SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 71 . शीलदूतम् (स्थुलभद्र चरित्रम्) तव संयोगस्यावस्थायां यदभूत् तद्विपरीतं वियोगे भवतीत्याह - नीता रात्रिः क्षण इव पुरा या त्वयेद्धाऽपि सार्द्ध, क्रीडायोगैः सुरतजनितै श्चारुभोगोपभोगैः / निःश्वासौधैर्निजतनुगतं चन्दनं शोषयन्ती, . तामेवोष्ण विरहजनितैरश्रुभिर्व्यापयन्ती / / 16 / / व्याख्या - __पुरा पूर्वं (तव संयोगे सति) या यत्परिमाणा रात्रिः निशा इद्धा दीप्ता अपि त्वया भवता साद्ध सह योगैः लालाविलासैः सुरतजनितैः मैथुनादिसमयोत्पन्नैः चारुभोगोपभोगैः चारुभिः सुन्दरैः भोगोपभोगैः भोगानामुपभोगैः सेवनैः क्षण इव क्षणतुल्यं नीता अतिवाहिता, निःश्वासौधैः विरहजनितदीर्घश्वाससमूहैः निजतनुगतं स्वदेहस्थितं चन्दनं श्रीखण्डचन्दनं शोषयन्ती शुष्क कुर्वती विरहजनितैः वियोगकालोत्पन्नैः उष्णैः तप्तैः अश्रुभिः नेत्रजलैः तामेव रात्रिं व्यामयन्ती व्यापिकांदी(भूतां कुर्वती, (तस्थौ) / / अपि च - दत्त्वा दुःखं मम किमु सुखं हा ! विधातस्त्वयाऽऽप्तं ? जानात्यन्यो न हि परगतां वेदनां वाऽत्र कश्चित् / निन्दित्वाऽलं विविधवचनैर्दैवमेवं प्रमीला - माकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशाम् / / 17 / / व्याख्या - (एषा) हा विधातः ! दैव ! मम कोशाया दुःखं कष्टं दत्त्वा वितीर्य त्वया भवता किमु किं रूपं सुखम् आनन्दः आप्तम् प्राप्तम्, पक्षान्तररूपेणार्थान्तरमुपत्यस्यैतत्समर्थयति वा अथवा अत्र लोके कश्चित् कोऽपि अन्यः दुःखभाजो भिन्नः परगताम् परस्मिन् दुःखभाजि जने स्थितां
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy