________________ 23 . शीलदूतम् (स्थुलभद्र चरित्रम्) व्याख्या - . - हे प्रिय ! प्रेमास्पदभूत ! ताते पितरि शकटाले त्रिदशभवनम् तिस्रो दशाः (बाल्य-कौमार-यौवनानि) वयोऽवस्था येषां ते त्रिदशाः त्रिंशद्वर्षा मनुष्ययुवानः, तादृशा इव सदा ये विद्यन्ते ते, देवाः तेषां भवनम् गृहं स्वर्गमित्यर्थः, याते गते (सति) ये बान्धवाः युष्मदाशानिबद्धाः तव भवतः आशया आश्रयेच्छया निबद्धाः कृत जीवनबन्धनाः (सन्तः) जीवन्ति प्राणान् धारयन्ति, तान् बान्धवान् परिहरन् परित्यजन् त्वं भवान् स्थूलभद्रः न लज्जसे न त्रपसे किम् इति प्रश्ने, अवश्यमेव लज्जसे इत्यर्थः त्वयि भवति गते प्रव्रजिते सति अस्तवित्ताः क्षीणधनाः, दशार्णाः दशानाम् दशसङ्ख्ययाऽनुमितानामुत्तमर्णानाम् ऋणं देयद्रव्यमस्ति येषां तादृशाः सन्तः ते बान्धवाः कतिपयस्थायिहंसाः कतिपयदिनं परिगणितवासरान् यावत् स्थायिनः स्थितिशीला हंसाः प्राणा येषां तादृशा आसन्नमृत्यव इत्यर्थः, सम्पत्स्यन्ते भविष्यन्ति / अथ दृष्टान्तप्रदर्शनेन व्रतत्यागपूर्वकं भोगासक्तौ प्रेरयति - भुङ्गे भोगान् किमिह नभवान् नन्दिषेणोऽपि तस्थौ ? वेश्याऽऽवासे चिरविरचितं प्रोज्झ्य चारित्रमुच्चैः / मुह्येत् को नो शुचि सुललितं वीक्ष्य वा वारनाbः, सभ्रूभङ्गं मुखमिव पयो वेत्रवत्या श्चलोमि ? / / 26 / / व्याख्या - भवान् भातीत्यर्थे भा धातोः डवतुना प्रत्ययेन निष्पन्नो भवच्छब्दः युष्मदर्थे प्रयुक्तः, इह संसारे मदीयाऽऽवासे वा भोगान् भुज्यन्ते इति भोगाः 'भुजेः कर्मणि घञ्' स्रक्चन्दनवनितादयो विषयाः तान् किं कुतो हेतोः न भुङ्क्ते उपभुङ्क्ते ? ननु गृहीत चारित्रस्य मम कथं भोगोपभोगौचित्यमित्याङ्कायां दृष्टान्तेन तदौचित्यं साधयतिनन्दिषेणः अपि