SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ शीलदूतम् (स्थुलभद्र चरित्रम्) ... 24 इत्यादिना / नन्दिषेण राजगृहनगर्या राज्ञः श्रेणिकस्य पुत्रः अपि चिरविरचितम् अनेकजन्मार्जितम् उच्चैः उत्तमम् चारित्रम् चर्यते अनुष्ठीयते इति चरित्रम्, चरतेः 'लूघूसूखनिचरसहार्ते [5-2-87] इति इत्रः, चरित्रमेव चारित्रम् प्रज्ञादित्वात् अण्, -शीलम्, प्रोज्झ्य परित्यज्य वेश्याऽऽवासे वेश्यायाः गणिकाया आवासे गृहे (तया सह रमणार्थम्) न तस्थौ स्थितः किम् ? इति काकु प्रश्ने, अपि तु स्थित एवेति भावः / अर्थान्तरन्यासालङ्कारेणैतत् समर्थयति - वा अथवा वेत्रवत्या एतन्नामकनद्याः चलोर्मि चलाः चञ्चला ऊर्मयः तरङ्गा यत्र तथाभूतम् शुचि स्वच्छम् पवित्रं वा सुललितं बहुसुन्दरम् पयः जलम् इव यथा, वारनार्याः बेश्यायाः सभ्रूभङ्गम् भ्रू भङ्गः कटाक्षविक्षेपैः सहितम् मुखम् वदनं वीक्ष्य अवलोक्य कः जनः न मुह्येत् चेतो वैकृतं प्राप्नुयात् इति काकु प्रश्नेन सर्व एव जनः तादृशं गणिकामुखं वीक्ष्य मुह्ये देवेति व्यज्यते / अथोद्दीपनविभावं भोगयोग्यस्थानादि वर्णयति - क्रीडाशैलो वर ! गुरुरयं राजते ते पुरस्ताच्चक्रे केलिः किल सह मया यत्र चित्रा त्वया प्राक् / स्निग्धच्छायै विमलसलिलैः सत्फलैर्यो जनाना मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि / / 27 / / व्याख्या - हे वर ! प्रियते प्रियत्वेन स्वीक्रियते इति वरः तदामन्त्रणम्, गुरुः विशालः अयं अग्रे दृश्यमानः क्रीडाशैलः क्रीडार्थं निर्मितः कृत्रिम पर्वतः ते भवतः पुरस्तात् समक्षं राजते शोभते / अस्य पूर्वोपभुक्तत्वेन परिचयं ददाति - यत्र पर्वते प्राक् यतिभावस्वीकारात् पूर्वं अर्थात् श्रीसम्भूतिविजयगुरुपार्श्वे दीक्षा ग्रहण पूर्वमित्यर्थः त्वया स्थूलभद्रेण मया - कोशया प्रिययासह सार्धं चित्रा अद्भुता केलिः रतिक्रीडा चक्रे कृता / यः क्रीडाशैलः
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy