SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ . 94 शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - रङ्गः नाट्यशालागृहैः अतिकलतरे अतिशयमधुरे स्तम्भतीर्थाभिधाने स्तम्भतीर्थम् [सम्प्रति 'खम्भात'] इत्यभि धानमस्य तस्मिन् इह अत्र द्रङ्गे नगरे जलधिभुजगाम्भोधिचन्द्रे जलधयः सागराः (चत्वारः 4 सप्त 7 वा). भुजगा नागाः (अष्टौ 8) अम्भोधयः समुद्राः (चत्वारः 4) चन्द्रः शशी (एक: 1) अङ्कानां वामतो गतिरिति नयात् 1484 चतुरशीत्यधिक चतुर्दशशतानि, 1487 सप्ताशीत्यधिकचतुर्दश शतानि वा यस्मिन् तादृशे प्रमाणे कालमाने वर्षे. विक्रमवत्सरे स्तम्भनेशप्रसादात् स्तम्भनेशस्य श्रीस्तम्भनपार्श्वनाथभगवतः प्रसादात् कृपातः हर्षात् आनन्दातिरेकात् वरं श्रेष्ठं काव्यं शीलदूतम् मया वाचकश्रीचारित्र सुन्दरगणिना चक्रे कृतम् (तत्) परिहितपरैः परोपकारनिरतैः अस्तदोषैः ईर्ष्यामत्सरादिदोषशून्यैः सद्भिः सज्जनैः असादात् अखेदात् शोध्यम् परिशोधनीयम् / / 131 / /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy