SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) पुनरपि कोशाया एवास्थान्तरं वर्णयति - मून्तेि सा सुभग ! रुदती वारिता दीननादं, प्रातः सातं सखि ! वद कदाऽसौ समेतेत्यवग् माम् / लातुं वेलां तव सुललितं गीतमुद्गातुकामा, भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती / / 93 / / व्याख्या - हे सुभग ! वेलां समयं लातुं कथमपि अतिवाहयि तुम्, तव भवतः सुललितं सुमधुरं गीतम् गानविषयम् उद्गातुकामा उद्गातुम् उच्चैः परश्रसणगोचररूपेण गातुं कामोऽभिलाषो यस्याः सा, ('तुमश्च मनःकामे (3-4-140) इति तुमो मस्य लुक्) स्वयमपि स्वेनैव कृतां विहितां मूर्च्छनाम् स्वराणामारोहावरोक्रमविशेषं / 'स्वरः संमूर्छितो यत्र, रागतां प्रतिपद्यते / मूर्च्छनामिति तां प्राहुः, कवयो ग्राम संभवाम् / / ' इति सङ्गीतशास्त्रोक्तरूपाम् भूयो भूयः वारं-वारं विस्मरन्ती अनवदधाता, मूर्छान्ते स्मरकृतासु नयनप्रीत्यादिषु दशसु स्मर दशासु नवमी मोहरूपा दर्शा मूर्छा तस्या अन्ते विगमे दीननादम् दीनवत् नदनं यथा स्यात् तथा रुदती रोदनं विदधती वारिता प्रतिरुद्धा सा कोशा 'हे सखि ! समानहृदये ! असौ दूरं गतः स्थूलभद्रः कदा कस्मिन् दिवसे काले वा समेता समागन्ता (इति) प्रातःसातं प्रातः कालिकं माङ्गलिकं वस्तु वद कथय' इति इत्थं माम् तत्सखीं अवक् अकथयत् (वचेरनद्यतन्यां प्रथम पुरुषैकवचने रूपम्) / पुनरस्या एव विरहदशां वर्णयति - पृष्ट्वा पृष्ट्वा गणकनिचयं जीवितं धारयन्ती, नीत्वा नीत्वा कथमपि दिनान्यङ्गुलीभिर्लिखन्ती / गत्वा गत्वा पुनरपि पुनरि तस्थौ च गेहे, प्रायेणेते रमणविरहेष्वङ्गनानां विनोदाः / / 94 / / .
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy