________________ 65. शीलदूतम् (स्थुलभद्र चरित्रम्) अन्यादृक् स्यात् तदपि च गते यौवने देहभाजां, सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् / / 87 / / व्याख्या - __ हे मुग्धे ! सरले ! सरसमधुराहारयोगेण सरसानाम् आस्वादवताम् रसयुक्तानां वा मधुराणां मिष्टानाम् आहाराणां भोजनानां योगेन उपयोगेन शश्वत् सर्वदा पुष्टं वृद्धिं नीतम् यद् वपुः शरीरं, तारुण्ये यौवने सति विद्यमाने भूरि बहुतमं विभ्रमं विलासं दत्ते अर्पयति, तद् अपि शरीरम् देहभाजां प्राणिनां यौवने तारुण्ये गते अतिक्रान्ते (सति) अन्यादृक् विसदृशं स्यात् (एतदर्थान्तरन्यासोपन्यासेन समर्थयति) सूर्यापाये भास्करेऽस्तंगते सति कमलं पद्मं स्वाम् निजाम् अभिख्याम् शोभाम् न खलु नैव पुष्यति धारयति / एवं च संसारानित्यतां जानतो मे मोहनाय तव चेष्टा वृथैवेत्याह मत्वाऽनित्यं जगदिति मनो मे विलग्नं जिनोक्ते, धर्मे शर्माभिलषति परं शाधतं शुद्धचित्ते ! / मुग्धे ! स्निग्धां रचयसि मुधा मामुदीक्ष्य स्वकीयां, खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् / / 88 / / * 'व्याख्या - __हे शुद्धचिते ! शुद्धं मया निर्विकारेण पुंसा सह संभाषणात् पवित्रं चित्तं मनो यस्याः तदामन्त्रणम्, इति पूर्वोक्तप्रकारेण जगत् संसारम् अनित्यं विनाशि मत्त्वा ज्ञात्वा जिनोक्ते जिनैः तीर्थङ्करैः उक्ते कथिते धर्मे श्रेयः साधनोपाये विलग्नं निरतं मे मम मनः चित्तम् शाश्वतम् नित्यं परम् उत्कृष्टं शर्म कल्याणम् अभिलषति वाञ्छति [न तु क्षणभगुरं लौकिक सुखमिति भावः] (अतः) हे मुग्धे ! सरले ! माम् स्थूलभद्रम् उदोक्ष्य