________________ 70 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - (एषा कोशा) गणकनिचयं ज्योतिर्विदां समूहं पृष्ट्वा-पृष्ट्वा कदा मे प्रियः समागन्ता इति भूयो भूयः प्रश्नं कृत्वा कृत्वा (तदुत्तरानुसारं) जीवितं प्राणान् धारयन्ती न परित्यजन्ती, अगुलीभिः करावयवैः लिखन्ती गणयन्ती दिनानि वासरान् कथमपि केनापि प्रकारेण नीत्वा-नीत्वा अतिवाह्यातिवाह्य, पुनः पुनः अपि भूयो भूयोऽपि द्वारि गृहाग्रभूमौ गत्वा-गत्वा पौनः पुन्येन गमनमाधाय, गेहे स्वावासे तस्थौ स्थिरा बभूव / एतच्चार्थान्तरन्यासेन समर्थयति-रमणविरहेषु प्रणयिवियोगेषु सत्सु एते पूर्वोक्ताः पौनः पुन्येनैक क्रियानुष्ठानरूपाः प्रायेण बाहुल्येन अङ्गनानां स्त्रीणां विनोदाः मनोऽपनोदनसाधनानि (भवन्ति) / / पुनस्तदवस्थमेव वर्णयति - .. श्रृङ्गारं स्वं सुभग ! विरहेऽङ्गारवत् संत्यजन्ती, दुःखेनाऽलं निजपरिजनं दु:खदिग्धं सृजन्ती / प्रेम्णा बद्धां निपुण ! भवता तां मुहुः संस्पृशन्ती, गण्डाभोगात् कठिनविषमामेकवेणी करेण / / 15 / / व्याख्या - हे सुभग ! विरहे तव वियोगस्य समये स्वं निजं श्रृङ्गारं भूषणम् अङ्गारवत् वह्निकणवत् सन्त्य जन्ती परिहरन्ती, दुःखेन स्वीयेन कष्टेन निजपरिजनं स्वसेवकवर्गम् अलम् अत्यन्तं दुःखदिग्धं कष्टलिप्तं सृजन्तो रचयन्ती हे निपुण ! चतुर ! भवता त्वया प्रेम्णाः स्नेहेन बद्धां रचितां कठिनविषमाम् कठोरां निम्नोन्नतां च तां परिचिताम् एकवेणीम् एकीभूतां केशजूटिकां गण्डाभोगात् गण्डस्थलमारभ्य मुहुः वारं वारं (यब्लोपे पञ्चमी) संस्पृशन्ती आभृशन्ती तस्थौ - इति पूर्वोक्ता क्रियाऽत्राप्यनु सन्धेया / /