SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) अथात्मानमपि प्रकाशयन् ग्रन्थस्य प्रचारं कामयते - शिष्योऽमुष्याऽखिलबुधमुदे दक्षमुख्यस्य सूरेश्चारित्रादिर्धरणिवलये सुन्दराख्याप्रसिद्धः / चक्रे काव्यं सुललितमहो ! शीलदूताभिधानं, नन्द्यात् सार्धं जगति तदिदं स्थूलभद्रस्य कीर्त्या / / 130 / / व्याख्या - दक्षमुख्यस्य दक्षेषु चतुरेषु मुख्यस्य प्रधानस्य अमुष्य पूर्वकथितस्य श्रीरत्नसिंहस्य सूरेः आचार्यस्य शिष्यः अन्तेवासी दीक्षितो वा धरणिवलये पृथ्वीमण्डले चारित्रादिः चारित्रशब्द आदौ यस्य सः सुन्दराख्या प्रसिद्धः 'सुन्दर' इति नाम्ना ख्यातः 'चारित्रसुन्दर' इति यावत् सुललितं सुमनोहरम् शीलदूताभिधानम् शीलदूतम् (इति) अभिधानं नाम यस्य तत् काव्यं खण्डकाव्यं बुधजनमुदे बुधजनानां विदुषां मुदे हर्षाय चक्रे कृतवान् अहो! अद्भुतम्; तदिदं काव्यम् स्थूलभद्रस्य काव्ये कीर्तितस्य मुनेः कीर्त्या यशसा सार्द्ध सह नन्द्यात् समृद्धिं-प्रसिद्धिं वा गच्छेत् / / काव्यनिर्माणस्थानं समयं च निर्दिशति - . द्रङ्गे रङ्ग रतिकलतरे स्तम्भतीर्थाऽभिधाने, वर्षे हर्षाज्जलधिभुजगाऽम्भोधिचन्द्रे प्रमाणे / चक्रे काव्यं वरमिह मया स्तम्भनेशप्रसादात्, सद्भिः शोध्यं परहितपरैरस्तदोषैरसादात् / / 131 / / इति श्रीबृहत्तपोगच्छनायकभट्टारक श्रीरत्नसिंहसूरिशिष्यो पाध्याय श्रीचारित्रसुन्दरगणिविरचितं शीलदूताभिधानं समस्यामयं काव्यं समाप्तम् /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy