________________ शीलदूतम् (स्थुलभद्र चरित्रम्) . 72 वेदनां पीडां न जानाति नैवानुभवति / एवम् उक्तप्रकारेण विविधवचनैः नानावाक्यैः दैवं विधातारम् अलम् अत्यन्तम् निन्दित्वा तिरस्कुर्वता नयनसलिलोत्पीडरुद्धावकाशाम् नयनसलिलानां नेत्रजलानाम् उत्पीडेन प्रबाधेन रुद्धः प्रतिबद्धः अवकाशः स्वरूपप्राप्त्यवसरः यस्याः तां प्रमीलाम् मूर्छाम् आकाङ्क्षन्ती अभिलष्यन्ती (तस्थौ) / / . किञ्च - संमृज्याश्रुप्लुतमथ निजं दिक्षु चक्षुः क्षिपन्ती, क्षौमान्तेन स्वमनसि जगज्जानती शून्यमेतत् / स्मृत्वा स्मृत्वा तव गुणगणं भूमिपीठे लुठन्ती, साभ्रेऽनीव स्थलकमलिनी न प्रबुद्धा न सुप्ता / / 98 / / व्याख्या - अथ पूर्वोक्तरोदनान्तरं प्लुतम् चक्षुषिव्याप्तम् अश्रु नेत्रजलम् क्षौमान्तेन वस्त्रप्रान्तेन संमृज्य प्रोञ्छ्य, निजं स्वीयं चक्षुः नेत्रं दिक्षु सर्वतः क्षिपन्ती प्रेरयन्ती स्वमनसि स्वचित्ते एतत् दृश्यमानं जगत् संसारं शून्यं जनरहितं जानती निश्चिन्वाना तव भवतः गुणगणं दयादाक्षिण्यादिगुणसमूहं स्मृत्वास्मृत्वा ध्यात्वा-ध्यात्वा भूमिपीठे महीतले लुठन्ती परिवर्त्तमाना साभ्रे मेघसहिते अनि दिने स्थलकमलिनी भूपद्मिनी इव न प्रबुद्धा न जागरिता प्रफुल्ला वा, न सुप्ता निद्रिता मुकुलिता वा / / आत्मनो दुःखं प्रकटयन्ती सख्याः कोशाया उपरि दयां प्रार्थयते-. आलोक्याऽस्यास्तव विरहजं चेष्टितं यन्न भिन्नं, तज्जानीमो वयमिति निजं वज्रसारं हृदेतत् / कारुण्यं तत्सदयहृदयाऽत्रोचितं ते विधातुं, प्रायः सर्वो भवति करुणावृत्तिराद्रन्तरात्मा / / 99 / / .