रद्दधानाः / / 59 / / व्याख्या - हे मतिमन् ? बुद्धिमन् ! त्वम् स्थूलभद्रः इति वक्ष्य माणं मा नहि जानीष्व अवधारय यद् व्रतेन मुनिकृत नियमेन एव केवलं मुक्तिः मोक्षः भवति इति शेषः (यतः) कण्डरीकः एतन्नामा मुनिः चिरं बहुकालं व्रतं मुनिनियमं प्रपाल्य अनुष्ठाय अपि श्वभ्रं नरकं लेभे प्राप्तवान्, (तथा) हे प्रिय ! वीतरागादिदोषाः वीता अपगताः रागादयः आदौ येषां ते राग-द्वेष Page #54 -------------------------------------------------------------------------- ________________ 47 . शीलदूतम् (स्थुलभद्र चरित्रम्) क्रोध-लोभ-काम-मात्सर्यादयः दोषाः चित्तविकारा येषां तादृशाः श्रद्दधाना श्रृद्धावन्तो जनाः गार्हस्थ्ये गृहस्थजीवने सन्तः अपि भरतवत् सुप्रसिद्ध भरतवत् स्थिरगुण पदप्राप्तये स्थिराः निश्चला गुणाः शमादयो यत्र तादृशं यत्पदं कैवल्यं तस्य प्राप्तये लाभाय सङ्कल्पन्ते समर्था भवन्ति / सङ्गीतविनोदाय प्रेरयति - क्रीडाशैलं प्रिय ! भज निजं तं विनोदाय यस्मिन्, शब्दायन्ते मधुरमनिशं कीचका वायुयोगात् / नादज्ञस्याऽलमिव तव सत्किन्नरीगीतनृत्यैः, सङ्गीतार्थो ननु पशुपते स्तत्र भावी समग्रः / / 60 / / व्याख्या - ___ हे प्रिय ! तं प्रसिद्धं निजं स्वीयं क्रीडाशैलं क्रीडार्थं निर्मितं पर्वतं विनोदाय आनन्दाय भज आश्रय, यस्मिन् पर्वते कीचकाः सच्छिद्रवंशाः वायुयोगात् अनलस्य छिद्रे प्रवेशात् अनिशं सर्वदा मधुरं प्रियं यथा स्यात् तथा शब्दायन्ते शब्दं कुर्वन्ति, तत्र तस्मिन् पर्वते सत्किन्नरीगीतनृत्यैः सतीनां सुन्दरीणां किम्पुरुषः स्त्रीणां गीतनृत्यैः गीतेन सह नर्त्तनैः पशुपतेः शिवस्य इव यथा नादज्ञस्य नादविषयविशेषज्ञस्य तव भवतः समग्रः सर्वाङ्गपूर्णः सङ्गीतार्थः तौर्यत्रिकप्रयोजनम् अलं कात्स्न्येन भावी भविष्यति ननु निश्चयेन / पूर्वोक्तं क्रीडाशैलं पुनर्विशिनष्टिः - हित्वा स्वाद्रिं जिनपतिमहाचैत्यपूते प्रभूते, स्त्रीभिः सार्धं विबुधनिचया यत्र खेलन्ति नाथ ? / तिर्यग्व्याप्यञ्जनगिरिरिवाभ्रं गतो भ्राजते यः, श्यामः पादो बलिनियमनाऽभ्युद्यतस्येव विष्णोः / / 61 / / Page #55 -------------------------------------------------------------------------- ________________ 48 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - हे नाथ ! स्वामिन् ! जिनपतिमहाचैत्यपूते जिनपतीनां जिनेश्वराणां तीर्थंकराणां महाचैत्यैः बृहद्भिर्मन्दिरैः पूते पवित्रीकृते प्रभूते अतिशयशालिनि यत्र क्रीडाशैले विबुधनिचयाः देववृन्दाः स्वाद्रिं स्वावासभूतं पर्वतं सुमेरुं हित्वा परित्यज्य स्त्रीभिः वनिताभिः सार्धं समं खेलन्ति विहरन्ति, तिर्यग्व्यापी तिर्यग् निरश्चीनरूपेण व्याप्नोति अभिव्याप्य तिष्ठति तच्छीलः अभंगतः मेघपर्यन्तं प्राप्तः अञ्जनगिरिः तन्नामकपर्वतइ व यः क्रीडाशैलः बलिनियमनाऽभ्युद्यतस्य बलेः तन्नाम्नो दानवराजस्य निमयनाय संयमनाय अभ्युद्यतस्य तत्परस्य विष्णोः वामनावतारिणो हरेः श्यामः कृष्णवर्णः पादः चरण इव भ्राजते शोभते / / यदि मदीयावास समीपस्थे क्रीडासैले न रुचिस्तर्हि पर्वतीये पित्र्ये प्रासादे वसेत्याह - शैले लीलागृहमिह महत् कारितं तेऽस्ति पित्रा, तस्मिन् वासं कुरू वर ? चिरं चेदतिर्नो तवाऽत्र / श्वेतज्योतिः स्फटिकमणिभिर्निमितं भ्राजते य द्राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहास: / / 62 / / व्याख्या - हे वर ! वियते प्रियत्वेन स्वीक्रियते इति वरः तदामन्त्रणम्, चेत् यदि अत्र मदागारसन्निकटे क्रीडाशैले तव भवतः रतिः रुचिः न नास्ति (तर्हि) इह एतत्समीपस्थे ते तव पित्रा जनकेन मन्त्रिणा शकटालेन शैले पर्वतोपरि महत् सुविशालम् लीलागृहम् विनोदभवनम् कारितं निर्मापितम् अस्ति विद्यते तस्मिन् गृहे चिरं बहुकालं व्याप्य वासं स्थितिं कुरु विधेहि / स्फटिक्रमणिभिः स्वनामख्यातरत्नैः निर्मितम् रचितं श्वेतज्योतिः शुक्लप्रकाशं यद् गृहं, प्रतिदिनं दिने दिने राशीभूतः एकत्रितः त्र्यम्बकस्य त्रीणि Page #56 -------------------------------------------------------------------------- ________________ 49 . शीलदूतम् (स्थुलभद्र चरित्रम्) अम्बकानि नेत्राणि यस्य स त्र्यम्बकः शिवः तस्य अट्टहासः अति महान हासः अट्टहासः (अट्टहासो महीयसिः, अभि० 2-211, मृडोऽट्टहासिन् इत्यादिः अभि० 2.111) शिवस्य हासः प्रसिद्धः स इव यथा भ्राजते शोभते / ____ कविसम्प्रदाये हासस्य श्वेतं रूपं प्रसिद्धम्, शिवश्चा ट्टहासी ख्यातः, तदीयाट्टहासस्य राशिरिवेदं भवनं प्रतीयते इत्युत्प्रेक्षालङ्कारः || तद्भवनगवाक्षसमीपे स्थितस्यास्य भाविनी शोभा वर्णयति - त्वय्यारूढे रजतरचितं सारमुच्चैर्गवाक्षं, देहच्छायाजितहरिरुचौ चारु कृत्वा विनोदान् / पश्यत्वेष प्रिय ? परिजनः साधु सोधस्य शोभा - मंसन्यस्ते सति हलभृतो मेचके वाससीव / / 63 / / व्याख्या .. ... हे प्रिय ! देहच्छायाजितहरिरुचौ देहस्य शरीरस्य छायया कान्त्या जिता हरेः विष्णोः रुचिः कान्तिः येन तादृशे त्वयि स्थूलभद्रे चाह सम्यक् विनोदान् विहारान् कृत्वा विधाय रजतरचितम् रजते चन्द्र द्रव्येण रचितं निर्मितम् सारम् दृढम् उच्चैः प्रोन्नतं गवाक्षं वातायनम् आरूढे अधिष्ठिते (सति) एष त्वत्सन्निहितः परिजन सेवकवर्गः मेचके नीले वाससि वस्त्रे अंशन्यस्ते स्कन्धोपरिस्थापिते सति विद्यमाने हलभृतः बालरामस्य इव यथा शोभा कान्तिं पश्यतु अवलोकयतु / / तत्रत्यं कर्तव्यमाह - तस्मिन्नद्रौ भवभयहरं नाभिजन्मानमीशं, .. नत्वा देवं तदनु सुभगाऽऽलोकयेः कौतुकानि / Page #57 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) अ यान्त्या मे भवदनु पुनवर्त्म कुर्वन् सुगम्यं, सोपानत्वं कुरुमणितटारोहणायाग्रयायी / / 64 / / व्याख्या - __ हे सुभग ! अस्मिन् पूर्वोक्ते अद्रौ पर्वते भवभयहर सांसारिकभीतिनिवारकं देवं नाभिजन्मानम् नाभेः विष्णुनाभिकमलाञ्जन्म यस्यासौ नाभिजन्मा ब्रह्मा तम् अथ च नाभे स्तन्नाम्नो राज्ञो जन्म यस्य तं नाभेयं आद्यं जिनविशेषम् ईशम् ऐश्वर्यशालिनं नत्वा प्रणम्य तदनु प्रणामानन्तरम् कौतुकानि तत्रत्याद्भुतानि आलोकयेः पश्येः / पुन तत्पश्चात् भवदनु भवतः पश्चाद् आयान्त्याः आगच्छन्त्याः मे मम कोशायाः सुगम्यम् सुखेन गन्तुं योग्यं वर्त्म मार्गम् कुर्वन् विदधत् अग्रयायी अग्रे यातुं शीलमस्येति तथाभूतः मणितटारोहणाय तस्यैव पर्वतस्य मणिभि विहिते तटे प्रान्तभांगे आरोहणाय उपरिगमनाय सोपानत्वं निःश्रेणिकाभावं कुरु विधेहि / / तत्रत्यमेव विशेषं वर्णयति - शृङ्गे तस्मिन् नयनसुभगं चारुरूपा यदि त्वां,... विद्याधर्यः स्मरविधुरिताः प्रार्थयेयुर्निरीक्ष्य / / अक्षोभ्यस्त्वं सुरयुवतिभि नाथ ! धिक्कारवाचां, क्रीडालोला: श्रवणपरुषैर्जितैर्भाययेस्ताः / / 65 / / / व्याख्या - हे नाथ ! स्वामिन् ! तस्मिन् मणिनिर्मिते शृङ्गे पर्वत शिखरे चारुरूपाः चारु मनोहरं रूपं यासां ताः स्मरविधुरिताः स्मरेण कामेन विधुरिताः पीडिताः विद्याधर्यः विद्याधरदेवजातिवनिताः नयनसुभगं नयनयोः नेत्रयोः कृते सुभगं सुन्दरं त्वां स्थूलभद्रं निरीक्ष्य समवलोक्य प्रार्थयेयुः रत्यर्थं प्रेरयेयुः तर्हि सुरयुवतिभिः देवतरुणिभिः Page #58 -------------------------------------------------------------------------- ________________ 51 . शीलदूतम् (स्थुलभद्र चरित्रम्) (अपि) अक्षोभ्यः चारित्रादविचालनीयः त्वम् धिक्कारवाचां तिरस्कारवचसां श्रवणपरुषैः कर्णकटुभिः गर्जितैः उच्चै र्वचनैः क्रीडालोला लीलाव्यग्राः ताः विद्याधरांः भायये भीताः कुर्याः / / पुन स्तत्रत्य विहारप्रकारमेव वर्णयति - आरामेषु प्रिय ! विरचयं स्तत्र पुष्पावचायं, श्रान्तो भ्रान्त्या सुभग ! विदधद् दीर्घिकास्वम्बुकेलिम् / वादित्राणां मधुरनिनदैर्नर्तयन् केकिवृन्दं, नानाचेष्टैर्जलदललितै निर्विशेस्तं नगेन्द्रम् / / 66 / / . व्याख्या - हे प्रिय ! हे सुभग ! तत्र पितुः पर्वतीयावासे आरामेषु उपवनेषु पुष्पावचायम् पुष्पाणां हस्तप्राप्याणां क्षुद्रवृक्षकुसुमानाम् अवचायम् अवचनम् (हस्तप्राप्ये चेरस्तैये [५-३-७८ट इति घञि) अवचायः तं संग्रहं विरचयम् विदधत् भ्रान्त्या भ्रमणेन बहुकालं पादविहारेण श्रान्तः श्रमं प्राप्तः दीर्घिकासु वापीसु अम्बुकेलिं जलक्रीडां विदधत् कुर्वन्, वादित्राणां मृदङ्गादिवाद्यानाम् मधुरनिनदैः मधुरैः शब्दैः केकिवृन्दं मयूर समूहं नर्तयन् नृत्यं कारयन् नानाचेष्टैः नानाबहुविधाः चेष्टाः क्रिया यस्मिंस्तथाभूतैः जलदललितैः जलदवत् मेघवत् ललितैः क्रीडितैः तं पूर्वोक्तम् नगेन्द्रम् पर्वत श्रेष्ठं निर्विशेः उपभुजैः / / पर्वते कतिचिद्दिन्यान्यतिवाह्य पुनरपि पाटलिपुत्रमेवागच्छेरित्याह आगच्छेः स्वां पुनरपि पुरं नाथ ! नीत्वा दिनानि, क्रीडाशैले कतिचिदसमां दर्शयन् स्वश्रियं ताम् / यत्राभ्राप्तैर्वहति बहुलै धूपधूमैः सदा द्यौमुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् / / 67 / / Page #59 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - हे नाथ ! असमाम् नास्ति समा तुल्या श्री यस्याः ताम् अद्वितीयाम् तां प्रसिद्धाम् स्वश्रियम् स्वसम्पदम् दर्शयन् प्रकृटीकुर्वन्, क्रीडाशैले पितृसम्बन्धिनि लीलापर्वते कतिचित् गणितानि दिनानि दिवसान् नीत्वा अतिवाह्य पुनरपि भूयोऽपि स्वां स्वकीयां पुरम् नगरीम् पाटलिपुत्रम् आगच्छेः परावर्त्तथाः, यत्र पुरि द्यौः आकाशः अभ्राप्तैः मेघपर्यन्तं गतैः बहुलैंः घनीभूतैः धूपधूमैः धूपार्थं निमित्तै बूं मैः कामिनी काचिद्वनिता मुक्ताजालग्रथितम् मौक्तिकसमूहगुम्फितम् अलकं केशपाशम् इव यथा अभ्रवृन्दम् मेघसमूह सदा वर्षातिरिक्तेऽपि सर्वस्मिन् समये वहति धारयति / / / पुरी विशिनष्टि - स्निग्धच्छायं बहुलविमलच्छायया शालमाना, नित्यामोदाः प्रविततमुदं भूरिवित्ता: सुवित्तम् / रत्नज्योति विधुततमसो नाथ ! निर्धूतपापं, प्रासादास्त्वां तुलयितुमलं यत्र तैस्तै विशेषैः / / 68 / / . व्याख्या - हे नाथ ! स्वामिन् ! यत्र पाटलिपुत्रनगर्यां बहुलविमलच्छायया बहुलया प्रभूतया विमलया निर्मलया छायया कान्त्या शालमानाः शोभमानाः, नित्यामोदाः नित्यं प्रतिदिनम् आमोदः उत्सवानन्दः येषु ते, भूरिवित्ताः भूरि बहुतरं वित्तं धनं येषु ते, रत्नज्योतिर्विद्युततमसः रत्नानां मणीनां ज्योतिर्भिः प्रकाशैः विधुतं दूरीकृतं तमः अन्धकारो यैस्ते, प्रासादाः सौधाः, स्निग्धच्छायं स्निग्धा मनोहरा छाया कान्ति र्यस्य तम्, प्रविततमुदं प्रवितता सुविस्तृता मुद् हर्षो यस्य तम्, सुवित्तम् सुष्ठु शोभनं वित्त धनं यस्य तम्, निर्धूतपापं निर्धूतं निःशेषेण दूरीभूतं. पापं कल्मषं यस्य तं त्वां भवन्तं तैस्तैः पूर्वोक्तैः विशेषैः व्यावर्तकगुणैः तुलयितुं समतां कर्तुम् अलं समर्थाः सन्ति / Page #60 -------------------------------------------------------------------------- ________________ 53 . शीलदूतम् (स्थुलभद्र चरित्रम्) अत्रत्यानां वधूनां विशेषमाह - अर्हद्भक्तिर्वसति हृदये तारहारेण साकं, मूर्तो कान्तिः स्फुरति च सदा शीलधर्मेण सार्द्धम् / चित्ते सातं घनसमयजं विद्यते साम्प्रतं सत्, सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् / / 69 / / व्याख्या यत्र पाटलिपुत्रे वधूनाम्, स्त्रीणां (स्त्री नारी वनिता वधूः [अभिधान० 3, 167] हृदये अन्तः करणे हृदयप्रदेशोपरि च तारहारेण तारेण उज्ज्वलेन हारेण मौक्तिकमालया साकं सह अर्हद्भक्तिः अर्हतां जिनानां भक्तिः श्रद्धा वसति स्थितिं करोति, (वधूनां) मूर्ती स्वरूपे शीलधर्मेण शीलरूपेण धर्मेण सार्द्ध सह कान्तिः शोभा सदा सर्वदा स्फुरति प्रतिभासते, (वधूनां) चित्ते मनसि साम्प्रतं सद्यः त्वदुपगमजं भवत्सम्पर्कसम्भूतं सत् सुन्दरं सातं सुखं विद्यते (वधूनां) सीमन्ते केशपाशे च घनसमयजं वर्षाकालोत्पन्नं नीपं कदम्बकुसुमं विद्यते / / पुनरपि पुरीमेव विशिनष्टि - गङ्गागौरा: सितकरहयाकारचौरास्तुरङ्गाः, ... शृङ्गोत्तुङ्गा ललितगतयो दानवन्तो गजेन्द्राः / 'लीलावत्योऽखिलयुवतयो यत्र वीरावतंसाः, . प्रत्यादिष्टाभरणरुचयश्चन्द्रहासत्रणाकैः / / 70 / / व्याख्या - यत्र पाटलिपुत्रे गङ्गागौराः गङ्गावत् गङ्गाजलप्रवाहवत् गौराः श्वेतवर्णाः तुरङ्गा सितकरहयाकारचौराः सितकरस्य श्वेतकिरणस्य सूर्यस्य हयानाम् अश्वानामाकरं स्वरूपं चोरयन्ति लुम्पन्ति इति तादृशाः (सन्ति) Page #61 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) यद्यपि सूर्यस्य हयाः हरितवर्णाः सन्तीति पुराण प्रसिद्धिः तथापीह तेषां न वर्णेन सादृश्यमपि तु आकार महत्त्वादिनेति विज्ञेयम्], शृङ्गोतुङ्गा शृङ्गवत् पर्वत शिखरवत् उत्तुङ्गा उन्नताः (शृङ्गं तु कूटं शिखरम्०' अभि० 498) गजेन्द्राः महागजाः ललितगतयः सलील गमनाः दानवन्तः मदशालिनः (सन्ति) अखिलयुवतयः सर्वास्तरुण्यः लीलावत्यः कामक्रीडाचतुराः (सन्ति) वीरोत्तंसाः वीरा उत्तंसा इव भूषणानीव इति वीरोत्तंसाः श्रेष्ठवीरा चन्द्रहासव्रणाकैः चन्द्रहासेन खड्गेन ये व्रणाः आघाताः तेषा मकैः चिह्नभूतैः किणैः प्रत्यादिष्टाभरणरुचयः प्रत्यादिष्टा प्रत्याख्याता आभरणानां भूषणानां रुचयः कान्तयो यै स्तथा भूताः (सन्ति) / तामेव पुरीं पुनरपि विशिनष्टि - स्नेहादन्यद् न भवति परं बन्धनं यत्र किञ्चिचिन्ता काचिन भवति परा यत्र धर्मं विहाय / कश्चिद् यस्मिन् न भवति परो राजहंसात् सरोगो वित्तेशानां न च खलु वयो यौवनादन्यदस्ति / / 71 / / व्याख्या - यत्र पाटलिपुत्रे स्नेहाद् परस्परं प्रेम्णः अन्यद् भिन्नं परं दृढं बन्धनं गतिनिवारकं न भवति नास्ति, (यत्र) धर्मं अभ्युदयनिःश्रेयससाधनं सुकृतं विहाय परित्यज्य परा अन्या चिन्ता न भवति, यस्मिन् पाटलिपुत्रे राजहंसात् मरालात् परः अन्यः सरोगः रोगेण सहितः न भवति राजहंस एव सरोग शब्देनोच्यते नान्यः तस्य सरसि गच्छतीत्यर्थक सरोगशब्द वाच्यत्वात् / अन्ये केचन सरोगशब्देन रोगसहितार्थवाचकेन नाभिधीयन्ते / श्लेषोऽलङ्कारः / (यत्र) वित्तेशानाम् धनिकानां जनानां च यौवनाद् तारुण्याद् अन्यत् परं वार्द्धक्यम् वयः शरीरावस्था न अस्ति भवति / धनिकाः सर्वे रसायनाधुपयोगेन यौवनमेवानुभवन्ति न वार्द्धक्यमिति भावः / Page #62 -------------------------------------------------------------------------- ________________ 55 - शीलदूतम् (स्थुलभद्र चरित्रम्) भूयः पुरीमेव वर्णयति - वेणीदण्डो जयति भुजगान् मध्यदेशो भृगेन्द्रान् यासामास्यं प्रिय ! परिभवत्युच्चकैश्चन्द्रबिम्बम् / चैत्ये नृत्यन्त्यतुलमसकृद् यत्र वाराङ्गनास्तास्त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु / / 72 / / व्याख्या - हे प्रिय ! यासाम् वाराङ्गनानाम् वेणीदण्डः वेणी केशजूटिका एव दण्डः दण्डाकारं लम्बायमाना केशजूटिकेति यावत् भुजगान् सर्पान् जयति परिभवति यथा सर्पा जनान् भीषयन्ति तथैव ततोऽप्यधिकं वा वेश्यानां वेणीदण्डं दृष्ट्वा जनाः कामभीता भवन्तीति आकारतोऽपि साम्यात् सर्पजयिन स्ते कथ्यन्ते, मध्यदेशः कटिप्रदेशः मृगेन्द्रान् सिंहान् जयति, सिंहाः कटिप्रदेशे क्षीणा भवन्ति ततोऽप्यधिकं क्षीणकट्यस्ता इति भावः, आस्यं मुखं चन्द्रबिम्बम् शशिमण्डलम् उच्चकैः अत्यन्तम् परिभवति जयति ताः पूर्वोक्तरूपाः वाराङ्गना वेशयोषितः यत्र पाटलिपुत्रे त्वद्गम्भीरध्वनिषु तवेव गम्भीरः ध्वनिः येषां तादृशेषु पुष्करेषु मृदङ्गेषु शनकैः मन्दम् आहतेषु ताडितेषु चैत्ये देवमन्दिरे असकृत् वारंवारम् अतुलम् अनुपमं यथा स्यात् तथा नृत्यन्ति / नर्तनं कुर्वन्ति / नगर्या अभिसारिका वृत्तान्तं सूचयति - मालास्त्रस्तै विविधकुसुमैः कुङ्कुमाक्तांहिचिह्नस्ताम्बूलेन क्षितितलगतेनार्द्धजग्धेन यत्र / हेमाम्भोजैः श्रवणपतितै भूषितैर्भूरिवासैनैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् / / 73 / / . Page #63 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - यत्र पाटलिपुत्रे कामिनीनां विलासिनीनाम् नैशः निशाया अयं नैशः रात्रि सम्बन्धी मार्गः अभिसारमार्ग इति यावत्, सवितुः सूर्यस्य उदये सति मालास्त्रस्तैः शिरः प्रदेशादिनिहित माल्यात् परिभ्रष्टैः विविधकुसुमैः बहुविधपुष्पैः, कुङ्कुमाक्तांह्निचिनैः कुकुमाक्तानाम् कुङ्कुमरजितानाम् अंह्रीणां चरणानां चिनैः लाञ्छनै: क्षितितलगतेन भूमि पृष्ठस्थितेन अर्धजग्धेन अर्धभुक्तावशिष्टेन ताम्बूलेन चूर्ण खदिरादिपूरितनागरवल्लीदलवीटिकया ('ताम्मूलं-पूगपर्णचूर्णसंयोगः' इत्यभिधा० चिन्ता० 4-221) श्रवणपतितैः कर्णाच्चुतैः हेमाम्भोजैः कनककमलैः, भूषितैः इत्यर्थं सज्जितैः भूरिवासैः बहुतरावास प्रदेशैश्च सूच्यते अनुमीयते / . पुरीबैभववर्णनाय कामिवृत्तान्तमाह - यत्र स्त्रीणां प्रणयिषु हठादाक्षिपत्सु क्षपायां, क्षौमं साक्षाद् मनसिजपराधीनतामागतेषु / नित्योद्योतानपि मणिमयान् प्राप्य दीप्रान् प्रदीपान्, हीमूढानां भवति विफलप्रेरितश्चूर्णमुष्टिः / / 74 / / व्याख्या - यत्र पाटलिपुत्रे क्षपायाम् रात्रौ मनसिजपराधीनताम् मनसिजस्य कामस्य पराधीनताम् आयत्तताम् आगतेषु प्राप्तेषु प्रणयिषु प्रियतमेषु साक्षात् शरीराव्यवहितं क्षौमं वस्त्रविशेषम् हठात् बलपूर्वकम् आक्षिपत्सु अपनयत्सु (सत्सु) ह्रीमूढानाम् लज्जया कर्तव्यविषये विमुग्धानाम् स्त्रीणां कामिनीनाम् नित्योद्योतान् सततप्रकाशान् मणिमयान् रत्नरचितान् दीप्रान् ज्वलतः प्रदीपान् प्रकृष्टदीपान् प्राप्य गत्वा अपि चूर्णमुष्टिः सुगन्धिद्रव्यपरागमुष्टिः विफलप्रेरितः विफलं निरर्थकमेव प्रेरितः क्षिप्तः यथास्यात् तथा भवति जायते / Page #64 -------------------------------------------------------------------------- ________________ 57 . शीलदूतम् (स्थुलभद्र चरित्रम्) अपरं च विशेषमाह - पाटलिपुत्रस्य - यस्यां लोका विमलमनसः पूर्णकामाभिरामा, रामाः कामं ललितगमना: कामनारीसमानाः / वृक्षाः साक्षादतुलफलदाः कल्पवृक्षोपमेया, नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्या: प्रदोषाः / / 75 / / व्याख्या - यस्यां पाटलिपुत्रनगर्यां लोकाः पुरुषाः सर्वे विमलमनस निर्मलहृदयाः पूर्णकामाभिरामाः पूर्णकामाः प्राप्तसकलमनोरथाः अभिरामाः सुरूपाश्च (सन्ति) रामाः रमयन्तीति रामाः स्त्रियः कामम् अत्यन्तं ललितगमनाः सलीलगतिशालिन्यः कामनारीसमानाः कामस्य कन्दर्पस्य नार्याः स्त्रिया - रत्या समानाः सदृश्यः (सन्ति) वृक्षाः तरवः अतुलफलदाः अनुपमफलप्रदायिनः (अत एव) साक्षात् अव्यवहितरूपेण कल्पवृक्षोपमेया कल्पवृक्षैः मनः सङ्कल्पितफलदानसमर्थैः देवतरुभिः उपमेयाः उपमातुं योग्याः (सन्ति) प्रदोषाः रजनीमुखानि नित्यज्योत्स्ना प्रतिहततमोवृत्तिरम्याः नित्यज्योत्स्नाभिः सततप्रकाशैः मणिरत्नादिकृतैः प्रतिहतया निवारितया तमोवृत्त्या अन्धकारव्यापारेण हेतुना रम्याः मनोहराः भवन्ति / पुनः पुरीमेव विशेषयति - यस्यामन्तः सुकृतरसिकाः पात्रदानप्रवीणा, एनोहीना विततविलसत् कीर्तयः सन्ति सन्तः / वारस्त्रीभिः सह सुमुदिताः काममग्नाश्च कामं, ___ बद्ध्वा यानं वहिरुपवनं कामिनो निर्विशन्ति / / 76 / / व्याख्या - यस्यां पुरि अन्तःसुकृतरसिकाः अन्तःसुकृतस्य आध्यात्मिक पुण्यस्य Page #65 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) अथवा प्रकटधर्मस्य रसिकाः अनुरागिणः पात्रदानप्रवीणाः पात्रेषु सत्पात्रेषु यद् दानं वितरणं तत्र प्रवीणाः निपुणाः, एनोहीनाः एनोभिः पापैः हीनाः रहिता विततविलसत्कीर्तयः वितता विस्तृता विलसन्ती शोभमाना च कीर्तिर्येषां तादृशाः सन्तः सज्जनाः सन्ति / सुमुदिताः सुप्रसन्नाः काममग्नाः मदनव्यापार एव सततासक्ताः कामिनः कामरसिकाः यानं वाहनं रथादि बद्ध्वा उपवनाद् बहिरेवावरोध्य, वारस्त्रीभिः वाराङ्गनाभिः सह साकं बहिरुपवनम् पुराद् बाह्यमुद्यानम् निर्विशन्ति कामक्रीडादिभिरुपयुञ्जन्ति | पुरीमेव वर्णयति - गच्छंस्तूर्णं नभसि तरणिः शङ्कते नित्यमेवं, सौधेष्वेव स्खलतु मम मा स्यन्दनोऽभ्रंलिहेषु / मेधा यस्यामतिगुरुगृहै: प्राप्य संघट्टमाराद्, धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति / / 77 / / व्याख्या - यस्यां पुरि नभसि आकाशे गच्छन् रथेनसंचरन् तरणिः सूर्यः नित्यम् प्रतिदिनम्, एषु अग्रतो दृश्य मानेषु अभ्रंलिहेषु अभ्राणि मेधान् लिहन्ति स्पृशन्ति इत्यभ्रंलिहाः 'वहाभ्राल्लिहः (5-1-123) इति खश्, खित्यनव्ययारुषो० (3-2-111)' इति मोऽन्तादेशः, तेषु सौधेषु सुधया निर्मिताः सौधाः प्रासादाः तेषु मम मे स्यन्दन रथः मा नैव स्खलतु संघट्टताम्-एवम् पूर्वोक्तरूपेण शङ्कते संदेग्धि | मेघाः घनाः अतिगुरुगृहै: बहुविशालप्रासादैः आराद् दूरतः एव संघटुं संघर्षं प्राप्य लब्ध्वा जर्जराः शकलिताः सन्तः धूमोद्गारानुकृतिनिपुणाः धूमोद्गाराणाम् वाष्पनिर्गमानाम् अनुकृतौ अनुकरणे निपुणाः चतुराः निष्पतन्ति निर्गच्छन्ति / . Page #66 -------------------------------------------------------------------------- ________________ 59 शीलदूतम् (स्थुलभद्र चरित्रम्) अन्यमपि विशेषमाह - . यान्त्यो व्योम्नि त्रिदशललना वीक्ष्य यासां स्वरूपं, सर्वं गर्वं मनसि रचितं चारुतायास्त्यजन्ति / मुग्धा दुग्धोपचितवपुषः कुट्टिमेष्वस्तखेदं, संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्या: / / 78 / / व्याख्या - यत्र पाटलिपुत्रे व्योम्नि आकाशमार्गे यान्त्यः गच्छन्त्यः त्रिदशललनाः 'त्रिर्दशेत्यर्थे बहुव्रीही प्रमाणी सङ्ख्याडु: (7-3-128)' इति डे त्रिदश शब्दो निष्पद्यते / अस्य चार्थोऽनेकप्रकारेणानेकत्र वर्णितः अभिधानचिन्तामणिटीकायां च तिस्रो दशावयोऽवस्था येषां ते त्रिदशाः त्रिंशद्वर्षा मनुष्ययुवानः, त्रिदशा इव त्रिदशा इत्यपि व्युत्पत्तिर्दर्शिता / तथा च सर्वदा यौवनशालिनः इति फलति ते त्रिदशा देवाः तेषां ललनाः स्त्रियः यासां पाटलीपुत्रनगरी कन्यानां स्वरूप वीक्ष्य अवलोक्य मनसि स्वचित्ते निहितं स्थितं चारुतायाः सौन्दर्यस्य गर्वम् अभिमानं त्यजन्ति परिहरन्ति, (ताः) दुग्धोऽपचितवपुषः दुग्धेन क्षीरेण उपचितं वृद्धि प्राप्तं वपुः शरीरं यासां ताः अमरप्रार्थिताः अमरैः देवैरपि प्रार्थिता अभिलषिताः मुग्धाः ऋजवः कन्याः बालिकाः कुट्टिमेषु प्रासादपृष्ठेषु मणिभिः रत्न, (गुटिकादि स्थानीयैः) अस्तखेदं अखिन्नं यथा स्यात् तथा संक्रीडन्ते खेलन्ति | पुरीमेव प्रकारान्तरेण वर्णयति - धर्मस्वेदं सुरतजनितं योषितां यत्र रात्री, जालायातैः स्वगृहवलभीमध्यबद्धस्थितीनाम् / / सारैस्ताराधिपतिकिरणैश्च्योतिता द्योतिताशैालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः / / 79 / / Page #67 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - ___यत्र पाटलिपुत्रे रात्रौ निशि स्वगृहवलभीमध्यबद्धस्थितीनां स्वगृहस्य निजागारस्य वलभ्या अट्टालिकाया मध्ये बद्धा स्थिरीकृताः स्थितिः वासो याभिः तासाम् योषितां स्त्रीणाम् सुरतजनितं कामक्रीडासमुद्भूतम् धर्मस्वेदं ऊष्मजनितदेहजलं सारैः सारभूतैः द्योतिताशैः प्रकाशित दिग्भिः ताराधिपतिकिरणैः ताराधिपतेः चन्द्रस्य किरणैः रश्मिभिः जालायातैः गवाक्षमार्गप्रविष्टैः च्योतिताः क्षरिताः स्फुटजललवस्यन्दिनः स्फुटं प्रकटं यथा स्यात् तथा जललवान् तोयकिरणान् स्यन्दन्ते क्षरन्ति इति तच्छीलाः चन्द्रकान्ताः चन्द्रकान्तनामकमणयः व्यालुम्पन्ति नाशयन्ति / तत्रत्य घनिनां त्यागस्य फलं दर्शयति - काले वर्षन्नवनिवलयं सस्यपूर्ण वितन्वन्, वाञ्छातुल्यं दिशति सलिलं यत्र धाराधरोऽपि / त्यागो यस्यां धनिभिरनिशं दीयमानोऽर्थिनांद्रा गेकं सूते सकलमबलाऽऽमण्डनं कल्पवृक्षः / / 8 / / व्याख्या - यत्र पाटलिपुत्रे काले कृष्युपयुक्तसमये वर्षन् वर्षणं कुर्वन् अवनिवलयं भूमण्डलम् सस्यपूर्ण धान्यसमृद्धं वितन्वन् रचयन् धाराधरः मेघः अपि बाञ्छातुल्यम् इच्छानुकूलं सलिलं जलम् दिशति ददाति / धनिभिः आढ्यैः अनिशम् सततं दीयमानः क्रियमाणः अर्थिनां याचकानां (कृते) कल्पवृक्षः सङ्कल्पितफलप्रददेवतरुरूपः त्यागः दानम् एकम् अद्वितीयम् सकलं सम्पूर्णम् अबलाऽऽमण्डनं अबलानां दुर्गतानां जनानां आमण्डनं समन्तात् परिपोषकम् द्राक् झटिति सूते सम्पादयति / Page #68 -------------------------------------------------------------------------- ________________ 61 शीलदूतम् (स्थुलभद्र चरित्रम्) अथ कर्तव्यं निरूपयन्ती प्रकृतपुरीवर्णनादिकं समापयति - तिष्ठन्नस्यां पुरि विजय नाथ ! सौख्यं भज त्वं, कुर्वन् धर्मं भवति सफलं येन जन्मद्वयं ते / हित्वा चापं युवतिषु चिरं यत्र कामोऽपि तस्थौ, तस्यारम्भश्चतुरवनितालोचनैरेव सिद्धः / / 81 / / व्याख्या - हे नाथ ! स्वामिन् ! अस्यां पूर्ववर्णितरूपायां पाटलिपुत्रनाम्नि पुरि नगर्याम् तिष्ठन् स्थितिं कुर्वन्, धर्मम् सुकृतम् कुर्वन् आचरन् विजयजं लौकिक बाह्यशत्रुपराजयोद्भूतम् रागद्वेषाद्यभ्यन्तरशत्रुपराजयोद्भूतं च सौख्यम् ऐहिकं स्रक्चन्दनवनिताद्युपभोगं पारलौकिकं स्वर्गोपभोगं च भज प्राप्नुहि, येन प्राप्तेन ते तव जन्मद्वयं ऐहिकं जन्म, अग्रिमं च जन्म सफलं सार्थकं भवति / यत्र पाटलिपुत्रे चापं धनुः हित्वा परित्यज्य कामः मदनः अपि किन्तु युवतिषु तरुणीषु तस्थौ आश्रितः (यतः) तस्य कामस्य आरम्भ कामिजनवशीकरणोद्योगः चतुरवनितालोचनैः चतुराणां कामकलानिपुणानां वनितानां कामिनीनां लोचनैः नेत्रैः एव सिद्धः सम्पन्नः / अथ श्रीस्थूलभद्रः प्रत्युत्तरयति - निर्यद्वाष्पं वच इति चिरं प्रोच्य तस्यां स्थितायां, सोऽवोचत् तामभजममलं तन्व्यहं जैनधर्मम् / स्वर्गोऽप्यस्माद् मम स मतश्चिन्तितं यत्र दते, हस्तप्राप्यस्तबक न मितो बालमन्दारवृक्षः / / 82 / / Page #69 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - निर्यद्वाष्पं निर्यत् निर्गच्छद् वाष्पं नेत्रसलिलं यत्र तत् यथा स्यात् तथा इति उक्तप्रकारेण वचः वचनं प्रोच्य प्रकर्षणोक्त्वा स्थितायाम् तूष्णी भूतायां तस्यां कोशायाम् सः श्री स्थूलभद्रः अवोचत् अकथयत्, किं तद् इत्याह - हे तन्वि ! दुर्बले ! कृशे ! वा अहम् स्थूलभद्रः अमलम् निर्मलम् जैनधर्म जयन्ति रागद्वेषादीन् इति जिनाः तीर्थङ्कराः तेषाम् धर्मम् आचारम् अभजम् आश्रयम् मम सः प्रसिद्धः स्वर्गः देवलोकः अपिं अस्मात् जैनधर्मापेक्षया न मतः नेष्टः, यत्र स्वर्गे हस्तप्राप्यस्तबकनमितः हस्तप्राप्यैः करणैव लभ्यैः स्तबकैः पुष्पफलवृन्तैः नमितः नम्रीभूतः बालमन्दारवृक्षः बालोऽल्पवया मन्दारवृक्षः कल्पवृक्षः चिन्तितम् अभिलषितं सकलं वस्तु दत्ते समर्पयति / गुरुपदेशस्मरणादपि नाहं तव वंचोऽनुसरिष्यामीत्याह (युग्मेन). कृत्याकृत्यं गणयति भवान् हन्त ! येषां कृते नो, दृष्ट्वा हृष्यत्यनुदिनमलं खिद्यते यानऽदृष्ट्वा / प्रान्तं प्राप्तं स्वजननिचयास्तेऽप्यहो ! सत्सरोवद्, न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः / / 83 / / निःसङ्गानां गुणफणभृतां यो मया श्रीगुरूणामेवं मुग्धे ! भवभयहरोऽश्राविपुण्योपदेशः / हारेणेव द्युतिततिभृताऽप्यत्र शश्वद् मनोऽन्तः, प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि / / 84 / / (युग्मम्) व्याख्या - __ भवान् स्थूलभद्रः येषां स्वजननिचयानां कृते कृत्याकृत्य कर्तव्याकर्तव्यं नो नैव गणयति विचारयति हन्त ! इति खेदः, यान् स्वजननिचयान् दृष्टवा अवलोक्य अनुदिनं सर्वदा दृष्यति प्रसीदति, यान् अदृष्ट्वा Page #70 -------------------------------------------------------------------------- ________________ 63 शीलदूतम् (स्थुलभद्र चरित्रम्) अनवलोक्य अलम् अत्यर्थं खिद्यते दूयते, व्यपगतशुचः विच्छेदात् स्वार्थसाधकत्वाभावाच्च व्यपगता नष्टा शुक् भवद्विषयकं दुःखं येषां ते, ते पूर्ववर्णिताः स्वजननिचयाः स्वबन्धुवर्गाः अपि किमुतान्ये सुहृदादयः हंसाः पक्षिविशेषाः (व्यपगतशुचः, अतिवाहित ग्रीष्मकालाः) सत्सरोवत् स्वच्छह्रदवत्, प्रान्तं समीपं प्राप्तम् आयातम् त्वां भवन्तम् प्रेक्ष्य अवलोक्य अपि न ध्यास्यन्ति न स्मरिष्यन्ति / - हे मुग्धे ! सरले ! एवम् उक्तरूपः गुणफणभृताम् गुणा एव फणाः सर्पमस्तकानि बिभ्रति धारयन्ति इति तेषां (अत्र ‘गुणगणभृताम् इति पाठः समीचीनः प्रतिभाति गुणानां फणैः सह साम्याभावात् तादृशरूपकस्यायोग्यत्वात्) निःसङ्गानां सांसारिकसम्पर्कशून्यानां श्रीगुरूणां श्रिया युक्तानां धर्मोपदेशकानाम् भवभयहरः सांसारिकभीतिनिवारकः यः पूर्वोक्तरूपः पुण्योपदेशः पुण्यजनकः उपदेशः मया स्थूलभद्रेण अश्रावि श्रुतः अत्र ततो दूरं तव समीपे स्थितः अपि, द्युतितति भृता कान्तिसमूहधारिणा हारेण मुक्तामालया उपान्तस्फुरिततडितं. उपान्ते समीपे स्फुरिता चञ्चला तडित् विद्युत् यस्याः तामिव त्वां भवती प्रेक्ष्य अवलोक्य अपि, मनोऽन्तः हृदयमध्ये तम् उक्तमुप देशम् एव केवलं स्मरामि ध्यायामि / स्वकृतं कामविजयमुद्घोषयति - जिग्ये कामः सुतनु ! स मया शीलमासाद्य यस्मात्, संज्ञाहीनौ रसकुरुवकावप्यहो ! स्तः सरागौ / नार्या एकोऽभिलषति भृशं दर्शनं मण्डिताया, वाञ्छत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः / / 85 / / व्याख्या - . हे सुतनु ! सुदेहे ! सुकृशशरीरे ! वा मया स्थूलभद्रेण शीलम् ब्रह्मचर्यं आसाद्य प्राप्य स वक्ष्यमाण गुणविशिष्ट कामः कन्दर्पः जिग्ये Page #71 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) 64 जितः यस्माद् कन्दर्पाद् हेतोः संज्ञाहीनौ अचेतनौ रसकुरुबको रसः पारदः कुरुबकः पीतझिण्टी समाख्यः वृक्षविशेष श्च अपि किमुतसचेतनः सरागौ साभिलाषौ स्तः भवतः अहो ! इत्याश्चर्यम्, एकः रसः मण्डितायाः भूषितायाः नार्याः स्त्रियाः दर्शनम् अवलोकनम् इच्छति कामयते, अन्यः कुरुबकः दोहदच्छद्मना गर्भिण्यभिलाषव्याजेन अस्याः नार्या वदनमदिरां मुखस्थितां सुराम् वाञ्छति इच्छति | पति इच्छति / पुनरपि स्वस्य नीरागतामेव प्रकटयति . नीरागं मे समजनि मनो ज्ञाततत्त्वस्वरूपं, तेनेदानीं च विषयरसो बाधते कुत्रचिन्माम् / . पश्याम्येनामपि वनसमां चित्रशालां खलूच्चैर्यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः / / 86 / / व्याख्या - ज्ञाततत्त्वस्वरूपम् ज्ञातं विदितम् तत्त्वस्य तत् तद्विषययाथार्थ्यस्य स्वरूपं येन तादृशम् मे मम मनः चित्तं समजनि सम्पन्नम्, तेन कारणेन इदानीम् सम्प्रति कुत्रचिद् कस्मिन्नपि विषये विषयरसः विषयेषु रागः मां स्थूलभद्रं न बाधते नाकर्षति / एनाम् अग्रे स्थिताम् चित्रशालाम् चित्राम् आश्चर्यजनिकां नानाविधचित्रादिभिरलङ्कृतां वा शालां गृहम् वनसमाम् अरण्यसदृशीं पश्यामि दृष्ट्वाऽवधारयामि, यां चित्रशालाम् वः युष्माकं सुहृत् प्रियः नीलकण्ठः मयूरः दिवसविगमे दिनान्ते सायङ्काले उच्चैः उपरिभागे अध्यास्ते अधितिष्ठति / शरीरस्य यौवना पगमे निःश्रीकताकथनेनानित्यतां प्रकटयति यत्तारुण्ये सति वपुरहो ! विभ्रमं भूरि दत्ते, पुष्टं मुग्धे ! सरसमधुराहारयोगेण शश्वत् / Page #72 -------------------------------------------------------------------------- ________________ 65. शीलदूतम् (स्थुलभद्र चरित्रम्) अन्यादृक् स्यात् तदपि च गते यौवने देहभाजां, सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् / / 87 / / व्याख्या - __ हे मुग्धे ! सरले ! सरसमधुराहारयोगेण सरसानाम् आस्वादवताम् रसयुक्तानां वा मधुराणां मिष्टानाम् आहाराणां भोजनानां योगेन उपयोगेन शश्वत् सर्वदा पुष्टं वृद्धिं नीतम् यद् वपुः शरीरं, तारुण्ये यौवने सति विद्यमाने भूरि बहुतमं विभ्रमं विलासं दत्ते अर्पयति, तद् अपि शरीरम् देहभाजां प्राणिनां यौवने तारुण्ये गते अतिक्रान्ते (सति) अन्यादृक् विसदृशं स्यात् (एतदर्थान्तरन्यासोपन्यासेन समर्थयति) सूर्यापाये भास्करेऽस्तंगते सति कमलं पद्मं स्वाम् निजाम् अभिख्याम् शोभाम् न खलु नैव पुष्यति धारयति / एवं च संसारानित्यतां जानतो मे मोहनाय तव चेष्टा वृथैवेत्याह मत्वाऽनित्यं जगदिति मनो मे विलग्नं जिनोक्ते, धर्मे शर्माभिलषति परं शाधतं शुद्धचित्ते ! / मुग्धे ! स्निग्धां रचयसि मुधा मामुदीक्ष्य स्वकीयां, खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् / / 88 / / * 'व्याख्या - __हे शुद्धचिते ! शुद्धं मया निर्विकारेण पुंसा सह संभाषणात् पवित्रं चित्तं मनो यस्याः तदामन्त्रणम्, इति पूर्वोक्तप्रकारेण जगत् संसारम् अनित्यं विनाशि मत्त्वा ज्ञात्वा जिनोक्ते जिनैः तीर्थङ्करैः उक्ते कथिते धर्मे श्रेयः साधनोपाये विलग्नं निरतं मे मम मनः चित्तम् शाश्वतम् नित्यं परम् उत्कृष्टं शर्म कल्याणम् अभिलषति वाञ्छति [न तु क्षणभगुरं लौकिक सुखमिति भावः] (अतः) हे मुग्धे ! सरले ! माम् स्थूलभद्रम् उदोक्ष्य Page #73 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) | उच्चैरवलोक्य, स्वकीयां निजां खद्योतालीविलसितनिभां खद्योतालीनाम् ज्योतिरिङ्गणसमूहानाम् विलसितेन निभा तुल्या ताम् विद्युदुन्मेष दृष्टिम् विद्युताम् तडिताम् उन्मेषवत् स्फुरणवत् उन्मेषः उम्मीलनं यत्र तादृशीं दृष्टिं विलोकनम् मुधा वृथा रचयसि करोषि / पुनरपि स्वस्य वीतरागत्वं द्रढयति - नारी यस्मिन्नमृतसदृशी मे बभूवाद्य यावद्, . रागग्रस्ते मनसि मदनव्यालविध्वस्तसंज्ञे / ध्वस्ते रागे गुरुभिरभवत् क्ष्वेडवत् साऽप्यनिष्टा या तत्र स्याद् युवतिविषये सृष्टिरायेव धातुः / / 89 / / व्याख्या - - मदनव्यालविध्वस्तसंज्ञे मदनः काम एव व्यालः सर्पः तेन विध्वस्ता नष्टा संज्ञा हिताहितज्ञानशक्तिः यस्य तस्मिन्, रागग्रस्ते रागेण विषयाभिलाषेण ग्रस्तेऽभिभूते यस्मिन् मे मम मनसि चित्ते अद्य यावत् इतः कालात् पूर्व नारी स्त्री अमृतसदृशी पीयूषतुल्या बभूव आसीत्,' गुरुभिः ज्ञानोपदेशकैः रागे विषयासक्तौ ध्वस्ते दूरीकृते (सति) या स्त्री तत्र युवतिविषये तस्मिन् तरुणी समाजे धातुः ब्रह्मणः आद्या प्रथमा सर्वश्रेष्ठेति यावत् इव स्यात् भवेत् सा अपि क्ष्वेडवत् विषवत् अनिष्टा अहितकारी अभवत् जाता | . पुनरपि स्वशील मेवाह - अज्ञानं मे सपदि गलितं मोहमूर्छाऽप्यनेशज्जातं चित्तं सुतनु ! मम तनिर्विकारं क्षणेन / स्वस्रा मृत्योरिव हि जरसा ग्रस्यमानां तनुं स्वां, मन्ये जातां तुहिनमथितां पद्मिनी वाऽन्यरूपाम् / / 10 / / Page #74 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - मे मम स्थूलभद्रस्य अज्ञानं वस्तुतत्त्वाच्छादकं तत् सपदि शीघ्रं गलितं विशीर्णम्, मोहनिद्रा मोहः तत्त्वातत्त्वविवेकाक्षमत्वम् एव निद्रा सुप्तिः सा अपि अनेशत् नाशं गता, हे सुतनु ? सुदेहे कोशे ! मम स्थूलभद्रस्य तत् पूर्वोक्तम् अज्ञानशून्यं विगलितमोहं च चित्तं मनः क्षणेन झटित्येव निर्विकारं कामादिविकार रहितं जातम् अभूत् / तत्र कारणमाह - हि यतः मृत्योः यमस्य मरणरूपस्य मरणरूपस्य वा भावस्य स्वस्रा भगिन्या इव जरसा वृद्धत्वेन जीर्णतया वा ग्रस्यमानां कवलीक्रियमाणां स्वां निजां तनुं शरीरं तुहिनमथितां हिम मर्दितां पद्मिनी कमलिनी वा इव ('व वा यथा तथैवैवं साम्ये' इत्यमरः) अन्यरूपां विसदृशीं जातां भूतां मन्ये अवगच्छामि / अथैवं प्रत्याख्यातां निजसखी कोशा वीक्ष्य तत् सखी काचिदाह तस्मिन्नेवं वदति चतुरोवाच तस्या वयस्या, जातं किं ते सुभग ! हृदयं निर्दयं बाढमेतत् ? / पश्याऽस्यास्त्वं तव विरहतो वक्त्रमभ्रास्तदीप्तेरिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्ते बिभर्ति / / 11 / / व्याख्या - तस्मन् स्थूलभद्रे एवं पूर्वोक्तरूपेण वदति कथयति (सति) चतुरा अभिप्रायज्ञाननिपुणा वयस्या वयसा तुल्य वयस्या हृद्यपद्य० (7-1-11) इति या] समानवयाः सखी उवाच वक्ष्यमाणां वचनं जगाद, हे सुभग ? सुन्दर ! सौभाग्यशालिन् वा एतत् वचसाऽनुमीयमानं ते तव हृदयम् अन्तःकरणं बाढम् बाह्यते स्म इत्यर्थे 'क्षुब्धविरिब्ध० (4-4-91) इति निपातनात् बाढम् दृढं तीव्र वा ('अत्यर्थे गाढमुद्गाढं बाढं तीव्र भृशं दृढम्' अभि० 6-141) निर्दयं परदुःखप्रहाणेच्छारूपदयाशून्यं किं कुतः Page #75 -------------------------------------------------------------------------- ________________ 68 शीलदूतम् (स्थुलभद्र चरित्रम्) कारणात् जातं सम्पन्नम्, तव भवतः विरहतः वियोगाद्धेतोः अस्याः मम सख्याः कोशायाः वक्त्रम् मुखम्, अभ्रास्तदीप्तेः अभ्रेण मेघेन अस्ता क्षिप्ता दीप्तिः कान्तिर्यस्य तादृशस्य त्वदनुसरणसरणक्लिष्टकान्तेः त्वदनुसरणेन त्वन्मुखतुल्यताप्राप्ति हेतोस्तवानुनमनक्लेशे क्लिष्टा दूषिता कान्तिः शोभा यस्य तादृशस्य च इन्दोः चन्द्रस्य दैन्यम् आर्तिम् बिभर्ति धारयति (इति) त्वं स्थूलभद्रः पश्य अवलोकय / कोशाया एव विरहावस्थां वर्णयति - एषाऽनैषीत् सुभग ! दिवसान कल्पतुल्यानियन्त, कालं बाला बहुलसलिलं लोचनाभ्यां स्रवन्ती / अस्थाद् दुस्था तव हि विरहे माभियं वार्त्तयन्ती, कच्चित्भर्तुः स्मरसि रसिके ! त्वं हि तस्य प्रियेति / / 92 / / व्याख्या - हे सुभग ! एषा दृश्यमाना बाला अल्पोपयात यौवनोद्भेदा कौशा लोचनाभ्यां नेत्राभ्यां बहुलसलिलं अधिकाधिकं जलम्-अश्रु सवन्ती क्षरन्ती इयन्तं तत्र विरहदिनादारभ्याद्यपर्यन्तं कालं समयं यावत् 'कालाध्वनोर्व्याप्ती (2-2-42) इति द्वितीया, कल्पतुल्यान् कल्पेन दैवयुगसहस्त्रेण तुल्यान् समान् ('दैवे युगसहस्त्रे द्वे ब्राह्म (वर्षम्) कल्पौ तु ते नृणाम्' अभि० 274) दिवसान् वासरान् अनैषीत् अत्यवाहयत्; हि यतः तव भवतः विरहे वियोगे दुःस्था दुःखेन स्थितिमती इयम् कोशा हे रसिके ! सरसे ! भर्तुः स्थूलभद्रस्य स्मरसि निध्यायसि कच्चित् किम्, हि यतः त्वं तस्य स्थूलभद्रस्य प्रिया प्रीतिपात्रम् (आसीः) इति पूर्वोक्तरूपेण मां तद्वयस्यां वार्तयन्तो आलपन्ती अस्थात् सर्वदेवमालायलग्नवासीत् / Page #76 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) पुनरपि कोशाया एवास्थान्तरं वर्णयति - मून्तेि सा सुभग ! रुदती वारिता दीननादं, प्रातः सातं सखि ! वद कदाऽसौ समेतेत्यवग् माम् / लातुं वेलां तव सुललितं गीतमुद्गातुकामा, भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती / / 93 / / व्याख्या - हे सुभग ! वेलां समयं लातुं कथमपि अतिवाहयि तुम्, तव भवतः सुललितं सुमधुरं गीतम् गानविषयम् उद्गातुकामा उद्गातुम् उच्चैः परश्रसणगोचररूपेण गातुं कामोऽभिलाषो यस्याः सा, ('तुमश्च मनःकामे (3-4-140) इति तुमो मस्य लुक्) स्वयमपि स्वेनैव कृतां विहितां मूर्च्छनाम् स्वराणामारोहावरोक्रमविशेषं / 'स्वरः संमूर्छितो यत्र, रागतां प्रतिपद्यते / मूर्च्छनामिति तां प्राहुः, कवयो ग्राम संभवाम् / / ' इति सङ्गीतशास्त्रोक्तरूपाम् भूयो भूयः वारं-वारं विस्मरन्ती अनवदधाता, मूर्छान्ते स्मरकृतासु नयनप्रीत्यादिषु दशसु स्मर दशासु नवमी मोहरूपा दर्शा मूर्छा तस्या अन्ते विगमे दीननादम् दीनवत् नदनं यथा स्यात् तथा रुदती रोदनं विदधती वारिता प्रतिरुद्धा सा कोशा 'हे सखि ! समानहृदये ! असौ दूरं गतः स्थूलभद्रः कदा कस्मिन् दिवसे काले वा समेता समागन्ता (इति) प्रातःसातं प्रातः कालिकं माङ्गलिकं वस्तु वद कथय' इति इत्थं माम् तत्सखीं अवक् अकथयत् (वचेरनद्यतन्यां प्रथम पुरुषैकवचने रूपम्) / पुनरस्या एव विरहदशां वर्णयति - पृष्ट्वा पृष्ट्वा गणकनिचयं जीवितं धारयन्ती, नीत्वा नीत्वा कथमपि दिनान्यङ्गुलीभिर्लिखन्ती / गत्वा गत्वा पुनरपि पुनरि तस्थौ च गेहे, प्रायेणेते रमणविरहेष्वङ्गनानां विनोदाः / / 94 / / . Page #77 -------------------------------------------------------------------------- ________________ 70 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - (एषा कोशा) गणकनिचयं ज्योतिर्विदां समूहं पृष्ट्वा-पृष्ट्वा कदा मे प्रियः समागन्ता इति भूयो भूयः प्रश्नं कृत्वा कृत्वा (तदुत्तरानुसारं) जीवितं प्राणान् धारयन्ती न परित्यजन्ती, अगुलीभिः करावयवैः लिखन्ती गणयन्ती दिनानि वासरान् कथमपि केनापि प्रकारेण नीत्वा-नीत्वा अतिवाह्यातिवाह्य, पुनः पुनः अपि भूयो भूयोऽपि द्वारि गृहाग्रभूमौ गत्वा-गत्वा पौनः पुन्येन गमनमाधाय, गेहे स्वावासे तस्थौ स्थिरा बभूव / एतच्चार्थान्तरन्यासेन समर्थयति-रमणविरहेषु प्रणयिवियोगेषु सत्सु एते पूर्वोक्ताः पौनः पुन्येनैक क्रियानुष्ठानरूपाः प्रायेण बाहुल्येन अङ्गनानां स्त्रीणां विनोदाः मनोऽपनोदनसाधनानि (भवन्ति) / / पुनस्तदवस्थमेव वर्णयति - .. श्रृङ्गारं स्वं सुभग ! विरहेऽङ्गारवत् संत्यजन्ती, दुःखेनाऽलं निजपरिजनं दु:खदिग्धं सृजन्ती / प्रेम्णा बद्धां निपुण ! भवता तां मुहुः संस्पृशन्ती, गण्डाभोगात् कठिनविषमामेकवेणी करेण / / 15 / / व्याख्या - हे सुभग ! विरहे तव वियोगस्य समये स्वं निजं श्रृङ्गारं भूषणम् अङ्गारवत् वह्निकणवत् सन्त्य जन्ती परिहरन्ती, दुःखेन स्वीयेन कष्टेन निजपरिजनं स्वसेवकवर्गम् अलम् अत्यन्तं दुःखदिग्धं कष्टलिप्तं सृजन्तो रचयन्ती हे निपुण ! चतुर ! भवता त्वया प्रेम्णाः स्नेहेन बद्धां रचितां कठिनविषमाम् कठोरां निम्नोन्नतां च तां परिचिताम् एकवेणीम् एकीभूतां केशजूटिकां गण्डाभोगात् गण्डस्थलमारभ्य मुहुः वारं वारं (यब्लोपे पञ्चमी) संस्पृशन्ती आभृशन्ती तस्थौ - इति पूर्वोक्ता क्रियाऽत्राप्यनु सन्धेया / / Page #78 -------------------------------------------------------------------------- ________________ 71 . शीलदूतम् (स्थुलभद्र चरित्रम्) तव संयोगस्यावस्थायां यदभूत् तद्विपरीतं वियोगे भवतीत्याह - नीता रात्रिः क्षण इव पुरा या त्वयेद्धाऽपि सार्द्ध, क्रीडायोगैः सुरतजनितै श्चारुभोगोपभोगैः / निःश्वासौधैर्निजतनुगतं चन्दनं शोषयन्ती, . तामेवोष्ण विरहजनितैरश्रुभिर्व्यापयन्ती / / 16 / / व्याख्या - __पुरा पूर्वं (तव संयोगे सति) या यत्परिमाणा रात्रिः निशा इद्धा दीप्ता अपि त्वया भवता साद्ध सह योगैः लालाविलासैः सुरतजनितैः मैथुनादिसमयोत्पन्नैः चारुभोगोपभोगैः चारुभिः सुन्दरैः भोगोपभोगैः भोगानामुपभोगैः सेवनैः क्षण इव क्षणतुल्यं नीता अतिवाहिता, निःश्वासौधैः विरहजनितदीर्घश्वाससमूहैः निजतनुगतं स्वदेहस्थितं चन्दनं श्रीखण्डचन्दनं शोषयन्ती शुष्क कुर्वती विरहजनितैः वियोगकालोत्पन्नैः उष्णैः तप्तैः अश्रुभिः नेत्रजलैः तामेव रात्रिं व्यामयन्ती व्यापिकांदी(भूतां कुर्वती, (तस्थौ) / / अपि च - दत्त्वा दुःखं मम किमु सुखं हा ! विधातस्त्वयाऽऽप्तं ? जानात्यन्यो न हि परगतां वेदनां वाऽत्र कश्चित् / निन्दित्वाऽलं विविधवचनैर्दैवमेवं प्रमीला - माकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशाम् / / 17 / / व्याख्या - (एषा) हा विधातः ! दैव ! मम कोशाया दुःखं कष्टं दत्त्वा वितीर्य त्वया भवता किमु किं रूपं सुखम् आनन्दः आप्तम् प्राप्तम्, पक्षान्तररूपेणार्थान्तरमुपत्यस्यैतत्समर्थयति वा अथवा अत्र लोके कश्चित् कोऽपि अन्यः दुःखभाजो भिन्नः परगताम् परस्मिन् दुःखभाजि जने स्थितां Page #79 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) . 72 वेदनां पीडां न जानाति नैवानुभवति / एवम् उक्तप्रकारेण विविधवचनैः नानावाक्यैः दैवं विधातारम् अलम् अत्यन्तम् निन्दित्वा तिरस्कुर्वता नयनसलिलोत्पीडरुद्धावकाशाम् नयनसलिलानां नेत्रजलानाम् उत्पीडेन प्रबाधेन रुद्धः प्रतिबद्धः अवकाशः स्वरूपप्राप्त्यवसरः यस्याः तां प्रमीलाम् मूर्छाम् आकाङ्क्षन्ती अभिलष्यन्ती (तस्थौ) / / . किञ्च - संमृज्याश्रुप्लुतमथ निजं दिक्षु चक्षुः क्षिपन्ती, क्षौमान्तेन स्वमनसि जगज्जानती शून्यमेतत् / स्मृत्वा स्मृत्वा तव गुणगणं भूमिपीठे लुठन्ती, साभ्रेऽनीव स्थलकमलिनी न प्रबुद्धा न सुप्ता / / 98 / / व्याख्या - अथ पूर्वोक्तरोदनान्तरं प्लुतम् चक्षुषिव्याप्तम् अश्रु नेत्रजलम् क्षौमान्तेन वस्त्रप्रान्तेन संमृज्य प्रोञ्छ्य, निजं स्वीयं चक्षुः नेत्रं दिक्षु सर्वतः क्षिपन्ती प्रेरयन्ती स्वमनसि स्वचित्ते एतत् दृश्यमानं जगत् संसारं शून्यं जनरहितं जानती निश्चिन्वाना तव भवतः गुणगणं दयादाक्षिण्यादिगुणसमूहं स्मृत्वास्मृत्वा ध्यात्वा-ध्यात्वा भूमिपीठे महीतले लुठन्ती परिवर्त्तमाना साभ्रे मेघसहिते अनि दिने स्थलकमलिनी भूपद्मिनी इव न प्रबुद्धा न जागरिता प्रफुल्ला वा, न सुप्ता निद्रिता मुकुलिता वा / / आत्मनो दुःखं प्रकटयन्ती सख्याः कोशाया उपरि दयां प्रार्थयते-. आलोक्याऽस्यास्तव विरहजं चेष्टितं यन्न भिन्नं, तज्जानीमो वयमिति निजं वज्रसारं हृदेतत् / कारुण्यं तत्सदयहृदयाऽत्रोचितं ते विधातुं, प्रायः सर्वो भवति करुणावृत्तिराद्रन्तरात्मा / / 99 / / . Page #80 -------------------------------------------------------------------------- ________________ 73 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - अस्याः मम सख्याः कोशाया तव भवतः विरहजं वियोगावस्थाकृतं चेष्टितम् व्यापारम् आलोक्य निरीक्ष्य यत् यस्मात् न भिन्नम् विदीर्णम्, तत् तस्मात्, एतत् मदीयं हृत् हृदयं वज्रसारम् वज्रस्य कुलिशस्येव सारो बलं दृढत्वं वा यस्य तादृशम्, इति वयं कोशा सख्यः जानीमः अवधारयामः, तत् तस्मात् हे सदय हृदय ! सदयं दयया सहितं हृदयं यस्य तदामन्त्रणम्, अत्र अस्यां मम सख्यां कोशायां ते तव कारुण्यं करुणोपयुक्तं कर्म विधातुं कर्तुम् उचितम् योग्यम्, अत्र अर्थान्तरन्यासेन प्रकृतम) समर्थयति प्रायः बाहुल्येन सर्वः सकलः आर्टान्तरात्मा स्निग्धान्तः करणो जनः करुणावृत्तिः करुणया सहितावृत्तिः आचरणं यस्य तादृशः भवति जायते / / यदि भवानद्यापि नैनां संभावयिष्यति नूनमियं प्राणां स्त्यजेत् इत्याह - अस्मद्वाक्यं यदि नं हि भवान् मानयिष्यत्यदोऽपि, प्राणत्यागं तदियमचिरात् सा विधास्यत्यवश्यम् / भूयो भूयः किमिह बहुना जल्पितेनाऽत्र भावि, प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् / / 10 / / व्याख्या - . भवान् ! श्रीस्थूलभद्रः अदः अनुपदमुक्तम् अस्मद्वाक्यम् मदीयं वचनम् यदि चेत् न मानयिष्यति स्वीकरिष्यति अपि इति संभावनायाम्, तत् तर्हि इयं सा प्रत्यक्षदृश्यमाना कोशा सखी अचिरात् शीघ्रम् प्राणत्यागम् जीवितपरिहारम् अवश्यं निश्चितं विधास्यति करिष्यति / हे भ्रातः ! इति स्वजनतारव्यापनाय अवञ्चनीयताप्रतीत्यर्थं चामन्त्रणम् इह अस्मिन् विषये भूयः - भूयः वारं - वारं बहुना अधिकेन जल्पितेन कथितेन किम् किमपि प्रयोजनं नास्ति, अत्र अस्मिन्नेव काले स्थाने वा ते तव निखिलम् सर्वं Page #81 -------------------------------------------------------------------------- ________________ 74 शीलदूतम् (स्थुलभद्र चरित्रम्) प्रत्यक्षम् साक्षात्कृतम् भावि भविष्यति, किं तत् सर्वम् ? यत् सर्वं मया कोशा सख्या उक्तम् कथितम् / / अहनि कथञ्चिदाश्वसित्यपि रात्रौ तु कष्टा स्थिति रित्याह . वार्ताव्यग्रां तुदति न तथा त्वद्वियोगोऽहनीमां, . यद्वद्रात्रौ कृतबहुशुचं चन्द्ररोचिश्चितायाम् / . पश्यत्वेनां स्वयमपि भवानद्य भूमीशयानां, तामुन्निद्रामवनिशयनासन्नवातायनस्थः / / 101 / / व्याख्या - अहनि दिवसे वार्ताव्यग्रां त्वत्सम्बन्धि समालापव्यस्ताम् इमाम् कोशाम् त्वद्वियोगः तव विरहः तथा तद्वत् न तुदति व्यथयति, पद्वत् यथा रात्री निशि चन्द्र रोचिश्चितायाम् चन्द्रस्य रोचिः ज्योत्स्नैव चिता शवदाहचुल्ली तस्यां कृतबहुशुचम् विहिताधिकशो काम्, (तुदति) अद्य अस्यां रात्रौ भवान् स्थूलभद्रः स्वयमपि आत्मनाऽपि अवनिशयना सन्नवातायनस्थः अवनी भूमौ यत् शयनम् शय्या स्तरणम् तदासन्ने तत्समीपस्थिते वातायने गवाक्षे स्थितः आश्रितः सन् भूमीशयानाम् पृथ्वीतलपरिवृत्ताम् उन्निद्राम् उच्छिन्न निद्राम् ताम् एनाम् पूर्वोक्तरूपां कोशाम् पश्यतु प्रत्यक्षी करोतु / / स्वाभिप्रायं निगमयति - विज्ञप्तिं मे सफलय कुरु स्वं मनः सुप्रसन्नं, सख्या साकं मम भज पुनर्देव ! भोगान् विचित्रान् / वामाक्ष्यस्यास्त्वयि सति मुहुः स्पन्दमेत्य प्रसन्ने, मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीव / / 102 / / . व्याख्या हे देव ! क्रीडाविशारद ! मे मम विज्ञप्तिं प्रार्थनां सफलय सार्थिकां Page #82 -------------------------------------------------------------------------- ________________ . शीलदूतम् (स्थुलभद्र चरित्रम्) कुरु स्वं स्वकीयं मनः चित्तं सुप्रसन्नम् अतिशयप्रमुदितं कुरु प्रकटय, मम सख्या - कोशया साकं सह विचित्रान् आश्चर्यजनकान् भोगान् स्रक्चन्दनाधुपयोगपूर्वकान् विहारान् पुनः भूयः पूर्ववत् भज सेवय / त्वयि भवति प्रसन्ने मुदिते सति अस्याः कोशाया वामाक्षि वामनयनं मुहुः वारं-वारं स्पन्दम् चञ्चलताम् एत्य प्राप्य मीनक्षोभात् मत्स्यसंघट्टात् चलकुवलयश्रीतुलाम् चलस्य चञ्चलस्य कुवलयस्य नीलकमलस्य श्रिया सह तुलां सादृश्यम् एष्यति प्राप्स्यति इव इत्युत्प्रेक्ष्यत इति भावः / / त्वयि सुप्रसन्ने किं किं भावीत्येव दर्शयति - जेष्यत्याऽऽस्यं प्रमुदितमलं मेघमुक्तस्य शस्या, शोभामिन्दोविकसित चेश्चारुरोचिश्चितं साक् / प्राप्ते प्रीतिं भवति सुभगाऽऽनन्दितायाः किलाऽस्या, यास्यत्यूरुः सरसकदलीस्तम्भगौर श्चलत्वम् / / 103 / / व्याख्या - हे सुभग ! भवति त्वयि प्रीतिं प्रसन्नतां प्राप्ते सति आनन्दितायाः प्रसन्नाया अस्याः मम प्रियसख्याः कोशायाः चारुरोचिश्चितम् चारुण सुन्दरेण रोचिषा कान्त्या चितम् व्याप्तम् अलम् अत्यर्थम् प्रमुदितम् प्रसन्नम् आस्यम् मुखम् मेघमुक्तस्य जलदनिर्गतस्य विकसितरुचेः विकीर्णकान्तेः इन्दोः चन्द्रस्य शस्यां प्रशंसनीयां शोभां छवि स्राक् झटिति जेयप्ति अभिभविष्यति, (तथा) सरसकदलीस्तम्भगौरः सरसः आर्द्रः यः कदली स्तम्भः रम्भाकाण्डम् तद्वत् गौरः शुभ्रः ऊरु: जघनोपरिभागः चलत्वम् कम्पम् यास्यति प्राप्स्यति किल निश्चयेन || किञ्च - उपभोगक्रममप्युपदिशति - दुःखक्षामा न खलु सहते बाढमाश्लेषमेषा, मबाहुभ्यां सदय ! मनसीदं स्वकीये विचार्य / Page #83 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) . कापीदस्याः प्रथममलिने मा भवान् स्नेहवत्या, सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् / / 104 / / व्याख्या - हे सदय ! दयया प्रियायाः क्लेशपरिजिही रूपया सहितः सदयः तदामन्त्रणम् 'दुःखक्षामा दुःखेन प्रियवियोगजनितेन पूर्वोक्तकष्टेन क्षमा कृषा एषा कोशा भद्बाहुभ्याम् मम स्थूलभद्रस्य बाहुभ्यां हस्ताभ्यां बाढम् दृढम् आश्लेषम् आलिङ्गनम् न खलु सहते नैव सोढुं शक्ष्यति' इदं पूर्वकथितरूपं वस्तु स्वकीये निजे मनसि चित्ते विचार्य अवधार्य भवान् स्थूलभद्रः स्नेहवत्या त्वयि परमस्निग्धायाः त्वत्परितोषाय स्वीयं दुःखमपि उपेक्षमाणाया अस्याः कोशायाः प्रथममिलने प्राथमिक समागमकाले सद्यः कष्ठच्युतभुजलताग्रन्थि सद्यः तत्कालमेव कण्ठात् गलप्रदेशात् च्युता पृष्ठदेशं प्राप्ता या भुजलता बाहुवल्लीतया ग्रन्थि परस्परस्य ग्रन्थनं यत्र तथाभूतम् गाढोपगूढम् गाढं दृढं यथा स्यात्तथा उपगूढम् आलिङ्गनम् माकार्षीत् नैव कुर्याः / / अत्र प्रथममिलने तस्या लज्जया संभावितां त्रुटिमाह - त्वामायातं शयनसदने वीक्ष्य लज्जाऽन्विताङ्गी, नो कुर्याच्चेत् तव सुहृदय ! स्वागतं सा सखी नः / स्नेहस्निग्धैर्मधुरवचनैराधिमुग्भिस्तदानीं, वक्तुं धीरः स्तनितवचनैर्मानिनी प्रक्रमेथाः / / 105 / / व्याख्या - ___ हे सहृदय ! सभानं हृदयं यस्य स सहृदयस्तत्सम्बोधनम्, शयनसदने शय्यागृहे त्वाम् भवन्तं आयातम् समागतं वीक्ष्य अवलोक्य लज्जानताङ्गी लज्जया बहुदिनानन्तरं प्रथमसमागमव्रीडया आनतं नम्रम् अङ्गं यस्याः Page #84 -------------------------------------------------------------------------- ________________ 77 शीलदूतम् (स्थुलभद्र चरित्रम्) सा, सा पूर्वोक्ता नः अस्माकं सखी आलिः कोशा, तव भवतः स्वागतं आगमनाभिनन्दनं चेत् यदि नो नैव कुर्यात् विदधीत, तदानीम् तस्मिन् समये धीरः धैर्यशाली (त्वं) स्नेहस्निग्धैः स्नेहेन प्रीत्या स्निग्धैः आर्दै: कोमलैः मधुरवचनैः मिष्टभाषणैः, आधिमुग्भिः मनोव्यथापहारकैः स्तनितवचनैः गर्जितवत् स्पष्टैर्वाक्यैश्च मानिनी प्रणयकोपशीलां कोशां प्रति वक्तुम् आलपितुं प्रक्रमेथाः उपक्रमं कुर्याः / / एवमुक्तेऽपि किमपि प्रत्युत्तरमलभमाना पृच्छति - किं काठिन्यं त्यजति न भवानागतोऽपि स्वगेहे, स्वीयां जायां न हि निजदृशा स्नेहतो वीक्षते पि ? / प्रावृट्कालो रंचयति मनांस्यध्वगानामयं द्राग, मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि / / 106 / / व्याख्या - स्वगेहे स्वीये गृहे आगतः पुनः प्राप्तः अपि भवान् काठिन्यं कठोरतां किम् कुतो न त्यजति न परिहरति ? हि यतः स्वीयां स्वाधीनां जायां पत्नी निजदृशा स्वदृष्टया स्नेहतः प्रेम्णा वोक्षतेऽपि अवलोकयन्त्यपि न ? अयं समुपस्थितः प्रावृट्कालः वर्षासमयः अध्वगानां पथिकानां मनांसि चेतांसि मन्द्रस्निग्धैः मन्द्रैः धीरैः स्निग्धैः आर्दै कोमलै र्वा ध्वनिभिः मेघशब्दैः अबलावेणिमोक्षोत्सुकानि अबलानां स्वस्वनारीणां वेण्याः केशग्रथनस्य मोक्षाय मोचनाय उत्सुकानि उत्कण्ठितानि द्राक् झटिति रचयति विदधाति / / पूर्वमियं कोशासखी श्रीस्थूलभद्रेण संमानिताऽऽसीदिति तत्स्मारणपूर्वकं स्ववचनस्य कर्तव्यतामाह - - मान्या तेऽहं सुभग ! सततं वच्मि तेनैव बाढं, . . .. वाक्यं मे तत् परिणतिशुभं मानयेदं वदान्य ! ! ! .. Page #85 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) ___ मत्तो ज्ञात्वा व्यतिकरममुं लप्स्यते निवृतिं सा, कान्तोदन्तः सुहृदुपहतः संगमात् किञ्चिदूनः / / 10 / / व्याख्या - हे सुभग ! अहं कोशा सखी ते भवतः सततं सर्व स्मिन् काले मान्या प्रतीक्ष्या (आसम्) तेन कारणेन एव केवलं, बाढम् अत्यर्थं वच्मि कथयामि, तत् तस्माद्धेतोः हे वदान्य ! परमोदार ! परिणतिशुभम् परिणतौ परिणामकाले शुभम् कल्याणकरम् मे मम इदं पूर्वोक्तं वाक्यं वचनं मानय अङ्गीकुरु | मत्तः मम मुखात् अमुं आवयोर्मध्येवृत्तं व्यतिकरम् वार्तालापादिवृत्तान्तं ज्ञात्वा अवगत्य सा कोशा निवृतिं सन्तोषं लप्स्यते प्राप्स्यति, अर्थान्तरोपन्यासेन समर्थयति सुहृदुपहृतः सुहृदा मित्रेण सख्या वा उपहृतः आनीतः कान्तोदन्तः कान्तस्य कान्ताया वा उदन्तः वृत्तान्तः सङ्गमात् साक्षान्मिलनात् कञ्चित् स्वल्पमेव ऊनः हीनः भवति / / पूर्वमावश्यकं कर्तव्यं कुशलपृच्छारूपमपि भवान्न कृतवानित्युपालभते - स्वामिन् ! जानन्नपि नयविधिं प्रोक्तवानन्यदन्यत्, क्षेमप्रश्न किमिति न भवानेकवारं चकार / विधेऽप्यस्मिन् खलु सुखभृतामप्यहो दैववश्ये, पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव / / 108 / / . व्याख्या - हे स्वामिन् ! नयविधिं लोकनीतिं जानन् विदन् अपि भवान् श्रीस्थूलभद्रः अन्यत् - अन्यत् कुशल प्रश्नादितरदितरद् वस्तु उक्तवान् कथितवान्, क्षेमप्रश्नं कुशलपृच्छाम् एकवारम् सकृदपि किमिति कस्यार्द्धतोः न चकार न कृतवान् अहो ! आश्चर्यम् / दैववश्ये भाग्याधीने अस्मिन् दृश्यमाने Page #86 -------------------------------------------------------------------------- ________________ 79 ___ शीलदूतम् (स्थुलभद्र चरित्रम्) विश्वेऽपि सर्वस्मिन्नपि जगति सुखभृताम् सुखैर्युक्तानामपि सुलभविपदां सुलभा अप्रत्याशिता एव प्राप्यमाणा विपदः दुःखानि यैः तथा भूतानां प्राणिनां जीवानां कृते एतद् एव केवलं कुशलप्रश्नः पूर्वाभाष्यम् पूर्व कथनीयं खलु निश्चयेन / / पुनरपि गेहादिप्रवेशायानुद्यतं प्रेरयति - गेहस्यान्तजति न भवान् भाषते नाऽपि पत्नी, सौधेऽपि स्वे वसति परवद् नो भजत्युग्रभोगान् / लप्स्ये स्वर्गे सुखमिति वृथा चिन्तितैस्तीव्रकृच्छैः, संकल्पै स्तै विशति विधिना वैरिणा रुद्धमार्गः / / 109 / / व्याख्या - भवान् ! श्रीस्थूलभद्रः गेहस्य आवास गृहस्य अन्तः मध्ये न व्रजति नैव गच्छति पत्नी दयिताम् कोशां नैव भाषते आलपति, स्वे अपि निजेऽपि सौधे प्रासादे परवत् अपरिचितोऽन्य इव वसति तिष्ठति, उग्रभोगान् उग्रान् दीप्तान् भोगान् विषयान् अशनपानादीन् वा न भजति न सेवते / वैरिणा शत्रुणा सुखंविरोधिना विधिना दैवेन अथ च यमनियमादिविधायकेनागमवाक्येन रुद्धमार्गः प्रतिबद्धमार्गः (त्वम्) चिन्तितः ध्यानैः तीव्रकृच्छै तीनैः कठोरैः कृच्छै व्रतैः, तैः सङ्कल्पैः तद्विषयकसङ्कल्पैः अनेन व्रतेनाहममुकं सुखं प्रार्थये इत्यादिभि व्रतपूर्वाभिलाष सूचकवाक्यैः स्वर्गे देवलोके सुखं वनितादिभोगं लप्स्ये प्राप्स्ये इति इत्थं वृथा व्यर्थमेव विशति उपविष्ट स्तिष्ठति / / एवमपि तूष्णीमेव तिष्ठन्तं, कोशावाक्यान्येव श्रावयति - - त्राता नस्त्वं सुभग ! शरणं जीवितव्यं त्वमेव, त्वं नः प्राणा हृदयमसि नस्त्वं पतिस्त्वं गतिर्नः / Page #87 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) ज्ञात्वाऽपीत्थं प्रिय ! परिहरन नो न किं लज्जसे सा ?, त्वामुत्कण्ठातरलितपदं मन्मुखेनेदमाह / / 110 / / व्याख्या - हे सुभग ! 'त्वं भवान् नः अस्माकं त्राता रक्षकः, (त्वं नः) शरणम् आश्रयः, (नः) जीवितव्यम् जीवनोद्देश्यम् त्वम् भवान् एव केवलः, त्वं नः अस्माकं प्राणाः प्राणवायुभूतः, त्वं नः हृदयम् अन्तःकरणम् असि भवसि त्वं नः पतिः स्वामी असिः, त्वं नः गतिः परायणम् असि, हे प्रियतम ! प्रियेषु अतिशयित ? इत्थं पूर्वरूपेण ज्ञात्वा अवगत्य अपि नः अस्मान् परिहरन् परित्यजन् किं कुतः न लज्जसे न त्रपसे' सा कोशा इदं पूर्वोक्तम् त्वाम् श्रीस्थूलभद्रम् मन्मुखेन मद्वदनद्वारा उत्कण्ठातरलितपदम् उत्कण्ठया औत्सुक्ये. न तरलितानि चञ्चलानि पदानि यस्मिन् तद्यथा स्यात् तथा आह कथयति अथाऽसौ स्थूलभद्रः स्वयमेव कोशां जैनधर्मे प्रेरयति .. श्रुत्वा साधुस्तदुदितमथोवाच कोशां च भूयो, धर्मं श्रीमज्जिननिगदितं चेद् भजेथास्त्वमार्ये ! / चातुर्येणाऽखिलयुवतिषु मातले तद्विशाले, हन्तैकस्थं क्वचिदपि न ते सुभ्र ! सादृश्यमिति / / 111 / / व्याख्या - स पूर्वोक्तः साधुः मुनिः श्रीस्थूलभद्रः तदुदितम् तस्याः सख्याः कोशायाश्च उदितम् कथनं श्रुत्वा निशम्य अथ अनन्तरम् भूयः पुनरपि उवाच जगाद हे आर्ये ! श्रेष्ठे त्वं भवती चेत् यदि श्रीमज्जिननिगदितं श्रीमता जिनेन सर्वज्ञेन निगदितं प्रतिपादितं धर्मं सुकृतं भजेथाः सेवेथाः, तत् तर्हि हेसुभ्र! शोभनभृकुटिसहिते विंशाले विस्तृते क्ष्मातले पृथिव्याम् सकलयुवतिषु सर्वत्र तरुणीवृन्दे क्वचिदपि कुत्रापि एकस्थं एकस्मिञ्जने स्थितं चातुर्येण पाटवेन Page #88 -------------------------------------------------------------------------- ________________ 81 __ शीलदूतम् (स्थुलभद्र चरित्रम्) ते तव सादृश्यं साम्यं न अस्ति न विद्यते / / अथात्मनः शीलसम्पत्तिमथ च स्त्रीसंपृक्तवस्तुनामपिवर्जनीयतामाह तुल्यं स्त्रैणं तृणमपि च मे शुद्धशीलप्रभावात्, प्रागासीना भवति भवती येषु येष्वासनेषु / नेहे ब्रह्मव्रतकृतरतिस्तन्वि ! तत्राऽऽसितुं तत् / पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति / / 112 / / व्याख्या - शुद्धशीलप्रभावात् शुद्धस्य निर्मलस्य शीलस्य ब्रह्मचर्यस्य प्रभावात् सामार्थ्यात् मे मम कृते स्त्रैणम् स्त्रीणां समूहः, तृणम् अपि घासाद्यपि च तुल्यम् समानोपयोगम्, न क्वचिदपि अनयो र्मूल्ये उपयोगे वा मे मनसि तारतम्यमस्ति / तत् तस्मात् भवती कोशा प्राक् इतः पूर्वम् येषु आसनेषु आस्तरेषु आसीना उपविष्टा भवति उपविशतीति यावत्, हे तन्वि ! कृशे? ब्रह्मव्रतकृतरतिः ब्रह्मार्थ विशुद्धज्ञानार्थं यत् व्रतं स्त्रीसम्पर्कपरिवर्जनादिकं तत्र कृता रतिः अनुरागों येन तथाभूतोऽहं, 'पूर्वम् इतः पूर्वकाले एभिः आसनैः तव भवत्या अङ्गं शरीरं स्पृष्टं संपृक्तं भवेत् स्यात् किल निश्चयेन' इति हेतोः तत्र आसनेषु तेषु आसितुम् न ईहे नेच्छामि / / अथैवं प्रत्याख्याय तद्गेह एवाखण्डचारित्रश्चातुर्मासीमतिवाह्याह चातुर्मास्यं समजनि शुभे ! पूर्णमेतत्सुखेन, त्वद्गेहे मे समभवदहो ! शीलहानिर्न काचित् / यायां पादानथ निजगुरोर्वन्दितुं कर्मनाशे, क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः / / 113 / / व्याख्या - हे शुभे ! कल्याणशीले त्वद्गेहे त्वदीयेऽस्मिन् गृहे मे मम एतत् Page #89 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) 82 प्रवर्तमानं चातुर्मास्यं चतुर्णां वार्षिकमासानां समाहारः चतुर्मासी तस्याः कर्म चातुर्मास्यम् ‘पतिराजान्त० [7-1-76]' इति ट्यण, चतुर्पु वार्षिकमासेषु विहितं कर्मेत्यर्थः सुखेन अनायासेन पूर्णम् सकलम् समजनि संजातम्, काचित् अज्ञाताऽपि शीलहानिः ब्रह्मचर्यभ्रंशः न समभवत् संजातः इति अहो ! आश्चर्यम् / अथ अतः परम् कर्मनाशे कर्मक्षये निजगुरोः स्वगुरोः पादान् चरणान् वन्दितुं प्रणन्तुं यायाम् गच्छेयम् / (यदि च तवापि मया सह गुरुवन्दनार्थमीहाभवेत् तन्न युक्तम् इत्याह) - क्रूरः कठोरः कृतान्तः साधुसिद्धान्तः तस्मिन् अपि गुरुपादवन्दनकर्मण्यपि नौ आवयोः संगमम् सहगमनम् न सहते न मृष्यति / / गमनकाले धर्मोपदेशं करोति - धर्म तावद् भजतु भवती वीतरागप्रणीतं, दानं शीलं तप इह शुभो भाव एवंप्रकारम् / गन्तव्यं वै सुतनु ? मयका प्रावृषोऽहानि नीत्वा, दिक्संसक्तप्रविरलघनव्यस्तसूर्यातपानि / / 114 / / व्याख्या - भवती कोशा तावत् दीक्षायाः पूर्वं वीतरागप्रणीतम् वीतः अपगतः रागो विषयासक्तिः यस्य स वीतरागः जिनेश्वरः तीर्थङ्करः तेन प्रणीतम् समुपदिष्टम् दानं सत्पात्रे अशन-पान-खादिम-स्वादिम-वस्त्र-पात्रादेः अथवा सत्कार्ये द्रव्यादेः वितरणं पञ्चप्रकारकमभयादिदानं, शीलं ब्रह्मचर्य अष्टादशसहस्रभेदवत् मैथुनत्यागरूपं तपः द्वादशभेदरूपं पञ्चाशद्भेदरूपं वा तपः कायिक-वाचिक-मानसिक क्लेशसाध्यमिति यावत् शुभः भावः उत्तमः कल्याणवान् भावः आशय श्च एवं प्रकारकम् इत्थं रूपं धर्म सुकृतम् इह अत्रैव स्थिता भजतु शीलयतु / हे सुतनु.! सुन्दरशरीरे ! सुकृशे ! वा मयका स्थूलभद्रेण दिक्संसक्तप्रविरलघनव्यस्तसूर्यातपानि Page #90 -------------------------------------------------------------------------- ________________ 83 शीलदूतम् (स्थुलभद्र चरित्रम्) दिक्षु संसक्ताः पर्यस्ता ये प्रविरला विकीर्णा घनाः मेघाः तैः व्यस्तः दूरं क्षिप्तः सूर्यातपः दिवाकरप्रतापः येषु तानि प्रावृषः वर्षाः अहानि दिनानि नीत्वा अतिवाह्य गन्तव्यम् त्वद्गृहं परित्यज्य विहारः कार्य इत्यर्थः || त्वद्विरहे दुःखितया मम कुतो धर्माचरणं संभवनेति चेदत्राह - ज्ञाते धर्मे जिननिगदिते तेऽपि नो भावि दुःखं, मुग्धे ! तस्मादिह परभवे लप्स्यसे त्वं च सौख्यम् / अस्मच्चेतो जिनमतगतं नाऽभजत् क्वापि दुःखं, गाढोष्माभिः कृतमशरणं त्वदवियोगव्यथाभिः / / 115 / / व्याख्या - हे मुग्धे सरले ! जिननिगदिते जिनेन सर्वज्ञेन प्रोक्ते धर्मे जैनधर्मे ज्ञाते परिचिते अभ्यस्ते च सति ते भवत्या अपि इह संसारे दुःखम् कामादि पीडा नो भावि नैव भविष्यति, तस्मात् धर्मात् कारणात् परभवे च उत्तरस्मिन् जन्मनि च त्वं भवती सौख्यं स्वर्गादिसुखमेव लप्स्यसे प्राप्स्यसि / गाढोष्माभिः गाढः घनीभूतः उष्मा तापः यासु ताभिः त्वद्वियोगव्यथाभिः तव भवत्या वियोगस्य विरहस्य व्यथाभिः पीडाभिः अशरणं आश्रयहीनं कृतं विहितम् अस्मच्चेतः मदीयं मनः क्वापि कस्मिन्नपि काले देशे वा दुःखम् कष्टं न अभजत् नान्वभवत् / / पुनरपि धर्मोपदेशमेव विदधाति जैने धर्मे कुरु निजमति निश्चलां तन्वि ! नित्यं, शीलं धेहीहितसुखकरं देहि दानं गुणिभ्यः / पापव्यापव्यतिकरजुषां धर्मभाजां च पुंसां, नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण / / 116 / / . Page #91 -------------------------------------------------------------------------- ________________ 84 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - हे नन्वि ! कृशे ! जैने जिनोक्ते धर्मे सुकृते नित्यं प्रतिदिनं निजमतिं स्वबुद्धिम् निश्चलां स्थिरां कुरु विधेहि, ईहितसुखकरं करोतीति करः, ईहितस्य सुखस्य करः ईहितसुखकरः तं शीलं ब्रह्मचर्यं शीलव्रतं धेहि धारय, गुणिभ्यः विद्वद्भ्यः दानं दीयते यद् तद् दानम् दातव्यं धनानि देहि वितर, कुत एतदनुष्ठेयमितिचेद् अत्राह - पापव्यापव्यतिकरजुषां पापानां व्यापन्नं पापव्यापः भावे घञ्, तस्य व्यतिकरः सम्बन्धो व्यशनं वा तं जुषन्ति सेवन्त इति तेषां, धर्मभाजां धार्मिकाणां च पुसां नराणाम् दशा तत्फलभोगावस्था चक्रनेमिक्रमेण चक्रस्य यः नेमिः प्रान्तभागः तस्य क्रमेण परिपाट्या नीचैः अधः उपरि ऊर्ध्वं च गच्छति / तपोऽनुष्ठातुमुपदिशन् तस्य प्रशंसामपि प्रस्तौति - शुद्धिं भद्रे ! रचय तपसा स्वस्य तेनात्मनस्त्वं, दृष्ट्वा क्लृप्तं मुनिभिरतुलं यद् वनस्थैस्त्रिशुद्ध्या / हर्षेणोच्चैर्दिवि दिविषदां पुष्पवृष्ट्या समं स्राग, मुक्तास्थूलास्तरुकिशलयेष्वश्रुलेशाः पतन्ति / / 117 / / व्याख्या - हे भद्रे ! कल्याणि ! तेन पूर्वोक्तेन धर्मभाजामूर्ध्वगतिरितिज्ञातेन, तपसा अशन-पान-खादिम-स्वादिम त्यागरूपोपवासादिविविधतपश्चर्यानुष्ठानैः आत्मनः स्वस्य शरीरस्य मनसः वाचश्च शुद्धिं निर्मलतां रचय विधेहि, वनस्थैः पुरं विहाय वने तिष्ठद्भिः मुनिभिः त्रिशुद्ध्या त्रयाणां कायमनोवचसां शुद्ध्या पवित्रीकरणेन क्लृप्तं विहितं यत् तपः दृष्ट्वा समवलोक्य हर्षेण आनन्दातिरेकेण दिवि स्वर्गे दिविषदां देवानां उच्चैः उन्नतयाउत्कृष्ट्या Page #92 -------------------------------------------------------------------------- ________________ 85 शीलदूतम् (स्थुलभद्र चरित्रम्) वा पुष्पवृष्ट्यां कुसुमवर्षणेन समं सह, मुक्तास्थूलाः मुक्तावत् मौक्तिकवत् स्थूलाः बृहन्तः अश्रुलेशाः अश्रुबिन्दवः तरुकिसलयेषु वृक्षाणां नूतनपत्रेषु स्राक् झटिति पतन्ति क्षरन्ति / / अथ प्रबुद्धा कोशोवाच - कोशा प्रोचे प्रिय ! विगलिता साऽद्य मे भोगतृष्णा, वाक्यैरेभिस्तव हृदि निजे या मयेत्थं धृताऽभूत् / आवां भूयो विरहविगमे भोगभङ्गी विचित्रां, निर्वेक्ष्याव: परिणतशरच्चन्द्रिकासु क्षपासु / / 118 / / व्याख्या - ___ कोशा नायिका प्रोचे प्रत्युत्तररूपेणोक्तवती किमित्याह - हे प्रिय ! स्वामिन् ! या भोगतृष्णा मया कोशया निजे स्वीये हृदि अन्तःकरणे धृता स्थापिता अभूत् आसीत् सा मे मम भोगतृष्णा भोगेषु आहार विहारादि विशेषोपयोगेषु या तृष्णा तीव्रोऽमिलाषः अद्य अस्मिन् दिवसे इत्थं पूर्वप्रकारोक्तैः एभिः सम्प्रत्येव श्रुतैः तव भवतः वाक्यैः उपदेशवचनैः विगलिता नष्टा / आवाम् अहं च त्वञ्च विरह विगमे वियोगकाले व्यतीते परिणतशरच्चन्द्रिकासु परिणता परिणामं पूर्ति प्राप्ता शरदः ऋतोः चन्द्रिका कौमुदी यासु तासु क्षपासु रात्रिषु विचित्रां अद्भुतां भोगभङ्गीं भोगानां स्रक्चन्दनाधुपयोगानां भङ्गीं परिपाटी निर्वेक्ष्यावः अनुभविष्यावः / / कोसाकामविकारशान्त्यर्थं धर्मोपदेशं प्रार्थयते - . .. स्वामिन् ! धर्माऽमृतरसमयं देहि दिव्यौषधं तद्, येनायं मे तुदति न मनो मन्मथाख्यो विकारः / त्वद् वाक्ये नोज्झितविषयया यद्वशादद्य रात्री, दृष्टः स्वप्नेऽकितव ! रमयन् कामपि त्वं मयेति / / 119 / / Page #93 -------------------------------------------------------------------------- ________________ 86 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - हे स्वामिन् ! धर्मामृतरसमयं धर्म एवामृतरसः अमृतस्यापि सारभूतः पदार्थः तन्मयम् तद्प्रचुरम् तद् प्रसिद्धं दिव्यौषधं दिवि भवम् दिव्यं तदौषधम् अगदं देहि वितर ! येन औषधेन अयं प्रत्यक्षमनुभूयमानः मन्मथाख्यः मन्मथ नामा विकारः शरीरस्य विकृति रूपः मे मम मनः चित्तं न तुदति न व्यथयति, हे अकितव ! अवञ्चक ! यद् वशात् यस्य मन्मथाख्य विकारस्य वशात् कारणात् अद्य रात्रौ अस्यामव्यहित व्यतीतायां निशि त्वद् वाक्येनोज्झितविषयया त्वदीयेन धर्मोपदेशमयेन वाक्येन परित्यक्तकामोपभोगयाऽपि मया कोशया त्वम् भवान् स्वप्ने स्वप्नावस्थायाम् कामपि मदतिरिक्तां रमणीं रमयन् रतिं कारयन् दृष्टः अवलोकितः / / अथासौ कोशाया भक्तिभावमवलोक्य प्रसन्नो नमस्कारमन्त्रं प्रादादित्याह - इत्युक्तोऽसौ चरणनतया कोशया भक्तिपूर्वं, त्वद् वृत्तेन प्रमुदितमनाः सादरं साधुराजः / प्रादादस्यै भवभयहरं स्वं नमस्कारमन्त्रं, प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव / / 120 / / व्याख्या - चरणनतया स्वपादपर्यन्तं नम्रीभूतया कोशया वेश्यया भक्तिपूर्वम् श्रद्धासहितम् इति पूर्वोक्तप्रकारेण उक्तः प्रार्थितः असौ पूर्वानुसृतवृत्तः, तदवृत्तेन तस्याः कोशाया वृत्तेन आचरणेन प्रमुदितमनाः प्रसन्नचेताः साधुराजः साधूनां राजेव मुख्य इवेति साधुराजः श्रीस्थूलभद्रमुनिवरः अस्यै कोशायै भवभयहरं संसारभीतिनिवारकं स्वं स्वेनपरिशीलितं नमस्कारमन्त्रं नमस्काराख्यं सुप्रसिद्धं महामन्त्रं सादरम् आदरसहितं प्रादात् उपदिदेश, हि यतः Page #94 -------------------------------------------------------------------------- ________________ 87 . शीलदूतम् (स्थुलभद्र चरित्रम्) ईप्सितार्थक्रिया ईप्सितस्य प्राप्तुमभिलषितस्य अर्थस्य प्रयोजनस्य क्रिया सम्पादनम् एव केवलम्, सतां सज्जनानाम् प्रणयिषु स्निग्धजनेषु प्रत्युक्तम् प्रतिवचनम् भवति / / अथापरमप्युपदेष्टव्यमुपदिशति - तामूचेऽसौ मनसि सततं मन्त्रमेनं स्मर त्वं, नित्यं भक्त्या त्रिभुवनगुरोर्जन्म सार्थं सृज स्वम् / शीलेनाऽलं विमलममले ! जैनधर्मं भजेथाः, प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः / / 121 / / व्याख्या - असौ श्रीस्थूलभद्रो मुनिप्रवरः ताम् कोशाम् ऊचे जगाद, किमित्याह - त्वं कोशा त्रिभुवनगुरोः त्रयाणां भुवनानां लोकानां समाहारः त्रिभुवनं तस्य गुरोः धर्मोपदेशकस्य एनं. पूर्वोपदिष्टम् मन्त्र श्रीनमस्कारमहामन्त्रं भक्त्या श्रद्धया नित्यं प्रतिदिनं सततं सर्वस्मिन् काले स्मर ध्यायस्व; स्वं निजं जन्म शरीर धारणं सार्थं सफलं सृज विधेहि / हे अमले ! निर्मले ! विमल सर्वदोषशून्यं जैनधर्मं जिनोपदिष्टं धर्मं शीलेन चारित्रानुशीलेनेन सह अलं अत्यन्तं भजेथाः सेवेथाः, प्रातःकुन्दप्रसवशिथिलं प्रातः प्राभातिकः कुन्दप्रसवः कुन्दाख्यपुष्पं तद्वत् शिथिलं सद्यः पतन धर्मि जीवितं जीवनं धारयेथाः बिभृयाः / / अथ तस्याः कृतकृत्यतामाह - - धन्यं मन्या मुनिवचनतोऽङ्गीचकाराऽखिलं तत्, प्रीतिं भेजे मनसि परमां साऽऽप्तसम्यक्त्वलाभा / दुष्टे द्वेषं गुरुनिगदिता यान्ति धर्मोपदेशा, इष्टे वस्तुन्युपचितरसा: प्रेमराशीभवन्ति / / 122 / / Page #95 -------------------------------------------------------------------------- ________________ 88 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - आप्तसम्यक्त्वलाभाः सम्यक्त्वस्य सम्यग्दर्शनस्यलाभः प्राप्तिः सम्यक्त्वलाभः आप्तः अधिगतः सम्यक्त्वलाभो यया सा आप्त सम्यक्त्वलाभा सा कोशा धन्यमन्या आत्मानं धन्यां मन्यते इति धन्यं मन्या कर्तुः खश् [51-117]' इति खशि ‘खित्यनव्ययारुषो मोन्तो ह्रस्वश्च [3-2-111]' इति मान्तत्वे ह्रस्वे च धन्यं मन्येति / मुनिवचनतः मुनिवाक्यात् अखिलं सर्वं.तत् साधूपदिष्टम् अङ्गीचकार स्वीचकार / धन्यं मन्यत्वपूर्वकं स्वाकारमर्थान्तरन्यासेन समर्थयति-गुरुनिगदिताः गुरुभिरुक्ताः धर्मोपदेशाः धर्मस्य सुकृताचरणस्य उपदेशाः आद्योच्चारणानि दुष्टे दुःशीले जने द्वेषं वैरुपतां यान्ति प्राप्नुवन्ति, इष्टे समुचिते प्रीतिपात्रे वा वस्तुनि पदार्थे शिष्यरूपे उपचितरसाः उपचितः वृद्धिंगतः रस आस्वादः परिणामो वा येषां तथाभूताः प्रेमराशीभवन्ति स्नेहसंघाततां यान्ति / / . अथ गन्तुकामोऽसौ शुभाशिषा तां सभा जयति . भद्रे ! भद्रं भवतु सततं ते जिनेन्द्रप्रसादाद् नन्तुं पादानथ निजगुरोरेष यास्यामि शस्यान् / / ध्यायन्त्यै श्रीजिनपरिवृढं शीलरत्नेन शधद् मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः / / 123 / / व्याख्या - हे भद्रे ! कल्याणि ! ते भवत्याः जिनेन्द्रप्रसादात् जिनेन्द्रस्य जिनश्रेष्ठस्य तीर्थङ्करस्य प्रसादात् प्रीतेः कारणात् भद्रं कल्याणं भवतु जायताम् / अथ एतदनन्तरम् एषः अहम् शस्यान् प्रशंसनीयान् निजगुरोः स्वगुरोः दीक्षादायकश्रीसम्भूतिविजय नाम्नः सद्गुरोः पादान् चरणान् नन्तुं वन्दितुं यास्यामि गमिष्यामि / एवं पूर्वोक्तरूपं श्रीजिनपरिवृढं श्रियायुक्तं जिनपरिवृढं जिनश्रेष्ठं शश्वत् सर्वदा ध्यायन्त्यै स्मरन्त्यै ते तुभ्यं विद्युता विद्योतते Page #96 -------------------------------------------------------------------------- ________________ 89 . शीलदूतम् (स्थुलभद्र चरित्रम्) सुप्रकालते इति विद्युत् तथाभूतेन शीलरत्नेन ब्रह्मचर्यरूपेण रत्नेन मणिना विप्रयोगः विरहितत्वं माभूत् न स्यात् / / अथ श्रीस्थूलभद्रस्य प्रस्थानमाह - नीत्वा मासानथ स चतुरस्तत्र शच्छीलशाली गत्या सूरीन् समयचतुरो भूरिभक्त्या ववन्दे / तस्थौ गेहे मनसि दधती सा सुखं जैनधर्म, केषां न स्यादभिमतफला प्राथना ह्युत्तमेषु ? / / 124 / / व्याख्या - अथ एतावदालापनन्तरम् सच्छीलशाली सता शोभमानेनशीलेन ब्रह्मचर्येण शालते शोभते, तच्छील इति सच्छीलशाली, समयचतुरः समये स्वसाम्प्रदायिकाचारे चतुर निपुणः सः स्थूलभद्रः तत्र कोशागृहे चतुरः चतुःसंख्याकान् मासान् नीत्वा अतिवाह्य, सूरीन् आचार्यान् गत्वा प्राप्य भूरिभक्त्या बहुतर श्रद्धया ववन्दे प्रणनाम् / मनसि चेतसि जैनधर्मं आर्हतं धर्मं दधती धारयन्ती सा कोशा गेहे स्वगृह एव सुखं कामपीडादिरहितं .यथा स्यात् तथा तस्थौ न्यवसत्, हि यतः केषां जनानाम् उत्तमेषु श्रेष्ठजनेषु (कृता) प्रार्थना याचना अभिमतफला अभिमतमिष्टं फलं परिणामो यस्याः तादृशी न स्यात् न भवेत्, अपि तु स्यादेवेति भावः / / ' अथोभयोरग्रिमं जीवनवृत्तमाह - यात्वा पारं समयजलधेः स्थूलभद्रः स भेजे, सूरीशत्वं भुवि जनमनो रजयामास कामम् / हित्वा तत्त्वामृततररसैः साऽपि चित्तं स्वमिद्धानिष्टान् भोगानविरतसुखं भोजयामास शचत् / / 125 / / Page #97 -------------------------------------------------------------------------- ________________ शीलंदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - सः पूर्वोक्तः स्थूलभद्रः तन्नाम्नः सुप्रसिद्धः श्रीस्थूलभद्रो मुनिप्रवरः समयजलधेः आचारसमुद्रस्य पारम् पर्यन्तं यात्वा प्राप्य, आचारान् सम्यक् परिसमाप्येति यावत् सूरीशत्वं आचार्यपदवीं भेजे प्राप्तवान्, कामम् अत्यन्तं जनमनः लोकचेतांसि रञ्जयामास प्रीणयामास | सापि कोशापि इद्धान् समृद्धान् इष्टान् पूर्वमभिमतान् भोगान् स्रक्चन्दनोत्तमशयनाशनादिकोपयोगान् हित्वा परित्यज्य स्वं निजं चित्तं हृदयं तत्त्वामृततरसैः तत्त्वस्य धार्मिकतत्त्वज्ञानरहस्यस्य अमृततरैः अमृतादप्यधिकै रसैः आस्वादानुभवैः अविरतसुखम् अविच्छिन्नमानन्दं शश्वत् सर्वदा भोजयामास अनुभावयां चकार || . . अथ श्रीस्थूलभद्रमुनिप्रवरकृतं धर्मप्रचारमाह - कुर्वनुर्वीवलयमखिलं जैनधर्माऽनुरक्तं, ' * व्यक्तं चित्रं विदधदतुलं शीलशक्त्या त्रिलोक्याम् / भूमीपीठे स्मरहठहरो दीर्घकालं विहारं, चक्रे वक्रेतरमतिरसौ स्थूलभद्रो मुनीन्द्रः / / 126 / / व्याख्या - वक्रेतरमतिः वक्रात् कुटिलात् इतरा भिन्ना-सरला मतिः बुद्धि यस्य सः, स्मरहठहरः स्मरस्य कामस्य हठं दुराग्रहं हरति नाशयतीति सः, असौ पूर्वोक्त चरितः स्थूलभद्रः तन्नामा मुनीन्द्रः मुनिषु इन्द्रः मुनीन्द्रः साधुश्रेष्ठः अखिलम् सम्पूर्णम् उर्वीवलम् भूमण्डलम् जैनधर्मानुरक्तम् आर्हतधर्मानुरागि कुवन विदधत्, शीलशक्त्या ब्रह्मचर्यप्रभावेण त्रिलोक्याम् त्रयाणां लोकानां समाहारः त्रिलोकी तस्याम्, अतुलम् अनुपमम् चित्रम् अद्भुतम् व्यक्तं प्रकटं यथा स्यात् तथा विदधत् कुर्वन् भूमीपीठे पृथ्वीतले दीर्घकालं बहुसमयं यावत् विहारं भ्रमणं चक्रे कृतवान् / / Page #98 -------------------------------------------------------------------------- ________________ 91 शीलदूतम् (स्थुलभद्र चरित्रम्) अथास्य स्वर्गप्राप्तिमाह - - सच्चारित्रं यतिपतिरसौ कर्मवल्लीलवित्रं, दीर्घ कालं कलितविमलज्ञानदानः प्रपाल्य / भेजे स्वर्गं त्रिदशललनालोचनाब्जाऽर्कतुल्यो, निःशल्यान्तर्निरुपमसुखं वीतनिःशेषदुःखम् / / 127 / / व्याख्या - कलितविमलज्ञानदानः कलितं विहितं विमलज्ञानस्य दानं येन सः असौ पूर्वोक्तः यतिपतिः मुनीन्द्रः कर्मवल्लीलवित्रम् कर्माण्येव वल्ल्यः लता तस्य लवित्रम् भेदकम् सच्चारित्रम् शुभसंयम दीर्घ कालं बहुसमयं यावत् प्रपाल्य पालयित्वा, त्रिदशललनालोचनाब्जार्कतुल्यः त्रिदशललनानां स्वर्वनितानां लोचनान्येव नेत्राण्येव अब्जानि कमलानि तेषां कृते अर्कतुल्यः सूर्यसदृशः यथाऽब्जानि सूर्योदयेऽतिविकसानि भवन्ति तथैव श्रीस्थूलभद्रमुनीन्द्रं स्वर्गमागच्छन्तं दृष्ट्वा स्वर्वनितानां लोचनानि विकसितानीति भावः निःशल्यान्तर्निरुपमसुखम् निःशल्यम् निरुपद्रव्यम् अन्तः अन्तःकरगस्य निरुपमम् अतुलं सुखं यत्र तम्, वीतनिःशेषदुःखम् वीतम् अपगतम् निःशेष सकलं दुःखं यत्र तम् स्वर्गं देवलोकं भेजे प्राय / / अथ कोशायाः स्वर्गप्राप्तिमाह - * * कोशाऽपि श्रीजिनमतरता शीलमाराध्य सम्यक्, पत्युः स्नेहादिव दिविषदां धाम सा स्राग् जगाम / आपद् व्यापद्रहितमतुलं तत्र सातं विशेषादत्राऽमुत्र प्रदिशति सुखं प्राणिनां जैनधर्मः / / 128 / / व्याख्या - श्रीजिनमतरता श्रियायुतं जिनमतं श्रीजिनमतं विश्वविख्यातः श्रीजैनधर्मः Page #99 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) 92 . तत्र रता अनुरागिणी सा पूर्वोक्ता कोशा अपि गणिका वेश्या अपि सम्यक् यथोचितम् शीलम् शीलगुणोपेतद्वादशव्रतं देशविरतिं आराध्य संसेव्य पत्युः स्वामिनः श्रीस्थूलभद्रस्य स्नेहात् प्रेम्ण इव इत्युत्प्रेक्षायाम् स्राक् झटिति . दिविषदां देवानां धाम स्वर्ग जगाम ययौ / तत्र स्वर्गे देवलोके व्यापद्रहितम् व्यापद्-दुःखं तेन रहितं शून्यम् अतुलं निरुपमं सातम् सुखम् विशेषात् - साधारण स्वर्गिभ्यो विशिष्टतया आपत् प्राप्नोत्, जैनधर्मः आर्हतधर्मः प्राणिनाम् जीवानाम् अत्र इहलोके अमुत्र परलोके परस्मिन् भवे च सुखं कल्याणं प्रदिशति ददाति / / अथ ग्रन्थकर्ता स्वपरिचयार्थं कुरुपरिचयमाह - तारायन्ते ततमतिभृतोऽप्यन्यतीर्थ्या इदानीं, विश्वे विश्वे खलु यदमलज्ञानभानुप्रभायाम् / सोऽयं श्रीमानवनिविदितो रत्नसिंहाख्यसूरि - जर्जीयाद् नित्यं नृपतिमहितः सत्तपोगच्छनेता / / 129 / / व्याख्या - यदमलज्ञानभानुप्रभायाम् यस्य रत्नसिंहसूरेः अमलं निर्मलं ज्ञानमेव भानुः सूर्यः तस्य प्रभायाम् प्रकाशे इदानी सम्प्रति विश्वे संसारे ततमतिभृतः तता विस्तृता मतीः बुद्धीः बिभ्रति इति तथा भूता अपि विश्वे सर्वे अन्यतीर्थ्याः अन्यसम्प्रदायलोकाः तारायन्ते नक्षत्राणीव प्रतीयन्ते खलु निश्चयेन सः अयम् प्रसिद्धः श्रीमान् श्रियायुतः अवनिविदितः भूतलप्रसिद्धः नृपतिमहितः नृपतिभिः नरेन्द्रैः महितः पूजितः सत्तपोगच्छनेता सतः प्रवर्तमानस्य तपोगच्छस्य श्रीजैनश्वेताम्बरमूर्तिपूजकसाधुसम्प्रदाय विशेषस्य नेता नायक: रत्नसिंहाख्यसूरिः रत्नसिंह नामा आचार्यः नित्यं प्रतिदिनं जीयात् सर्वाभिभावको भूयात् / / Page #100 -------------------------------------------------------------------------- ________________ शीलदूतम् (स्थुलभद्र चरित्रम्) अथात्मानमपि प्रकाशयन् ग्रन्थस्य प्रचारं कामयते - शिष्योऽमुष्याऽखिलबुधमुदे दक्षमुख्यस्य सूरेश्चारित्रादिर्धरणिवलये सुन्दराख्याप्रसिद्धः / चक्रे काव्यं सुललितमहो ! शीलदूताभिधानं, नन्द्यात् सार्धं जगति तदिदं स्थूलभद्रस्य कीर्त्या / / 130 / / व्याख्या - दक्षमुख्यस्य दक्षेषु चतुरेषु मुख्यस्य प्रधानस्य अमुष्य पूर्वकथितस्य श्रीरत्नसिंहस्य सूरेः आचार्यस्य शिष्यः अन्तेवासी दीक्षितो वा धरणिवलये पृथ्वीमण्डले चारित्रादिः चारित्रशब्द आदौ यस्य सः सुन्दराख्या प्रसिद्धः 'सुन्दर' इति नाम्ना ख्यातः 'चारित्रसुन्दर' इति यावत् सुललितं सुमनोहरम् शीलदूताभिधानम् शीलदूतम् (इति) अभिधानं नाम यस्य तत् काव्यं खण्डकाव्यं बुधजनमुदे बुधजनानां विदुषां मुदे हर्षाय चक्रे कृतवान् अहो! अद्भुतम्; तदिदं काव्यम् स्थूलभद्रस्य काव्ये कीर्तितस्य मुनेः कीर्त्या यशसा सार्द्ध सह नन्द्यात् समृद्धिं-प्रसिद्धिं वा गच्छेत् / / काव्यनिर्माणस्थानं समयं च निर्दिशति - . द्रङ्गे रङ्ग रतिकलतरे स्तम्भतीर्थाऽभिधाने, वर्षे हर्षाज्जलधिभुजगाऽम्भोधिचन्द्रे प्रमाणे / चक्रे काव्यं वरमिह मया स्तम्भनेशप्रसादात्, सद्भिः शोध्यं परहितपरैरस्तदोषैरसादात् / / 131 / / इति श्रीबृहत्तपोगच्छनायकभट्टारक श्रीरत्नसिंहसूरिशिष्यो पाध्याय श्रीचारित्रसुन्दरगणिविरचितं शीलदूताभिधानं समस्यामयं काव्यं समाप्तम् / Page #101 -------------------------------------------------------------------------- ________________ . 94 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - रङ्गः नाट्यशालागृहैः अतिकलतरे अतिशयमधुरे स्तम्भतीर्थाभिधाने स्तम्भतीर्थम् [सम्प्रति 'खम्भात'] इत्यभि धानमस्य तस्मिन् इह अत्र द्रङ्गे नगरे जलधिभुजगाम्भोधिचन्द्रे जलधयः सागराः (चत्वारः 4 सप्त 7 वा). भुजगा नागाः (अष्टौ 8) अम्भोधयः समुद्राः (चत्वारः 4) चन्द्रः शशी (एक: 1) अङ्कानां वामतो गतिरिति नयात् 1484 चतुरशीत्यधिक चतुर्दशशतानि, 1487 सप्ताशीत्यधिकचतुर्दश शतानि वा यस्मिन् तादृशे प्रमाणे कालमाने वर्षे. विक्रमवत्सरे स्तम्भनेशप्रसादात् स्तम्भनेशस्य श्रीस्तम्भनपार्श्वनाथभगवतः प्रसादात् कृपातः हर्षात् आनन्दातिरेकात् वरं श्रेष्ठं काव्यं शीलदूतम् मया वाचकश्रीचारित्र सुन्दरगणिना चक्रे कृतम् (तत्) परिहितपरैः परोपकारनिरतैः अस्तदोषैः ईर्ष्यामत्सरादिदोषशून्यैः सद्भिः सज्जनैः असादात् अखेदात् शोध्यम् परिशोधनीयम् / / 131 / / Page #102 -------------------------------------------------------------------------- ________________ 38 38 प्रकाशयित्री पू. आ. भ. श्री जिनप्रभसूरि जैन ग्रंथमाला C/o रसीकभाई एम. शाह ए-८, धवलगिरी फ्लेट, खानपुर, बहाई सेन्टर, अहमदाबाद-१. मोबाईल : 9904501221 V VARDHMAN 079-22860785 M: 92275272441