________________ शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - मे मम स्थूलभद्रस्य अज्ञानं वस्तुतत्त्वाच्छादकं तत् सपदि शीघ्रं गलितं विशीर्णम्, मोहनिद्रा मोहः तत्त्वातत्त्वविवेकाक्षमत्वम् एव निद्रा सुप्तिः सा अपि अनेशत् नाशं गता, हे सुतनु ? सुदेहे कोशे ! मम स्थूलभद्रस्य तत् पूर्वोक्तम् अज्ञानशून्यं विगलितमोहं च चित्तं मनः क्षणेन झटित्येव निर्विकारं कामादिविकार रहितं जातम् अभूत् / तत्र कारणमाह - हि यतः मृत्योः यमस्य मरणरूपस्य मरणरूपस्य वा भावस्य स्वस्रा भगिन्या इव जरसा वृद्धत्वेन जीर्णतया वा ग्रस्यमानां कवलीक्रियमाणां स्वां निजां तनुं शरीरं तुहिनमथितां हिम मर्दितां पद्मिनी कमलिनी वा इव ('व वा यथा तथैवैवं साम्ये' इत्यमरः) अन्यरूपां विसदृशीं जातां भूतां मन्ये अवगच्छामि / अथैवं प्रत्याख्यातां निजसखी कोशा वीक्ष्य तत् सखी काचिदाह तस्मिन्नेवं वदति चतुरोवाच तस्या वयस्या, जातं किं ते सुभग ! हृदयं निर्दयं बाढमेतत् ? / पश्याऽस्यास्त्वं तव विरहतो वक्त्रमभ्रास्तदीप्तेरिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्ते बिभर्ति / / 11 / / व्याख्या - तस्मन् स्थूलभद्रे एवं पूर्वोक्तरूपेण वदति कथयति (सति) चतुरा अभिप्रायज्ञाननिपुणा वयस्या वयसा तुल्य वयस्या हृद्यपद्य० (7-1-11) इति या] समानवयाः सखी उवाच वक्ष्यमाणां वचनं जगाद, हे सुभग ? सुन्दर ! सौभाग्यशालिन् वा एतत् वचसाऽनुमीयमानं ते तव हृदयम् अन्तःकरणं बाढम् बाह्यते स्म इत्यर्थे 'क्षुब्धविरिब्ध० (4-4-91) इति निपातनात् बाढम् दृढं तीव्र वा ('अत्यर्थे गाढमुद्गाढं बाढं तीव्र भृशं दृढम्' अभि० 6-141) निर्दयं परदुःखप्रहाणेच्छारूपदयाशून्यं किं कुतः