________________ 68 शीलदूतम् (स्थुलभद्र चरित्रम्) कारणात् जातं सम्पन्नम्, तव भवतः विरहतः वियोगाद्धेतोः अस्याः मम सख्याः कोशायाः वक्त्रम् मुखम्, अभ्रास्तदीप्तेः अभ्रेण मेघेन अस्ता क्षिप्ता दीप्तिः कान्तिर्यस्य तादृशस्य त्वदनुसरणसरणक्लिष्टकान्तेः त्वदनुसरणेन त्वन्मुखतुल्यताप्राप्ति हेतोस्तवानुनमनक्लेशे क्लिष्टा दूषिता कान्तिः शोभा यस्य तादृशस्य च इन्दोः चन्द्रस्य दैन्यम् आर्तिम् बिभर्ति धारयति (इति) त्वं स्थूलभद्रः पश्य अवलोकय / कोशाया एव विरहावस्थां वर्णयति - एषाऽनैषीत् सुभग ! दिवसान कल्पतुल्यानियन्त, कालं बाला बहुलसलिलं लोचनाभ्यां स्रवन्ती / अस्थाद् दुस्था तव हि विरहे माभियं वार्त्तयन्ती, कच्चित्भर्तुः स्मरसि रसिके ! त्वं हि तस्य प्रियेति / / 92 / / व्याख्या - हे सुभग ! एषा दृश्यमाना बाला अल्पोपयात यौवनोद्भेदा कौशा लोचनाभ्यां नेत्राभ्यां बहुलसलिलं अधिकाधिकं जलम्-अश्रु सवन्ती क्षरन्ती इयन्तं तत्र विरहदिनादारभ्याद्यपर्यन्तं कालं समयं यावत् 'कालाध्वनोर्व्याप्ती (2-2-42) इति द्वितीया, कल्पतुल्यान् कल्पेन दैवयुगसहस्त्रेण तुल्यान् समान् ('दैवे युगसहस्त्रे द्वे ब्राह्म (वर्षम्) कल्पौ तु ते नृणाम्' अभि० 274) दिवसान् वासरान् अनैषीत् अत्यवाहयत्; हि यतः तव भवतः विरहे वियोगे दुःस्था दुःखेन स्थितिमती इयम् कोशा हे रसिके ! सरसे ! भर्तुः स्थूलभद्रस्य स्मरसि निध्यायसि कच्चित् किम्, हि यतः त्वं तस्य स्थूलभद्रस्य प्रिया प्रीतिपात्रम् (आसीः) इति पूर्वोक्तरूपेण मां तद्वयस्यां वार्तयन्तो आलपन्ती अस्थात् सर्वदेवमालायलग्नवासीत् /