________________ शीलदूतम् (स्थुलभद्र चरित्रम्) | उच्चैरवलोक्य, स्वकीयां निजां खद्योतालीविलसितनिभां खद्योतालीनाम् ज्योतिरिङ्गणसमूहानाम् विलसितेन निभा तुल्या ताम् विद्युदुन्मेष दृष्टिम् विद्युताम् तडिताम् उन्मेषवत् स्फुरणवत् उन्मेषः उम्मीलनं यत्र तादृशीं दृष्टिं विलोकनम् मुधा वृथा रचयसि करोषि / पुनरपि स्वस्य वीतरागत्वं द्रढयति - नारी यस्मिन्नमृतसदृशी मे बभूवाद्य यावद्, . रागग्रस्ते मनसि मदनव्यालविध्वस्तसंज्ञे / ध्वस्ते रागे गुरुभिरभवत् क्ष्वेडवत् साऽप्यनिष्टा या तत्र स्याद् युवतिविषये सृष्टिरायेव धातुः / / 89 / / व्याख्या - - मदनव्यालविध्वस्तसंज्ञे मदनः काम एव व्यालः सर्पः तेन विध्वस्ता नष्टा संज्ञा हिताहितज्ञानशक्तिः यस्य तस्मिन्, रागग्रस्ते रागेण विषयाभिलाषेण ग्रस्तेऽभिभूते यस्मिन् मे मम मनसि चित्ते अद्य यावत् इतः कालात् पूर्व नारी स्त्री अमृतसदृशी पीयूषतुल्या बभूव आसीत्,' गुरुभिः ज्ञानोपदेशकैः रागे विषयासक्तौ ध्वस्ते दूरीकृते (सति) या स्त्री तत्र युवतिविषये तस्मिन् तरुणी समाजे धातुः ब्रह्मणः आद्या प्रथमा सर्वश्रेष्ठेति यावत् इव स्यात् भवेत् सा अपि क्ष्वेडवत् विषवत् अनिष्टा अहितकारी अभवत् जाता | . पुनरपि स्वशील मेवाह - अज्ञानं मे सपदि गलितं मोहमूर्छाऽप्यनेशज्जातं चित्तं सुतनु ! मम तनिर्विकारं क्षणेन / स्वस्रा मृत्योरिव हि जरसा ग्रस्यमानां तनुं स्वां, मन्ये जातां तुहिनमथितां पद्मिनी वाऽन्यरूपाम् / / 10 / /