SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 25 . शीलदूतम् (स्थुलभद्र चरित्रम्) स्निग्धच्छायैः स्निग्धा स्पृहणीया च्छाया अनातप प्रदेशो यत्र तादृशैः, विमलजलैः विमलानि अतिस्वच्छानि जलानि येषु तैः सत्फलैः सद्भिः स्वादिष्टतरैः फलैश्च (युक्तैः) शिलावेश्मभिः प्रस्तरागारैः जनानाम् एतत् प्रदेशवर्तिलोकानाम्, उद्दामानि उद्गतं निः सृतं दामप्रसरणनिवारकबन्धनरज्जुः येभ्यः तादृशानि-अप्रतिबद्धानि यौवनानि तारुण्यानि प्रथयति भोगेच्छाभि वृद्ध्या प्रख्यापयति / पूर्वत्र पद्ये जनानामिति क्रीडाशैलस्यास्य सर्वसाधारणत्वमुक्तमिति नेदृशे स्थाने प्रतिष्ठित पुरुषस्य विहारो युज्यते इति शङ्का सम्भवनाया निराशायात्र त्वदीयं स्वतन्त्रमेवोद्यानमेकान्तस्थानमस्तीति कथयति : अस्मिन् सान्द्रद्रुमचयचिते पर्वते वर्त्तते ते, क्रीडोद्यानं सुरवनसमं नाथ ! सर्वर्तुकाख्यम् / स्वेदं शीतो हरति सुरभिः संमतो यत्र वायुश्छायाऽऽदानात् क्षणपरिचितः पुष्पलावीमुखानाम् / / 28 / / व्याख्या - सान्द्रद्रुमचयचिते सान्द्रेण निबिडेन द्रुमाणां वृक्षाणां च येन समूहेन चिते व्याप्ते (अनेनास्य प्रच्छन्नत्वं ख्याप्यते) अस्मिन्, पूर्वनिर्दिष्टे पर्वते क्रीडाशैले, हे नाथ ! स्वामिन् ! ते भवतः सर्वर्तु काख्यम् सर्वे वसन्तादयः षडपि ऋतवः यत्र (एककालावच्छेदेनेति शेषः) तत् 'सर्वर्तुकम्' इति आख्या नाम यस्य तत्, सुरवनसमम् देवोद्यानन्दनाख्य वनसदृशम् (तत्रापि सर्वेषामृतूनां सर्वदा सहावस्थितेः प्रसिद्धेः, तत्साम्येन पूर्वोक्तार्थे दाढर्यं द्योतितम्) क्रीडोद्यानम् लीलारामः वर्त्तते विद्यते, (इति स्मरणीयमिति भावः) /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy